संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकादशर्चोनाम अष्टमकाण्डः| ६ ते १० एकादशर्चोनाम अष्टमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० अष्टमकाण्डः - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६आ पश्यसि प्रति पश्यसि परा पश्यसि पश्यसि । तु. शौनक संहिता ४.२०द्यामन्तरिक्षमाद्भूमिं तत् सर्वं देवि पश्यसि ॥१॥तिस्रो दिवस्तिस्र: पृथिवी: षट् चेमाः प्रदिशो मही: ।तयाहं सर्वान् यातून् पश्यानि देव्योषधे ॥२॥सुपर्णस्य दिव्यस्य तस्य हासि कनीनिका ।सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥३॥तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत् ।तयाहं सर्वं पश्यानि यद्भूतं यच्च भाव्यम् ॥४॥यथा श्वा चतुरक्षो यथाश्वः स्यावोर्वताम् ।यथाग्निर्विश्वत: प्रत्यङ् एवा त्वमस्योषधे ॥५॥कश्यपस्य चक्षुरसि शुन्याश्चतुरक्ष्याः।वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥६॥दर्शय मा यातुधानान् दर्शय यातुधान्यः ।आपस्पृत इव तिष्ठन्तं दर्शय मा किमीदिनम् ॥७॥उदग्रभं परिपाणं यातुधानात् किमीदिनः।तेनाहं सर्व पश्यान्युत शूद्रमुतार्यम् ॥८॥यथा सूर्यश्चन्द्रमाश्च विश्वा भूता विपश्यतः ।एवा वि पश्य तान् त्वमघायुर्मोंप गादिह ॥९॥यो अन्तरिक्षेण पतति भूमिं यश्चोपसर्पति ।दिवं यो मन्यते नाथं तं पिशाच दृशे कुरु १०॥आाविष्कृणुष्व रूपाणि मात्मानमपि गूहथाः ।अधा सहस्रचक्षो त्वं प्रति पश्यास्यायतः ॥११॥७मोक्षेजांस्तोदुंस्तुमलान् पथिष्ठाङ् उत पार्षतान् ।अहीनां सर्वेषां विषमरसं कृण्वोषधे ॥१॥अश्वक्रन्दस्य वण्डस्य पृदाकोर्गोनसेरुत ।श्वित्राणां सर्वेषां विषमरसं कृण्वोषधे॥२ ॥कृण्वषोधेद्यांपातस्य गवकस्य गोधापृष्ठेरहेरुत ।असितानामेतज्जातमरिष्टे ऽरसं कृधि ॥३॥एतज्जातं स्वजानां तद् बभ्रो अरसं कृधि ।सर्वस्य बभ्रोर्भेषज्यसीहि विषदूषणी ॥४॥त्रायमाणा प्र ब्रवीतु सर्वाङ् राजो अहीनाम् ।तिरश्चिराजीनसितानथो उपशयाश्च ये ॥५॥सहसाहं यातुधानान् सहसा यातुधान्यः ।सहो वः सर्वान् सासाह तस्याहं नाम जग्रभ ॥६॥सह: साकं पैद्वेनोग्रेण वचसा मम ।अन्धाहींश्च सृञ्जयांश्च शफकांश्च रथव्रयः ।सृजयाश्चसहसा सह उत्पत्य तान् सर्वाङ् अरसाङ् अक: ॥७॥असितस्य विद्रधस्य हरितो यश्च विद्रध: ।निमङ्क्षी विद्रधानां यो मृजन्ती ताङ् अजीजनत् ॥८॥या: स्वजानां नीलग्रीवो या: स्वजानां हरिरुत ।कल्माषपुच्छमोषधे जम्भयास्यरुन्धति ॥९॥मायं मरदहिदष्टः पितुरस्मा असद् विषम् ।इमा ह्यस्मा ओषधिमा हराम्यरुन्धतीम् ॥१०॥एतज्जातं पृदाकूनामरसं जीवले कृधि ।इन्द्रस्य भद्रिका वीरुदसीहि विषदूषणी ॥११॥८शतमर्वाक् प्र स्यन्दन्ते प्र स्यन्दन्ते शतं परः ।शतं वृत्रस्य काण्डानि तेभ्य आपो वि धावथ ॥१॥अन्तरिक्षे पतयिष्णवो नभसस्परि जज्ञिरे ।आपो हिरणयवर्णास्तास्ते भवन्तु शं हदे ॥२॥शं ते सन्तु हृदयाय शं ते हृदयाभ्य: ।शं ते यकक्लोमभ्यः शमु ते यन्तष्ठेभ्य: ॥३॥यदङ्गैरप्पसिस्मिषे यच्छीर्ष्णा यच्च पृष्टिभिः ।आपस्तत् सर्वं निष्करन् तष्टा रिष्टमिवानसः ॥४॥सं हृदयेन हृदयमोपशेन समोपशः ।अद्भिर्मुञ्चापस्मितं पार्ष्णिद्योतः समेतु मे ॥५॥आचरन्तीः पर्वतेभ्यो देवीर्देवेभ्यस्परि ।आपो यमद्य प्रापन् न स रिष्याति पूरुषः ॥६॥शं त आपो हैमवती: शमु ते सन्तूत्स्या: ।शं ते सनिष्यदा आप: शमु ते सन्तु वर्ष्या: ॥७॥शं त आपो धन्वन्याः शमु ते सन्त्वनूप्याः ।शं ते खनित्रिमा आपः शं या: कुम्भेभिराभृताः ॥८॥अनभ्रय: खनमाना विप्रा गम्भीरे ऽपस: ।भिषग्भ्यो भिषक्तरा आपो अच्छा वदामसि ॥९॥अपामह दिव्यानामपां स्रोतस्यानाम् ।अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥१०॥ता आपः शिवा आपो ऽयक्ष्मंकरणीरप: ।यथैव तृष्यते मयस्तास्त आद्युक्तभेषजी ॥११॥९ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान ।भूतानां ब्रह्म प्रथमोत यज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥१॥ब्रह्मेमे द्यावापृथिवी ब्रह्मेमे सप्त सिन्धवः ।ब्रह्मेमे सर्व आदित्या ब्रह्म देवा उपासते ॥२॥ब्रह्म ब्राह्मणो वदति ब्रह्म रात्री नि विशते ।सावित्रं ब्रह्मणो जातं ब्रह्मणाग्निर्वि रोचते ॥३॥ब्रह्मौषधयो नि तिष्ठन्ति ब्रह्म वर्षन्ति वृष्टयः ।ब्रह्मेदं सर्वमात्मन्वद यावत् सूर्यो विपश्यति ॥४॥ब्रह्म होता ब्रह्म यज्ञो ब्रह्मणा स्वरवो मिता: ।अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोत्तिरते हविः ॥५॥अध्वर्युब्रह्मणोब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्यता॥ब्रह्म यज्ञस्य तन्तव ऋत्वियो ये हविष्कृतः ॥६॥ब्रह्म ऋषभो भद्ररेता ब्रह्म गावो हविष्कृतः ।ब्रह्म रथस्य देवस्य यज्जयाति स्वरङ्कृत: ॥७॥ब्रह्मणा शीरं वहति ब्रह्मणा युज्यते रथः ।ब्रह्मणा पुरुषो द्विपान्न व्यथते चरन् ॥८॥ब्रह्मणो जाता ऋषयो ब्रह्मणो राजन्या उत ।ब्रह्मेदं ब्रह्मणो जातं ब्रह्मणो ऽविष्या अन्नम् ॥९॥ब्रह्म शूद्रा राजन्यानां ब्रह्मैषामुत विक्षद: ।ब्रह्मैषां भद्रं सादनं ब्रह्मणैषां सभासदः ॥१०॥ब्रह्य दाशा ब्रह्म दासा ब्रहोमे कितवा उत ।स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्म उत वावन ॥११॥ब्रह्मोद्वतो निवतो ब्रह्म संवतो वानस्पत्याः पर्वता ब्रह्म वीरुधः ।ब्रह्मेदं सर्वमन्वा ततानान्तरा द्यावापृथिवी उभे ॥१२॥ब्रह्मैवाभूदुत्तरं जातवेदोरद्वज्रो यातुधानं महालम् ।भवाशर्वौ तपुषीं हेतिमस्मै मयेषितौ वि सृजतां वधाय ॥१३॥१०यदश्विना ओषधीष्वासिक्तं पुष्करस्रजा वीरुधो मधु बिभ्रति।तेनाहमस्या मूर्धानमभि षिञ्छामि नार्याः ॥१॥यदश्विना पुष्पादधि माक्षिकं मधु संभृतम् ।अन्ने लवणे यन्मधु तेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः ॥२॥यदश्विना गुल्गुन्याञ्जने मधु संभृतं यदस्मिन् मधुघे मधु ।तेनाहमस्या मूर्धानमभि षिञ्चामि नार्या: ॥३॥यदश्विनाक्ष मधु गोष्वश्वेषु यन् मधु !सुरायां सिच्यमानायां कीलाले ऽधि यन् मधुतेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः ॥४॥यदश्विना गोवर्चसं हिरण्यवर्चसं हस्तिवर्चसमश्विना ।तेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः ॥५॥अभि नन्दमभि मोदमभि दर्पं कृणोमि ते ।आ ते भगं वर्तयतामश्विना पुष्करस्रजा ॥६॥दत्सु ते वर्च: सुभगे जिहृायां ते मधूलकम् ।अक्ष्यौ निकरणी तव प्रतीकं मधुमत्तरम् ॥७॥आ सचस्व तलाशेव वृक्ष इवापतिक: पतिम् ।त्वं समग्रभीः पुंसः श्येन इवान्यान् पतत्रिण: ॥८॥आ हि ते हार्षमुदकमपो भगाभिषेचनीः॥यत्ते वर्चो ऽपक्रान्तं मुखस्य प्रतिचक्षणात् ।पुनस्तदश्विना त्वय्या धत्तां पुष्करस्रजा ॥९॥अभि त्वा वर्चसासिचं दिव्येन पयसा सह ।यथा पतिवत्न्यसो देवृग्भ्यो मधुमत्तरा ॥१०॥भगं ते मित्रावरुणा भगं देवी सरस्वती ।भगं ते अश्विनोभा धत्तां पुष्करस्रजा ॥११॥पतिं ते राजा वरुणः पतिं देवो बृहस्पतिः ।पतिं त इन्द्रश्चाग्निश्च पतिं धाता दधातु ते ॥१२॥(इति एकादशर्चोनाम अष्टमकाण्डे द्वितीयोऽनुवाक:) N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP