अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा मरुतः पूतदक्षाः।
वेदिर्बर्हिः समिधः शोशुचाना अप रक्षांस्यमुया धमन्तु ॥१॥ र्वर्हिः
अयं यो रूरो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोति ।
तस्मै ते ऽरणाय बभ्रवे तपुर्मघाय नमो ऽस्तु तक्मने ॥२॥
तक्मन् सार्थिनमिच्छस्व वशी सन् मृडयासि नः ।
अथेहि यत्र ते गृहा अनिनूर्त्तेषु दस्युषु ॥३॥
यः पुरुषः पारुषेयो ऽवध्वंस इवारुण: ।
तक्मानं विश्वधावीर्या अधराञ्चं परा सुव ॥४॥
अधराञ्चं प्र हिणोमि नमस्कृत्वा तक्मने ।
शकम्भरस्य मुष्टिहा पुनर्गच्छ महावृषान् ॥५॥
महावृषान्मूजवत ओक एधि परेत्य ।
व्रतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥६॥
ओोको अस्य मूजवन्त ओोको अस्य महावृषाः ।
याज्जातस्तक्मं तादसि बलिहिकेषु न्योचर: ॥७॥
तक्ष्मन् व्याल वि गद व्यङ्ग भूरि यावय ।
दासीं निष्टक्वरीमिछ तां वज्रेण समर्पय ॥८॥
गिरिं गच्छ गिरिजासि गिरौ ते माहिषो गृहः ।
दासीमिच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥९॥
यस्त्वं शीतो अथो रूर: सह कासावीविय: ।
भीमास्ते तक्मन् हेतयस्ताभि स्म परि वृङ्धि नः ॥१०॥


तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।
पाम्ना भ्रातृव्येण नश्येतो मरटाङ् अभि ॥१॥
गन्धारिभ्यो मूजवद्भ्य: काशिभ्यो मगधेभ्यः ।
जने प्रियमिव शेवधिं तक्मानं परि दध्मसि ॥२॥
नार्कविन्दान्नार्विदालान्नान्नदी वर्तकावतीम् ।
व्रतानि तक्मने बूमो अन्यक्षेत्राणि वा इमाः ॥३॥
अन्यक्षेत्रे न रमते सहस्राक्षो अमर्त्यः ।
अभूदु प्रार्थस्तक्मा स गमिष्यति बलिहिकाम् ॥४॥
अदो गच्छ मुजवतस्ततो वा घ परस्तरम् ।
मा स्मातो अभ्यैर्न: पुनस्तत्त्वा तक्मन्नुप ब्रुवे ॥५॥
परस्मै व त्वं चर परमस्यां परावति ।
यथा नो नान्तमायसि यथा नो नाभिशोचया ॥६॥

३  
यथेयमुर्वी पृथिवी वृद्धैव गर्भमादधे ।
एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥१॥
पर्वताद्दिवो योनेर्गात्राद्गात्रात् समाशृतम् ।
रेतो देवस्यदेवस्य त्सरौ पर्णमिवाधाम् ॥२॥
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥३॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं युवमश्विनास्यामा धत्तं पुष्करस्रजा ॥४॥
गर्भं ते राजा वरुणो गर्भं देवो बृहस्पतिः ।
गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥५॥
गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धा: ॥६॥
येनौषधयो गर्भिणी: पशवो येन गर्भिणः ।
तेषां गर्भस्य यो गर्भस्तेन त्वं गर्भिणी भव ॥७॥
वि ते ग्रन्थिं चृतामसि धाता गर्भं दधातु ते ।
आ योनिं पुत्रो रोहतु जननं प्रति जायताम् ॥८॥
जनिष्ट हि महिया आ योनिं समिहासरत् ।
अथा सोम इव भक्षणमा गर्भः सीदत्वृत्वियम् ॥९॥
धात: श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥


सवित: श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१॥
विष्णो: श्रेष्ठेन रूपेणास्या नार्या गवीन्यो:।
पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥२॥
त्वष्ट: श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥३॥
भगः श्रेष्ठेन रूपेणास्या नाव गवीन्यो: ।
पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥४॥
अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् ।
वृषाणं वृष्ण्यावन्तं प्रजायै त्वा नयामसि ॥५॥
यद्वेद राजा वरुणो वेद देवो बृहस्पतिः ।
इन्द्रो यद्वृत्रहा वेद तद्भर्भकरणं पिब ॥६॥
वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् ।
ददन्ते पुत्रं देवाः सोमपामुभयाविनम् ॥७॥
सोमस्य त्वर्त्वियेनोपैमि गर्भकृत्वने ।
ततस्ते पुत्रो जायतां कर्तवै वीर्येभ्यः ॥८॥


जायस्वाग्नेऽश्वत्थादस्मै क्षत्रायौजसे । ր
उग्र आपतिकादधि यो वृक्षां अधिरोहति ॥१॥
विबाधं चित् सहमानं त्वामग्ने जनयामसि ।
जातां जनिष्यमाणां सपत्नान् प्र णुदस्व मे ॥२॥
अश्वत्थस्यारोहस्य वृक्षस्यारणयः कृताः ।
ततो जाताय ते ऽजनि वीडुजम्भाग्निरग्नये ॥३॥
तं जातं जातवेदसमा दधाम्यमर्त्यम्॥
पावकमग्निमूतये शुचिमन्तं विषासहिम् ॥४॥
उत्तनुष्व धनुः प्रति मुञ्चस्व वर्म जहि शत्रून् वीर्या ते कृणोमि ।
अत्र रध्यन्तु य उ ते सपत्नास्त्वमेकवृषो भव ॥५॥
वृषभ त्वा सजातानां सपत्नानां विषासहिम् ।
हन्तारं शत्रूणां कृण्मो विराजं गोपतिं गवाम् ॥६॥
समुद्रोऽस्यपां ज्येष्ठ इन्द्रो देवेषु वृत्रहा ।
व्याघ्रं सिंहं त्वा कृण्मो दमितारं पृतन्यताम् ॥७॥
इन्द्र इव दस्यूनधरान् कृणुष्वोग्र इव वातो विशृणन् सपत्नान् ।
ते शुष्यन्त्वप दावादिवाग्ने: पर्यवीवरथा एनान् ॥८॥
सं वृश्चैनांस्ते शुष्यन्तु वृश्चैनान् मोपजां शिषः ।
सपत्नान् सर्वांस्तृढवा त्वमेकवृषो भव ॥९॥
त्वमुग्रस्त्वं बली त्वमेधि विवाचनम् ।
त्वं पृतन्यत: पूर्व: सपत्नां अव धूनुष्व ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP