संस्कृत सूची|संस्कृत साहित्य|उपनिषद|वराहोपनिषत्| प्रथमोऽध्यायः वराहोपनिषत् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽद्यायः पञ्चमोऽध्यायः वराहोपनिषत् - प्रथमोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद प्रथमोऽध्यायः Translation - भाषांतर श्रीमद्वाराहोपनिषद्वेद्याखण्डसुखाकृति ।त्रिपान्नारायणाख्यं तद्रामचन्द्रपदं भजे ॥ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥तेजस्विनावधी तमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ ॥अथ ऋभुर्वै महामुनिर्देवमानेन द्वादशवत्सरं तपश्चचार ।तदवसाने वराहरूपी भगवान्प्रादुरभूत् ।स होवाचोत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति । सोदतिष्ठत् ।तस्मै नमस्कृत्योवाच भगवन्कामिभिर्यद्यत्कामितं तत्तत्त्वत्सकाशात्स्वप्नेऽपि न याचे ।समस्तवेदशास्त्रेतिहासपुराणानि समस्तविद्याजालानि ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः ।अतस्त्वद्रूपप्रतिपादिकां ब्रह्मविद्यां ब्रूहीति होवाच ।तथेति स होवाच वराहरूपी भगवान् ।चतुर्विंशतितत्त्वानि केचिदिच्छन्ति वादिनः ।केचित्षट्त्रिंशत्तत्त्वानि केचित्षण्णवतीनि च ॥१॥तेषां क्रमं प्रवक्ष्यामि सावधानमनाः शृणु ।ज्ञानेन्द्रियाणि पञ्चैव श्रोत्रत्वग्लोचनादयः ॥२॥कर्मेन्द्रियाणि पञ्चैव वाक्पाण्यङ्घ्र्यादयः क्रमात् ।प्राणादतस्तु पञ्चैव पञ्च शब्दादयस्तथा ॥३॥मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ।चतुर्विंशतितत्त्वानि तानि ब्रह्मविदो विदुः ॥४॥एतैस्तत्त्वैः समं पञ्चीकृतभूतानि पञ्च च ।पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥५॥देहत्रयं स्थूलसूक्ष्मकारणानि विदुर्बुधाः ।अवस्थात्रितयं चैव जाग्रत्स्वप्नसुषुप्तयः ॥६॥आहत्य तत्त्वजातानां षट्त्रिंशन्मुनयो विदुः ।पूर्वोक्तैस्तत्त्वजातैस्तु समं तत्त्वानि योजयेत् ॥७॥षड्भावविकृतिश्चास्ति जायते वर्धतेऽपि च ।परिणामं क्षयं नाशं षड्भावविकृतिं विदुः ॥८॥अशना च पिपासा च शोकमोहौ जरा मृतिः ।एते षडूर्मयः प्रोक्ताः षट्कोशानथ वच्मि ते ॥९॥त्वक्च रक्तं मांसमेदोमज्जास्थीनि निबोधत ।कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव च ॥१०॥एतेऽरिषड्वा विश्वश्च तैजसः प्राज्ञ एव च ।जीवत्रयं सत्त्वरजस्तमांसि च गुणत्रयम् ॥११॥प्रारब्धागाम्यर्जितानि कर्मत्रयमितीरितम् ।वचनादानगमनविसर्गानन्दपञ्चकम् ॥१२॥संकल्पोऽध्यवसायश्च अभिमानोऽवधारणा ।मुदिता करुणा मैत्री उपेक्षा च चतुष्टयम् ॥१३॥दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः ।तथा चन्द्रश्चतुर्वक्त्रो रुद्रः क्षेत्रज्ञ ईश्वरः ॥१४॥आहत्य तत्त्वजातानां षण्णवत्यस्तु कीर्तिताः ।पूर्वोक्ततत्त्वजातानां वैलक्षण्यमनामयम् ॥१५॥वराहरूपिणं मां ये भजन्ति मयि भक्तितः ।विमुक्ताज्ञानतत्कार्या जीवन्मुक्ता भवन्ति ते ॥१६॥ये षण्णवतितत्त्वज्ञा यत्र कुत्राश्रमे रताः ।जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥१७॥ इति॥इति प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP