कथा दिवे असुराय ब्रवाम कथा पित्रे हरये त्वेषनृम्ण:।
पृश्निं वरुण दक्षिणां ददावान् पुनर्मघत्वं मनसाचिकित्सी ॥१॥
न कामेन पुनर्मघो भवामि संपृच्य कं पृश्निमेतामुपाजे।
केन मत् त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ॥२॥
सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।
न मे दासो नार्यो महित्वं व्रतं मीमाय यदहं धरिष्ये ॥३॥
न त्वदन्यः कवितरो न वेधा न धीरतरो वरुण स्वधावः ।
त्वमङ्ग विश्वा जनिमानि वेत्थ स चिन्नु त्वज्जनो मायी बिभाय ॥४॥
त्वं ह्यङ्ग वरुण स्वधावो विश्वानि वेत्थ जनिमा शर्धनीते।
किमेना रजसः परो ऽस्ति किमवरेणावरममुर ॥५॥
एकमेना रजसः परो ऽस्ति पर एकेन दुर्दाशं चिदन्यत् ।
तत् ते विद्वान् वरुण प्र ब्रवीम्यधोवचस: पणयो भवन्तु
नीचैर्दासा उप सर्पन्तु रिप्राः ॥६॥
त्वं ह्यङ्ग वरुण प्र ब्रवीषि पुनर्मघेष्ववद्यानि भूरि ।
मो षु पण्यभ्येतावता भूम त्वा वोचन्नराधसं जनास: ॥७॥
मा मा वोचन्नराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि ।
स्तोत्रं मे विश्वमा याहि जनेष्वन्तर्देवेषु मानुषेषु विप्र ॥८॥
आ ते स्तोत्राणि वर्धनानि यामि देहि तन्महां यददत्तमस्ति॥
युज्यो नः सप्तपदः सखासि समा नौ बन्धुर्वरुणः समा जा ॥९॥
वेद वै तद्यन्नौ समा जा ददामि तुभ्यं यददत्तमस्ति ।
देवो देवाय गृणते वयोधा विप्र विप्राय स्तुवते सुमेधाः ॥१०॥
अजीजनो हि वरुण स्वधावन्नथर्वाणं पितरं विश्वदेवम् ।
तस्मा उर्वायुः कृणुहि प्रशस्तं सखा नोऽसि परमश्च बन्धुः ॥११॥


वृषा मे रवो नभसा न तन्यतुरुग्रेण तं वचसा वाध इदु ते । तु. शौ.सं. ५.१३.३
अहं तमस्य ग्रभिरग्रभं रसं ज्योतिषेव तमस उदेति सूर्यः ॥१॥
यत् ते ऽपोदकं विषं तत् त आत्ताभिरग्रभम्।
गृह्णामि मध्यमुत्तममुताचमं भियसा नेशदादु ते ॥२॥
बलेन ते बलं हन्मि तन्वा हन्मि ते तनुम्।
विषेण हन्मि ते विषमहे मुरिष्टा मा जीवीत्
प्रत्यगभ्येतु त्वा विषम् ॥३॥
असितस्य तैमातस्य बभ्रोरपोदकस्य च।
सात्रासाहस्याहं मन्योर्ज्यामिव धन्वनो वि मुञ्चामि रथां इव ॥४॥
कैलात पृश्न उपतृण्य बभ्रवा मे शृणुतासिता अलीकाः ।
मा नः सख्युः काममपि ष्ठाता श्रावयाद्धो वीर्षे रभध्वम् ॥५॥
आलिकि च विलि पिता यस्ते माता च।
विद्म ते विश्वतो बन्धुमरस किं करिष्यसि ॥६॥
उरुगूलाया दुहिता जाता दास्यसिक्न्याः ।
प्रतङ्कं ददुषी नु साहीनरसाङ् अक: ॥७॥
कर्णा श्वाविदब्रवीद् गिरेरवचरन्तिका ।
या: काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥८॥
ताबुवं न ताबुवं न घेदसि त्वं ताबुवम्।
ताबुवेनारसं विषम् ॥९॥
तस्तुवं न तस्तुवं न घेदसि त्वं तस्तुवम् ।
तस्तुवेनारसं विषम् ॥१०॥
अरसं ते ऽहे विषमियं कृणोत्वोषधिः ।
त्रायमाणा सहमाना सहस्वती सहाता इद्
गोरश्वात् पुरुषाद् विषम् ॥११॥


यदाञ्जनं त्रैककुदं जातं हिमवतस्परि । तु. शौ.सं. ४.९
यातूंश्च सर्वान् जम्भया सर्वांश्च यातुधान्य: ॥१॥
उतेवासि परिपाणं यातुजम्भनमाञ्जन ।
उतामृतत्वस्येशिष उतासि पितुभोजनम् ॥२॥
परिपाणं पुरुषाणां परिपाणं गवामसि ।
अश्वानामर्वतामित् परिपाणाय तस्थिषे ॥३॥
परि मां परि णः प्रियं परि णः पाहि यद्धनम् ।
अरातिरिन्नो मा तारीन्मा च नः किं चनाममत् ॥४॥
न तं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ।
नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्यञ्जन ॥५॥
असन्मन्त्र्याद् दुष्वप्न्यात् क्षेत्रियाच्छपथादुत ।
दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ॥६॥
त्रयो दासा आञ्जनस्य तक्मा बलास आदहि: ।
वर्षिष्ठ: पर्वतानां त्रिककुन्नाम ते पिता ॥७॥
वृत्रस्यासि कनीनिका पर्वतस्यास्यक्ष्यौ ।
देवेभि: सर्वैः प्रोक्तं परिधिर्नाम वा असि ॥८॥
वैद ह वेद ते नाम गन्धर्वः परिवाचनम् ।
यत आञ्जन प्रजायसे तत एह्यरिष्टतातये ॥९॥
यदि वासि त्रैककुदं यदि यामुनमुच्यसे ।
उभे ते भद्रे नाम्नी ताभ्यां न: पाह्याञ्जन ॥१०॥
यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः ।
तस्माद्यक्ष्मं वि बाधोस्यग्रो मध्यमशीरिव ॥११॥
नैनं घ्नन्ति पर्यायिणो न सन्नाङ् अव गच्छति ।
जने स न प्र मीयते यस्त्वा बिभर्त्याञ्जन ॥१२॥
इदं विद्वानाञ्जन सत्यं वक्ष्यामि नानृतम् ।
सनेयमश्वं गां वास आत्मानं तव पूरुष ॥१३॥


य एकवृषो ऽसि सृजारसो ऽसि ॥१॥
यो द्विवृषो ऽसि सृजारसो ऽसि ॥२॥
यस्त्रिवृषो ऽसि सृजारसो ऽसि ॥३॥
यश्चतुर्वृषो ऽसि सृजारसो ऽसि ॥४॥
यः पञ्चवृषो ऽसि सृजारसो ऽसि ॥५॥
य: षड्वृषो ऽसि सृजारसो ऽसि ॥६॥
यः सप्तवृषो ऽसि सृजारसो ऽसि ॥७॥
यो ऽष्टवृषो ऽसि सृजारसो ऽसि ॥८॥
यो नववृषो ऽसि सृजारसो ऽसि ॥९॥
यो दशवृषो ऽसि सृजारसो ऽसि ॥१०॥
यो ऽपोदको ऽसि सृजारसो ऽसि ॥११॥


एका च मे दश चापवक्तार ओषधे । तु. शौ.सं. ५.१५
ऋतजात ऋतावरि मधु त्वा मधुला करत् ॥१॥
द्वे च मे विंशतिश्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत ॥२॥
तिस्रश्च मे त्रिंशच्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ॥३॥
चतस्रश्च मे चत्चारिंशाच्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ॥४॥
पञ्च च मे पञ्चाशच्चापवक्तार ओषधे !
ऋतजात ऋतावरि मधु त्वा मधुला करत् ॥५॥
षट् च मे षष्टिश्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ॥६॥
सप्त च मे सप्ततिश्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ॥७॥
अष्ट च मे ऽशीतिश्चापवक्तार ओषधे !
ऋतजात ऋतावरि मधु त्वा मधुला करत् ॥८॥
नव च मे नवतिश्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ॥९॥
दश च मे शतं चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ॥१०॥
शतं च मे सहस्रं चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ॥११॥
(इति एकादशर्चोनाम अष्टमकाण्डे प्रथम अनुवाक:)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP