संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकादशर्चोनाम अष्टमकाण्डः| ११ ते १५ एकादशर्चोनाम अष्टमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० अष्टमकाण्डः - ११ ते १५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १५ Translation - भाषांतर ११चतस्रस्ते खल स्रवतीरथो मध्यमहं खल ।धाराश्चतस्रस्तोष्यामि वेदिं मनुष्यवर्धनीम् ॥१॥ऊर्जस्वन्तमा रभध्वं स्फातिमन्तं पुनीतन ।इन्द्रो बीजस्याभ्यावोढा भग ऐतु पुरोगव: ॥२॥भगस्य ह्यनड्वाहौ युञ्जाथां राशिवाहनौ ।अधा पृथिव्या: कीलालमिहा वहतमश्विना ॥३॥अभिवृतः परिहितो धान्येन विभुः प्रभुः ।भर्ता मनुष्याणां जज्ञे देवानामाज्यं खल: ॥४॥स्रुच आसन् पवनीः सृणीकाः परिधिष्कृत: ।कीनाशा आसन् होतारो बीजदा आसीद्धविष्पतिः ॥५॥इहेन्द्र मुष्टी वि सृजस्व पूर्णाविह सौमनसः समृध्यताम् ।हुतादो ये च गन्धर्वास्त इह स्फातिं समा वहान् ॥६॥अतिपश्यो निचायक इडुक: पक्वमा भर ।ईशाना गन्धर्वा भुवनस्य सर्व आ वहन्तु खले स्फातिमिह सूनृतां च ॥७॥आा पश्चादा पुरस्तादोत्तरादधरादुत ।इन्द्रेह वसोरीशान: खले स्फातिं समा वह ॥८॥स्फातिमिन्द्रः खले बह्वीमिहत्प्राण उत्पृणत् ।स्फातिं मे विश्वे देवा: स्फातिं सोमो अथो भगः ॥९॥स्फातिर्मे अस्तु हस्तयोः स्फातिर्यत्र परारभे ।शतहस्तेदमुत्पृण समुद्रस्येव मध्यतः ॥१०॥इह मे भूय आ भर यथाहं कामये तथा ।यथेदमुदिव स्फायातै त्रय इव हस्तिनः सह ॥११॥१२स्वाद्वीं त्वा मित्रावरुणा स्वाद्वीं देवी सरस्वती ।स्वाद्वीं त्वा अश्विन सुरे कृणुतां पुष्करस्रजा ॥१॥यामसिञ्चन् सौधन्वना विश्वे देवा मरुद्भणाः ।यामश्विनासिञ्चतां सा सुरा बहुधावतु ॥२॥स्वादोः स्वादीयसी भव मधोर्मधुतरा भव ।यथर्श्यस्येयमारिश्येवा त्वं सुभगे भव ॥३॥अभ्राज्जातं वर्षाज्जातमथो जातं दिवस्परि ।अथो समुद्राज्जातं तत् सुरादरणं भव ॥४॥नाडी नामासि जनुषा सा सुरादरणी भव ।सखा हि भद्रस्त आसीद् वृक्षः स्वादुविकङ्कतः ॥५॥असुरस्त्वौर्ध्वनभसश्चकार प्रथम: सुरे ।सुरे दासस्य त्वा गृहे शिरश्चान्धश्च चक्रतुः ॥६॥निष्पुष्पकं कशीकाया निर्धाराया: सुरामुत ।उदेहि वाजिनीवति किमङ्कतिष्विच्छसि ॥७॥इमे ते जन्या आसते गम्भीरा अभिधृष्णवः ।सुरे देवि परि प्रेहि मादयन्ती जनंजनम् ॥८॥यस्या गृह्णन्ति स्थालेन गामश्वं धान्यं वसु ।सा सुरा बहुधावतु ॥९॥आचरन्तीः पर्वतेभ्य: खनमाना अनभ्रयः ।यासां समुद्रे संस्थानं यासां नास्ति निवेशनंतास्ते ददतु बुदबुदम् ॥१०॥उदंकोदचेमां सुरां यां हृदा कामयामहे ।तां मे भगस्तामश्विना तां मा बट् सरस्वती ॥११॥अयं देवो मयूलश: सा सुरादरणं ददत ।संस्रवणात् प्रस्रवणाद् गिरिभ्यस्पर्याभृतः ।मध्ये शतस्य मष्टिकोऽनड्वानिव मेहतु ॥१२॥१३समुद्रादूर्मिर्मधुमाङ् उदारदुपांशुना सममृतत्वमानट् । तु. ऋग्वेद घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥१॥वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः ।उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥२॥चत्चारि शृङ्गा व्रयो अस्य पादा द्वे शीर्ष सप्त हस्तासो अस्य ।त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याङ् आा विवेश ॥३॥त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् ।इन्द एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥४॥एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे !घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥५॥सम्यक् स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः ।एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणा: ॥६॥सिन्धोरिव प्राध्वने शूघनासो वात: प्रमीयः पतयन्ति यह्वा: ।घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभि: पिन्वमानः ॥७॥अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् ।घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥८॥कन्या इव वहतुमेतवा उ अञ्जञ्जाना अभि चाकशीमि ।यत्र सोम: सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते ॥९॥अभ्यर्षत सुष्टुतिं गव्यमाजीमस्मासु भद्रा द्रविणानि धत्त ।इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥१०॥धामन्ते विश्वं भुवनमधि श्रितमन्त: समुद्रे हृद्यन्तरायुषि ।अपामनीकात् समिथाद्य आाभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥११॥१४द्वे विरूपे चरतः स्वथें अन्यान्या वत्समुप धापयेते । तु. ऋ. १.९५.१हरिरन्यस्यां भवति स्वधावाञ् शुक्रो अन्यस्यां ददृशे सुवर्चाः ॥१॥दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् ।तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति ॥२॥त्रीणि जानात् प्रति भूषन्त्यस्य समुद्र एकं दिव्येकंमप्सु !पूर्वामनु प्रदिशं पार्थिवानामृतून् प्रशासद् वि दधावनुष्टु ॥३॥क इमं वो निण्यमा चिकेत वत्सो मातृर्जनयत स्वधाभिः ।बह्वीनां गर्भो अपसामुपस्थान् महान् कविर्निश्चरति स्वधावान् ॥४॥आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयसामुपस्थे ।उभे त्वष्टुर्बिभ्यतुर्जायमानात् प्रतीची सिंहं प्रति जोषयेते ॥५॥उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवै:।स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥६॥उद् ययंमीति सवितेव बाहू उभे सिचौ यतते भीमरुञ्जन् ।उच्छुक्रमत्कमञ्जते सिमस्मान् नवा मातृभ्यो वसना जहाति ॥७॥त्वेषं रूपं कृणुत उत्तरं यत् संपृञ्चानः सदनं गोभिरद्भि: ।कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ॥८॥उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम ।विश्वेभिरग्ने स्वयशोभिरिद्धो ऽदब्धेभिः पायुभिः पाह्यस्मान् ॥९॥धन्वं स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम्।विश्वा सनानि जठरेषु धत्ते ऽन्तर्नवासु चरति प्रसूषु ॥१०॥एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसा वि भाहि॥तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥१५यो जामदग्न्य इह कौशिको य आत्रेय उत काश्यपो य: ।भरद्वाजा गोतमा ये वसिष्ठास्तेभ्य: प्र बूम इह किल्बिषाणि ॥१॥अगस्तय: कण्वाः कुत्साः प्रस्रवणा विरूपा गर्गा मुद्गला यस्काः शौनकाः।संकृतयो ब्राह्मणा ये न दुग्धास्तेभ्य: प्र बूम इह किल्बिषाणि ॥२॥यो नोत्तिष्ठाद् ब्राह्मणे नाधमाने मान्द्येन दृप्त उत धैर्यण ।विश्वे देवा उपद्रष्टारो ऽस्य तस्मिन्विषं सं नयान् किल्बिष्यम् ॥३॥या रोपय: किल्बिषे ब्राह्मणस्य यानि चैनांसि बहुधा दुष्कृतानि।अनुत्तिष्ठन् प्रोक्त आत्मनि तान् नि धत्ते तथा तद्देवा उत वेशयन्ति ॥४॥ना ऽश्नीयान्न पिबेन्न शयीत न निंसीत जायां नोत पुत्रम् । पिवेन्नब्रह्मकिल्बिषे प्रोक्त उदेव तिष्ठेत् स ऋतस्य पन्थाः ॥५॥शतर्चिनो माध्यमा ये महर्षयः क्षुद्रसूक्तानामुत या प्रजेह ।ऋषीणां यानि जनिमानि विद्मस्तेभ्य: प्र ब्रूम इह किल्बिषाणि ॥६॥सोदर्याणां पञ्चदशानां शतानां त्रयस्त्रिंशदुदशिष्यन्त देवाः ।एकस्मिन्विद्धे सर्वे ऽरुप्यन् तद् ब्राह्मणे किल्बिषमन्वविन्दन् ॥७॥तस्मै स द्रुह्याद्य इदं नायद्यो नोत्तिष्ठाद्यो न वदाता अस्मिन् ।ब्राह्मणस्य किल्बिषे नाथितस्य सोदर्यतामिच्छतो ब्राह्मणेषु ॥८॥उत्तिष्ठता ब्राह्मणाः सं वदध्वं जीतं याचामि पुनरैतु सर्वम् ।इन्द्राग्नी विश्वे देवास्ते मे जीतं पुनरा वर्तयन्तु ॥९॥स दीर्घमायुष्कृणुते स प्रजायै चिकित्सति ।यो ब्राह्मणस्य ब्राह्मणो हूतो अन्वेति किल्बिषे ॥१०॥नास्य प्रजां शर्वो हन्ति न रुद्रो हन्ति नाशनि: ।यो ब्राह्मणस्य ब्राह्मणः सत्यं वदति किल्बिषे ॥११॥तं सोमपीथो जुषते नृचक्षा ग्रावभिः सह ।यो ब्राह्मणस्यास्तां हृद: सूर्य इवापालुपत्तमः ॥१२॥य उत्थाय किल्बिषे ब्राह्मणस्यान्नमीच्छन्नवायति ।उभे एनं द्यावापृथिवी सं तपतामथैत्वगतस्य पन्थाम् ॥१३॥(इति एकादशर्चोनाम अष्टमकाण्डे तृतीयोऽनुवाक:) N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP