श्रीहरिवंशमाहात्म्यम् - षष्ठोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


N/Aहरिवंशारम्भाय उत्तममास, तिथि, नक्षत्रादीनां निर्देशः, देवपूजनं, व्यासपूजनं एवं कथासमाप्त्योपरि दीयमाना दक्षिणा एवं दानादीनां उल्लेखं, श्रवणस्य माहात्म्यम्

जनमेजय उवाच
प्रारम्भस्तु कथं कार्यः कथं पूजाविधिः स्मृतः ।
कथं विसर्जयेद्व्यासं कथं सम्यक्फलं लभेत् ॥१॥
वैशम्पायन उवाच
शृणु राजन् यथावन्ध्या संततिं लभते ध्रुवम् ॥२॥
वैशाखे माघ ऊर्जे च अन्यस्मिञ्छुभमासके ।
शुक्लपक्षे तिथौ पूर्णा नन्दा भद्रा जयासु च ॥३॥
वारे गुरौ तथा शुक्रे चन्द्रे चन्द्रात्मजे तथा ।
नक्षत्रे श्रवणे हस्ते पुष्ये मूले पुनर्वसौ ॥४॥
वासवे तुहिनांशौ च पौष्णे च हयतारके ।
सौभाग्यादिषु योगेषु करणे विष्टिवर्जिते ॥५॥
श्रोतुऽश्चाथापि वक्तुश्च चन्द्रे च बलशालिनि ।
पूर्वाह्णे चापि मध्याह्ने प्रारम्भः क्रियते बुधैः ॥६॥
आदौ लम्बोदरः पूज्यः कलशस्तु ततः परम् ।
श्रीखण्डागुरुकर्पूरकुङ्कुमामोदलेपनैः ॥७॥
पङ्कजैश्चम्पकैरन्यैर्जातीपुष्पैः सुगन्धिभिः ।
तुलसीबिल्वधात्रीणां पत्रैरन्यैर्नवाङ्कुरैः ॥८॥
धूपैर्दीपैश्च विविधैर्नारिकेलफलादिभिः ।
ताम्बूलैर्मुखवासैश्चाखण्डितैः शुक्लतण्डुलैः ॥९॥
चामरैर्व्यजनैश्चैव घण्टावाद्यादिभिस्तथा ।
प्रत्यहं पूजयेद् देवं यावद् ग्रन्थः समाप्यते ॥१०॥
लत्तादिदोषरहिते वारे च शुभसंज्ञके ।
समर्पयेत् पुराणं तु ततः पूजां समाचरेत् ॥११॥
प्रारम्भे च यथा पूजा तथा कार्या विसर्जने ।
चन्दनागुरुकर्पूरकुङ्कुमैर्गन्धकादिभिः ॥१२॥
गीतवादित्रनृत्यैश्च राजन् कार्यो महोत्सवः ।
ततः पुराणपूजायां यथा दानं तथा शृणु ॥१३॥
अष्टादशशतं दानं पुराणाय समर्पयेत् ।
अभावे द्वादशशतं पूजा वै जनमेजय ॥१४॥
तदभावेऽपि राजेन्द्र षट्शतं परिकीर्तितम् ।
उत्तमं मध्यमं दानमधमं च प्रकीर्तितम् ॥१५॥
सपत्नीकं ततो व्यासं दुकूलैरंशुकैर्नवैः ।
पूजयेत् सर्वभावेन स सम्यक् फलमश्नुते ॥१६॥
परिधेयानि देयानि कुण्डलानि शुभानि च ।
मुकुटाद्यैरलंकृत्य केयूराङ्गदभूषणैः ॥१७॥
गावस्तु कपिला देयाः सवत्सा गर्भसंयुताः ।
यानमश्वादिकं राजन्दासीदासान् समर्पयेत् ॥१८॥
आसनं पुरुषव्याघ्र धूपदीपादि भाजनम् ।
शय्या तूलादिकं सर्वं सोपधानं सलड्डुकम् ॥१९॥
स्थाली पीठादिकं राजञ्जलपात्रं तथैव च ।
अन्नं च बहु दातव्यं लवणं जनमेजय ॥२०॥
घृततैलादिकं राजन् यावद् वर्षं समाप्यते ।
एतत् सर्वं द्विजेन्द्राय व्यासासनगताय च ॥२१॥
मनोऽभीष्टं वरं लब्ध्वा ततः कुर्यात्प्रदक्षिणाम् ।
पारणान्ते तु राजेन्द्र द्विजेन्द्रं रुद्रजापिनम् ॥२२॥
वस्त्रादिभिरलंकृत्य मुद्रिकाभिस्तथैव च ।
नवीनं कम्बलं शुभ्रं ताम्रपात्रं तथैव च ॥२३॥
द्विजं द्विजं समुद्दिश्य दातव्या दक्षिणा बहु ।
ततोऽभिषेकसंयुक्तं गुडं चैव पुरोधसम् ॥२४॥
वस्त्रादिभिरलंकृत्य दक्षिणाभिश्च तोषयेत् ।
ततोऽन्यान्ब्राह्मणान्सर्वान्दक्षिणाभिः समर्चयेत् ॥२५॥
हवनं च तथा राजन् कर्तव्यं कर्मशान्तये ।
प्रतिश्लोकं च जुहुयाद् दशांशेनैव वा पुनः ॥२६॥
पायसं मक्षु सर्पिश्च तिलान्नादिकसंयुतम् ।
अथवा हवनं कुर्याद् गायत्र्या सुसमाहितः ॥२७॥
तन्मयत्यात्पुराणस्य परमस्यास्य तत्त्वतः ।
होमाशक्तौ बुधो हेम दद्यात् तत्फलसिद्धये ॥२८॥
नानाच्छिद्रनिरोधार्थं न्यूनताधिकताख्ययोः ।
दोषयोः प्रशमार्थं च पठेन्नामसहस्रकम् ॥२९॥
तेन स्यात् सफलं सर्वं नास्त्यस्मादधिकं यतः ।
भोजयेन्मिथुनान्येव चतुर्विंशतिमादरात् ॥३०॥
ततो गन्धैश्च माल्यैश्च स्वलंकृत्य द्विजोत्तमान् ।
तोषयेद् दक्षिणाहेमैर्धान्यै रत्नादिभिस्तथा ॥३१॥
भुक्तवत्सु च विप्रेषु यथावत्समया च तान् ।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम् ॥३२॥
सपत्नीकं च संतोष्य वस्त्रालङ्करणादिभिः ।
ब्राह्मणेषु प्रसन्नेषु प्रसन्नास्तस्य देवताः ॥३३॥
वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ।
दद्यात् सुवर्णं धेनुं च व्रतपूर्णत्वसिद्धये ॥३४॥
शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय च ।
तत्रास्य पुस्तकं स्थाप्य लिखितं ललिताक्षरम् ॥३५॥
सम्पूज्यावाहनाद्यैश्च उपचारैः सदक्षिणैः ।
वस्त्रभूषणगन्धाद्यैः पूजिताय महात्मने ॥३६॥
आचार्याय सुधीर्दत्त्वा मुक्तः स्याद्भवबन्धनैः ।
एवं कृते विधाने च सर्वपापनिवारणे ॥३७॥
फलदं स्यात् पुराणं तु सर्वकामार्थसिद्धिदम् ।
अनेन विधिना राजन् यः पुराणं समापयेत् ॥३८॥
तस्य स्त्री लभते गर्भं मासेनैकेन भारत ।
अनेन विधिना राजन्व्यासं यस्तु समर्चयेत् ॥३९॥
पूजयेद् दानमानाभ्यां तस्य स्त्री गर्भिणी भवेत् ।
यन्मया विविधं प्रोक्तं भक्तिपूजादिकं पुनः ॥४०॥
तत् कृत्वा लभते नारी पुत्रं भास्करतेजसम् ।
तथा वन्ध्या लभेद्गर्भं व्यासस्य वचनं यथा ॥४१॥
विप्ररत्नापहारी च सोऽनपत्यः प्रजायते ।
तेन कायविशुद्ध्यर्थं महारुद्रजपादिकम् ॥४२॥
अथ पारीक्षितो राजा श्रद्धायुक्तेन चेतसा ।
भावतः सत्त्वयुक्तेन चैकाग्रमनसा तथा ॥४३॥
श्रुत्वान्ते निश्चयं कृत्वा दम्भशाठ्यविवर्जितः ।
श्रुत्वेमं हरिवंशं वै व्यासं सम्पूज्य भक्तितः ॥४४॥
दानं च बहुलं कृत्वा व्यासाशीर्गृह्य भारतः ।
प्रसन्नवदनो भूत्वा रमते रमणीयुतः ॥४५॥
प्राग्जन्मजनिते पापे क्षीणे वै जनमेजय ।
ऋतावाद्ये तु संधत्ते गर्भं तस्य कुलाङ्गना ॥४६॥
द्वितीये वा तृतीये वा चतुर्थे मासि वै पुनः ।
पञ्चमे वापि षष्ठे वा सप्तमे अष्टमेऽपि वा ॥४७॥
नवमे दशमे मासि दोहदं निश्चयं भवेत् ।
व्यासेनोक्तमिदं पुण्यं वन्ध्यागर्भस्य लक्षणम् ॥४८॥
पितॄनुद्धरते सर्वान् दश पूर्वान् दशापरान् ।
हरिवंशं नरः श्रुत्वा सेतिहासं पुरातनम् ॥४९॥
इदं मया तवाग्रे च सर्वं प्रोक्तं नरर्षभ ।
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥५०॥
अपुत्रः पुत्रमाप्नोति ह्यधनो धनमाप्नुयात् ।
नरमेधाश्वमेधाभ्यां यत् फलं प्राप्यते नरैः ॥५१॥
तत्फलं लभ्यते सर्वं पुराणश्रवणाद्धरेः ।
ब्रह्महा भ्रूणहा गोघ्नः सुरापो गुरुतल्पगः ।
सकृत् पुराणश्रवणात्पूतो भवति नान्यथा ॥५२॥
इदं मया ते परिकीर्तितं महच्छ्रीकृष्णमाहात्म्यमपारमद्भुतम् ।
शृण्वन् पठन्नाशु समाप्नुयात् फलं यच्चापि लोकेषु सुदुर्लभं महत् ॥५३॥
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणविधौ दानविधानकथनं नाम षष्ठोऽध्यायः ॥६॥

 ॥सविधि हरिवंशमाहात्म्य सम्पूर्ण॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP