संस्कृत सूची|संस्कृत साहित्य|उपनिषद|वराहोपनिषत्| चतुर्थोऽद्यायः वराहोपनिषत् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽद्यायः पञ्चमोऽध्यायः वराहोपनिषत् - चतुर्थोऽद्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद चतुर्थोऽद्यायः Translation - भाषांतर अथ ह ऋभुं भगवन्तं निदाघः पप्रच्छ जीवन्मुक्तिलक्षणमनुब्रूहीति ।तथेति स होवाच । सप्तभूमिषु जीवन्मुक्ताश्चत्वारः ।शुभेच्छा प्रथमा भूमिका भवति । विचारणा द्वितीया । तनुमानसी तृतीया ।सत्त्वापत्तिस्तुरीया । असंसक्तिः पञ्चमी । पदार्थभावना षष्ठी । तुरीयगा सप्तमी ।प्रणवात्मिका भूमिका अकारोकारमकारार्धमात्रात्मिका । स्थूलसूक्ष्मबीजसाक्षिभेदेनाकारादयश्चतुर्विधाः ।तदवस्था जाग्रत्स्वप्नसुषुप्तितुरीयाः ।अकारस्थूलांशे जाग्रद्विश्वः ।सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तुरीयः ।उकारस्थूलांशे स्वप्नविश्वः ।सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तुरीयः ।मकारस्थूलांशे सुषुप्तविश्वः ।सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तुरीयः ।अर्धमात्रास्थूलांशे तुरीयविश्वः ।सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तुरीयतुरीयः ।अकारतुरीयांशाः प्रथमद्वितीयतृतीयभूमिकाः ।उकारतुरीयांशा चतुर्थी भूमिका ।मकारतुरीयांशा पञ्चमी ।अर्धमात्रातुरीयांशा षष्ठी ।तदतीता सप्तमी ।भूमित्रयेषु विहरन्मुमुक्षुर्भवति ।तुरीयभूम्यां विहरन्ब्रह्मविद्भवति ।पञ्चमभूम्यां विहरन्ब्रह्मविद्वरो भवति ।षष्ठभूम्यां विहरन्ब्रह्मविद्वरीयान्भवति ।सप्तमभूम्यां विहरन्ब्रह्मविद्वरिष्ठो भवति ।तत्रैते श्लोका भवन्ति ।ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता ।विचारणा द्वितीया तु तृतीया तनुमानसा ॥१॥सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥२॥स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः ।वैराग्यपूर्णमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥३॥शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् ।सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥४॥विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता ।यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥५॥भूमिकात्रितयाभ्यासाचित्तेऽर्थविरतेर्वशात् ।सत्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥६॥दशाचतुष्टयाभ्यासादसंसर्गफला तु या ।रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥७॥भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् ।आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥८॥परप्रयुक्तेन चिरं प्रत्ययेनावबोधनम् ।पदार्थभावनानाम षष्ठी भवति भूमिका ॥९॥षड्भूमिकाचिराभ्यासद्भेदस्यानुपलम्भनात् ।यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥१०॥शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ।यथावद्वेद बुद्ध्येदं जगज्जाग्रति दृश्यते ॥११॥अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ।पश्यन्ति स्वप्नवल्लोकं तुर्यभूमि सुयोगतः ॥१२॥विच्छिन्नशरदभ्रांशविलयं प्रविलीयते ।सत्वावशेष एवास्ते हि निदाघ दृढीकुरु ॥१३॥पञ्चभूमिं समारुह्य सुषुप्तिपदनामिकाम् ।शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके ॥१४॥अन्तर्मुखतया नित्यं बहिर्वृत्तिपरोऽपि सन् ।परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥१५॥कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ।सप्तमी गाढसुप्ताख्या क्रमप्राप्ता पुरातनी ॥१६॥यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः ।केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥१७॥अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ।अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ॥१८॥मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव ।भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥१९॥द्र्ष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।दर्शनप्रथमाभासमात्मानं केवलं भज ॥२०॥यथास्थितमिदं यस्य व्यवहारयतोऽपि च ।अस्तंगतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥२१॥नोदेति नास्तमायाति सुखे दुःखे मनःप्रभा ।यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥२२॥यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते ।यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥२३॥रागद्वेषभयादीनामनुरूपं चरन्नपि ।योऽन्तर्व्योमवदच्छन्नः स जीवन्मुक्त उच्यते ॥२४॥यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥२५॥यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ॥२६॥यः समस्तार्थजालेषु व्यवहार्यपि शीतलः ।परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥२७॥प्रजहाति यदा कामान्सर्वांश्चित्तगतान्मुने ।मयि सर्वात्मके तुष्टः स जीवन्मुक्त उच्यते ॥२८॥चैत्यवर्जितचिन्मात्रे पदे परमपावने ।अक्षुब्धचित्तो विश्रान्तः स जीवन्मुक्त उच्यते ॥२९॥इदं जगदहं सोऽयं दृश्यजातमवास्तवम् ।यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते ॥३०॥सद्ब्रह्मणि स्थिरे स्फारे पूर्णे विषयवर्जिते ।आचार्यशास्त्रमार्गेण प्रविश्याशु स्थिरो भव ॥३१॥शिवो गुरुः शिवो वेदः शिव देवः शिवः प्रभुः ।शिवोऽस्म्यहं शिवः सर्वं शिवदन्यन्न किंचन ॥३२॥तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥३३॥शुको मुक्तो वामदेवोऽपि मुक्तस्ताभ्यां विना मुक्तिभाजो न सन्ति ।शुकमार्गं येऽनुसरन्ति धीराःसद्यो मुक्तास्ते भवन्तीह लोके ॥३४॥वामदेवं येऽनुसरन्ति नित्यंमृत्वा जनित्वा च पुनःपुनस्तत् ।ते वै लोके क्रममुक्ता भवन्तियोगैः सांख्यैः कर्मभिः सत्त्वयुक्तैः ॥३५॥शुकश्च वामदेवश्च द्वे सृती देवनिर्मिते ।शुकः विहङ्गमः प्रोक्तो वामदेवः पिपीलिका ॥३६॥अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन वा ।महावाक्यविचारेण सांख्ययोगसमाधिना ॥३७॥विदित्वा स्वात्मनो रूपं संप्रज्ञातसमाधितः ।शुकमार्गेण विरजाः प्रयान्ति परमं पदम् ॥३८॥यमाद्यासनजायासहठाभ्यासात्पुनःपुनः ।विघ्नबाहुल्यसंजात अणिमादिवशादिह ॥३९॥अलब्ध्वापि फलं सम्यक्पुनर्भूत्वा महाकुले ।पुनर्वासनयैवायं योगाभ्यासं पुनश्चरन् ॥४०॥अनेकजन्माभ्यासेन वामदेवेन वै पथा ।सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् ॥४१॥द्वाविमावपि पन्थानौ ब्रह्मप्राप्तिकरौ शिवौ ।सद्योमुक्तिप्रदश्चैकः क्रममुक्तिप्रदः परः ।अत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥४२॥यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते ।तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वपातकैः ॥४३॥खेचरा भूचराः सर्वे ब्रह्मविद्दृष्टिगोचराः ।सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरघैः ॥४४॥ इति॥इति चतुर्थोऽद्यायः ॥४॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP