पञ्चमस्थानम् - द्वितीयोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
हरीतक्याश्चामलक्या विभीतकस्य च फलम्
त्रिफलेत्युच्यते वैद्यैर्वक्ष्यामि भागनिर्णयम् ॥१॥
एकभागो हरीतक्या द्वौभागौ च विभीतकम्
आमलक्यास्त्रिभागश्च सहैकत्र प्रयोजयेत् ॥२॥
त्रिफला कफपित्तघ्नी महाकुष्ठविनाशिनी
आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी ॥३॥
वर्णप्रदायिनी घृष्टा विषमज्वरनाशिनी
दृष्टिप्रदा कण्डुहरा वमिगुल्मार्शनाशिनी ॥४॥
सर्वरोगप्रशमनी मेधा स्मृतिकरी परा
वक्ष्यामि योगयुक्तिञ्च रोगे रोगे पृथक्पृथक् ॥५॥
वाते घृतगुडोपेता पित्ते समधुशर्करा
श्लेष्मे त्रिकटुकोपेता मेहे समधुवारिणा ॥६॥
कुष्ठे च घृतसंयुक्ता सैन्धवेनाग्निमान्द्यहा
चक्षुर्धावनके क्वाथो नेत्ररोगनिवारणः ॥७॥
घृतेन हरते कण्डूं मातुलुङ्गरसैर्वमिम् ॥८॥
गुल्मार्शो गुडसूरणैः स स्यात्तु गुण कारकः
क्षीरेण राजयक्ष्माणं पाण्डुरोगं गुडेन च ॥९॥
भृङ्गराजरसेनापि घृतेन सह योजितः
वलीपलितहन्ता च तथा मेधाकरः स्मृतः ॥१०॥
सक्षीरः सगुडः क्वाथो विषमज्वरनाशनः
सशर्कराघृतः क्वाथः सर्वजीर्णज्वरापहः ॥११॥
एषा नराणां हितकारिणी च सर्वप्रयोगे त्रिफला स्मृता च
सर्वामयानां शमनी च सद्यः सतेजकान्तिं प्रतिमां करोति ॥१२॥
शोफे तथा कामलपाण्डुरोगे तथोदरे मूत्रयुता हिता च
हितातिसारे ग्रहणीविकारे हिता च तक्रेण फलत्रिका च ॥१३॥
क्षीणेन्द्रिये जीर्णज्वरे च यक्ष्मे क्षीरेण युक्ता त्रिफला हिता च ।
स्यान्नेत्ररोगे च शिरोगदे च कुष्ठे च कण्डूव्रणपीडने च ॥१४॥
मूत्रग्रहे कामलकेऽग्निमान्द्ये जलेन पीतस्त्रिफलादिकल्कः
सशीतकाले गुडनागरेण सशर्करा क्षीरयुता तथोष्णे ॥१५॥
वर्षासु शुण्ठीसहिता फलत्रिका फलत्रिका सर्वरुजाहरा स्यात् ॥१६॥
इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने त्रिफलाक्वाथो नाम द्वितीयोऽध्यायः ॥२॥
N/A
References : N/A
Last Updated : February 24, 2021
![Top](/portal/service/themes/silver/images/up.gif)
TOP