संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चदशर्चोनाम द्वादशकाण्डः| ६ ते १० पञ्चदशर्चोनाम द्वादशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २२ द्वादशकाण्डः - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६असपत्न: सपत्नहेन्द्र इवारिष्टो अक्षितः ।अध: सपत्नास्ते पदो: सर्वे सन्त्वभिष्ठिताः ॥१॥म्लायन्तु ते खातमूलाः सपत्ना अग्निमेषां निर्ह्वयामि शरीरात् ।हविषैषामपि दधामि प्राणांस्तथैभ्यो अमुचिः कृताः ॥२॥अभिवर्धमभिभवं सपत्नक्षयणं हविः ।राष्ट्राय तुभ्यं कृण्मः सपत्नेभ्यः पराभवन् ॥३॥यो न: स्वो यो अरणो ऽरातीयति पूरुषः ।इध्मस्येव प्रक्षायकस्तस्य मोच्छेषि किं चन ॥४॥असपत्नं पुरस्तात् पश्चान्नो ऽभयं कृतम् ।सविता मा दक्षिणत उत्तरान्मा शचीपतिः ॥५॥दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः।इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।तिरश्चीनघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वत: सन्तु वर्म ॥६॥७त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे ।त्वया जघान कश्यपस्त्वया कृण्वो अगस्त्य: ॥१॥त्वया वयमप्सरसो गन्धर्वांश्चातयामसि ।अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥२॥नदीं यन्त्वप्सरसो अपान्तारमिव श्वसन् । .गुल्गुलू पीला नलद्यौक्षगन्धिः प्रमन्दिनी ॥३॥यत्रामर्त्या अप्स्वन्तः समुद्रे तरुर्नीली तुर्वशी पुण्डरिका।तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ॥४॥यत्र प्रेङ्खो गन्धर्वाणां दिवि बद्धो हिरण्ययः ।तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ॥५॥गन्धर्वाणामप्सरसामानर्तमिति संगमम्।तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ॥६॥यत्राश्वत्था न्यग्रोधा महारुक्मा: शिखण्डिन: ।तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ॥७॥यत्र वो ऽक्षा हरिता अर्जुना आघाटाः कर्कयः संवदन्ति ।तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ॥८॥इयं वीरुच्छिखण्डिनो गन्धर्वस्याप्सरापतेः ।भिनत्तु मुष्कावपि यातु शेफः ॥९॥एयमगन्नोषधिर्वीरुधां वीर्यावती ।अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥१०॥८अपेतेतो अप्सरसो गन्धर्वा यत्र वो गृहाः ।तीक्ष्णशृङ्ग्यराटक्यजशृङ्गी व्यृषतु ॥१॥जाया वेद वो अप्सरसो गन्धर्वाः पतयो यूयम् ।अप क्रामत् पुरुषादमर्त्या मर्त्यं मा सचध्वम् ॥२॥भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मै ।ताभिर्गन्धर्वानभैद्यानवकादान् व्यृषतु ॥३॥अवकादाङ् अभिशाचो भित्सु द्योतयमामकान् ।गन्धर्वान् सर्वानोषधे प्र णुदस्व परा णय ॥४॥उन्माद्यन्तीरभिशोचयन्तीर्मुनिं नग्नं कृण्वतीर्मोघहासिनम्अप्सरसो रघटो याश्चरन्ति गन्धर्वपत्नीरजशृङ्ग्याशये ॥५॥श्वेतीकृण्वानः पुरुषं विश्वा रूपाणि बोभुवत् ।श्वेवैकं कपिरिवैकं कुमार: सर्वकेशकः ।प्रिय दृशे भूत्वा गन्धर्वः सचते स्त्रियं तमितो नाशयामसि ॥६॥ ९यो वै वशां देवयते पचते वाहुताममा ।मृत्योः स बध्यते पाशे देवानां च यमस्य च ॥१॥दक्षिणां सूर्यामदितिं वदन्ति वशां वाचं कल्पयन्तः समानीम् ।सप्तऋषयो नि दधुर्वाचमेतां सरस्वती मृडया कल्पयन्त: ॥२॥इमां वशां वाचमाहुर्वशेति तिस्रो वशा अतिहिताः सधस्थे ।तासामग्नौ मनसैकां जुहोमि तां नः स्वाद्वीं भूतपतिः कृणोतु ॥३॥स्वाद्वीं न एतां सविता कृणोतु स्वाद्वीं न एतां जनिता पशूनाम् ।जुहुध्यग्ने वयुनानि विद्वांस्तां न: स्वाद्वीं भूतपतिः कृणोतु ॥४॥इदं तृतीयं वशिनी वशाशि महिम्ने त्वा गर्भो अभ्या विवेश ।उशती त्वमुशतो गच्छ देवान् सत्याः सन्तु यजमानस्य कामाः ॥५॥इयमम्भसा वाजसुतस्तभे गौर्यस्यामिन्द्रो वरुणस्तित्विषाते ।नृम्णमनृम्णं सचत इयमागन् धीरः पशुर्वीर्यमा विवेश ॥६॥वशा ससूव स्थविरं विपश्चितं वशा ससूव वष्कयं दिविस्पृशन् ।वशा ससूव तरुणं विभाजने वशा ससूव संजितं धनानाम् ॥७॥यत् प्रोक्षणमपतद्बर्हिषस्परि दक्षिणतो वेद्या इन्द्रियावत् ।वशा संभूत्याधि गौरमीमेतस्या: पीवो अभवद्वर्मवाससम् ॥८॥रमि नमो महिम्न उत चक्षुषे वां वशर्षभो मनसा तत् कृणोमि ।देवाङ् अपीतं पथिभिः शिवेभिर्मा नो हिंसिष्टं हरसा देव्येन ॥९॥वशामस्कन्ददृषभस्तिष्ठन्तीमधि तन्तुषु ।गर्भं तमद्य को वेद यतिधा सो अकल्पयत् ॥१०॥१०रूपमेक: पर्यभवद्राजा नामैक उच्यते ।पतीरूपस्यैको रूपं रूपमेक: सुकृत्वनाम् ॥१॥प्रजापति: परमेष्ठी मृत्युर्विश्वानर: स्वः ।सरस्वानस्या यज्ञस्य वशाया अधि जज्ञिरे ॥२॥यस्य गृह आदायेत वशा देवकृतं हविः ।निधानमस्या एष्यं दुहित्रे पत्यामिव ॥३॥नास्याः सकृदभि तिष्ठेन्नास्य श्लोणा गृहे स्यात् ।वशा कन्येव दुर्मङ्कापचित्याविजानता ॥४॥नैनां रक्षेत् ब्राह्मणेभ्यो नामा वि ग्लापयाति च ।यतीं न पत्या वर्तयेद् यस्य गोषु वशा स्यात् ॥५॥नास्या वशमा रुन्धेद् देवा मनुष्या उत ।वशं यदन्वैद् ब्रह्मणा तस्मादेषाभवद्वशा ॥६॥वशं कृण्वाना वशिनीयमागन् पदं कल्याण्यवपश्यमाना ।अग्निष्ट्येष्टिमभि जायमाना यज्ञस्य मात्रामभिकल्पमाना ॥७॥इन्द्रवन्तस्ते मरुतस्तुरीयं भेजिरे वशे।तुरीयमादित्या रुद्रास्तुरीयं वसवो वशे ॥८॥तुरीयभाज आदित्यान् वशायाः कवयो विदुः ।अथास्याः पथ्यैका तनुश्चतस्रश्चक्लृपे दिशः ॥९॥वशा पन्थामन्वपश्यन्नाकपृष्ठं स्वर्विदाम् ।आदित्या एनामन्वायन्नृषयश्च तपस्विनः ॥१o॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP