संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|श्रीहरिवंशमाहात्म्यम्| चतुर्थोऽध्यायः श्रीहरिवंशमाहात्म्यम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः श्रीहरिवंशमाहात्म्यम् - चतुर्थोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुर्थोऽध्यायः Translation - भाषांतर नवाहव्रतिभ्यः श्रोताभ्यः पालनीयानि नियमानि, तेभ्यः त्याजनीयानि द्रव्याणां उल्लेखम्, न्यायविरुद्धेन कथाश्रवणीयानां दुर्गतिः, कथायां विघ्नकरणेन एका नार्या नरकयातना राक्षसयोनेः च प्राप्तिः, श्रोतॄणां चतुर्दश भेदाःवैशम्पायन उवाचनवाहव्रतिनां पुंसां नियमाञ्छृणु सत्तम ।एककालाशनश्चैव अधःशायी भवेन्नरः ॥१॥स्थातव्यं ब्रह्मचर्येण यावद् ग्रन्थः समाप्यते ।हरिवंशे तथा राजन् पायसं चरुभोजनम् ॥२॥पारणे पारणे यातं यथावद् भरतर्षभ ।मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः ॥३॥हविष्यान्नेन कर्तव्यमेकवारं कथार्थिना ।उपोष्य नवरात्रं वा शक्तिश्चेच्छृणुयात्तदा ॥४॥घृतपानं पयःपानं कृत्वा वा शृणुयात्सुखम् ।फलाहारेण वा भाव्यमेकभुक्तेन वा पुनः ॥५॥सुखसाध्यं भवेद् यत्तु कर्तव्यं श्रवणाय तत् ।भोजनं तु वरं मन्ये कथाश्रवणकारकम् ॥६॥नोपवासो वरः प्रोक्तो कथाविघ्नकरो यदि ।शृणुयाद्यः शुचिस्तिष्ठन्नेकचित्ततया सदा ॥७॥प्रातःस्नानादिकं कृत्वा पुत्रदारसमन्वितः ।पुराणश्रवणं कुर्यात् कृष्णपूजनपूर्वकम् ॥८॥पुष्पधूपफलैः सम्यङ् नैवेद्यैः श्रद्धयोद्धृतैः ।गुरोः शुश्रूषणं तेन कर्तव्यं फलकाङ्क्षिणा ॥९॥श्रुत्वा यथेच्छया शौचं कार्यं पुण्येन वर्त्मना ।सायंकाले गुरुश्रेष्ठं तोषयित्वा सबान्धवः ॥१०॥स्वपरिग्रहसङ्गेन सुखं स्वपिति वै तदा ।नियमादि प्रकर्तव्यं पापानां विनिवर्तने ॥११॥यथासुखं व्यवहरेन्नित्यं विष्णुपरायणः ।शुचिःशुद्धमनास्तिष्ठन् पत्रावल्यां च भोजनम् ॥१२॥कथासमाप्तौ भुक्तिं च कुर्यान्नित्यं कथाव्रती ।द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च ॥१३॥भावदुष्टं पर्युषितं जह्यान्नित्यं कथाव्रती ।वृन्ताकं च कलिङ्गं च दग्धमन्नं मसूरिकाम् ॥१४॥निष्पावानामिषाद्यं च वर्जयेच्च कथाव्रती ।पलाण्डुं लशुनं हिंगुं मूलकं गृञ्जनं तथा ॥१५॥नालिकामूलकूष्माण्डं नैवाद्याच्च कथाव्रती ।कामं क्रोधं मदं मानं मत्सरं लोभमेव च ॥१६॥दम्भं मोहं तथा द्वेषं दूरयेच्च कथाव्रती ।वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा ॥१७॥स्त्रीराजमहतां निन्दां वर्जयेच्च कथाव्रती ।रजस्वलान्त्यजम्लेच्छपतितव्रात्यकैः सह ॥१८॥द्विजद्विड्वेदबाह्यैश्च न वदेच्च कथाव्रती ।सत्यं शौचं दया मौनमार्जवं विनयं तथा ॥१९॥उदारं मानसं तद्वत् कुर्यादेव कथाव्रती ।श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसा ॥२०॥वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ।अभक्त्या ये कथां पुण्यां शृण्वन्ति मनुजाधमाः॥२१॥तेषां पुण्यफलं नास्ति दुःखं स्याज्जन्मजन्मनि ।पुराणं ये तु सम्पूज्य ताम्बूलाद्यैरुपायनैः ॥२२॥शृण्वन्ति च कथां भक्त्या दरिद्राः स्युर्न पापिनः ।कथायां कीर्त्यमानायां ये गच्छन्त्यन्यतो नराः ॥२३॥भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः ।सोष्णीषमस्तका ये च कथां शृण्वन्ति पावनीम् ॥२४॥ते बलाका प्रजायन्ते पापिनो मनुजाधमाः ।ताम्बूलं भक्षयन्तो ये कथां शृण्वन्ति पावनीम् ॥२५॥स्वविष्ठां खादयन्त्येतान्नरके यमकिङ्कराः ।नार्या रजस्वलायाश्च योनितुल्यं मुखं भवेत् ॥२६॥ये. तुङ्गासनारूढाः कथां शृण्वन्ति दाम्भिकाः ।अक्षय्यान्नरकान् भुक्त्वा ते भवन्त्येव वायसाः ॥२७॥ये च वीरासनारूढा ये च शय्यासनस्थिताः ।शृण्वन्ति तत्कथां ते वै भवन्त्यर्जुनपादपाः ॥२८॥असम्प्रणम्य शृण्वन्तो विषवृक्षा भवन्ति ते ।तथा शयानाः शृण्वन्तो भवन्त्यजगरा नराः ॥२९॥यः शृणोति कथां वक्रः समानासनमास्थितः ।गुरुतल्पसमं पापं सम्प्राप्य नरकं व्रजेत् ॥३०॥ये निन्दन्ति पुराणज्ञान् कथां वा पापहारिणीम् ।ते वै जन्मशतं मर्त्याः शुनकाः सम्भवन्ति च ॥३१॥कथायां वर्तमानायां ये वदन्ति दुरुत्तरम् ।ते गर्दभाः प्रजायन्ते कृकलासास्ततः परम् ॥३२॥कदाचिदपि ये पुण्यां न शृण्वन्ति कथां नराः ।ते भुक्त्वा नरकान् घोरान् भवन्ति वनशूकराः ॥३३॥कथायां कीर्त्यमानायां विघ्नं कुर्वन्ति ये शठाः ।कोट्यब्दान्नरकान्भुक्त्वा भवन्ति ग्रामसूकराः ॥३४॥मध्ये वार्तां न कुर्वीत चेत् कुर्यान्निरयं व्रजेत् ।कथायां श्रूयमाणायां न कुर्याच्छिशुलालनम् ॥३५॥नर्मवादान् वदेन्नैव स्त्रिया सम्भाषणं तथा ।न कर्तव्यं प्रयत्नेन कथाविच्छेदकारणम् ॥३६॥विच्छेदेन कथायास्तु ब्रह्महत्यासमं त्वघम् ।प्राप्नोति नृपशार्दूल कथाविच्छेदकः पुमान् ॥३७॥न कुर्यात्तु कथामध्ये त्वन्यवार्ताः प्रयत्नतः ।नारी वा पुरुषो वापि कुर्यान्निरयमाप्नुयात् ॥३८॥इतिहासं वदाम्यत्र शृणुष्वैकं हि मानद ।यं श्रुत्वा न वदेद् वार्तां कथामध्ये कदाचन ॥३९॥जनस्थाने पुरा कश्चिद् ब्राह्मणो वेदपारगः ।धर्मशास्त्रेऽतिनिपुणः सदाचारपरायणः ॥४०॥गङ्गास्नानं विधायादौ कृत्वा माध्याह्निकं तथा ।कृत्वा देवार्चनं चैव श्रवणे तत्परोऽभवत् ॥४१॥तस्य भार्यातिदुष्टा च कर्कशा कलहप्रिया ।असत्यालापनिपुणा परद्वेषपरायणा ॥४२॥हृत्वा चक्रे धनस्यापि संग्रहं पापनिश्चया ।दधि दुग्धं समानीय शर्करागुडमेव च ॥४३॥घृतं च नवनीतं च स्वयमानीय सर्वदा ।एकान्ते भक्षणं चक्रे भर्तर्यन्नं प्रशुष्ककम् ॥४४॥दुराग्रहा दुष्टमनाः पतिनिन्दापरायणा ।बहुपापप्रकर्त्री च परवेश्मोपवेशिनी ॥४५॥सुभाषणं वदेन्नैव द्विषः क्षेमविधायिनी ।पंक्तिभेदं प्रकुर्वाणा सदा निष्ठुरभाषिणी ॥४६॥अतिथिषु सदा वैरकारिणी धर्मनाशिनी ।सज्जनोऽपि गुणी सौम्यस्तस्या भर्ता सुपूजितः ॥४७॥यदा भर्ता पुराणस्य श्रवणाय हि संस्थितः ।प्रत्यहं तत्र गत्वा तु तस्य निन्दां चकार ह ॥४८॥संन्यासिवत् कथं ह्यत्र श्रवणे व्यासवत् कृतः ।समुत्पन्ननिरुद्योग किं कर्तव्यं मया वद ॥४९॥शिशवो मां पीडयन्ति भक्षणाय दिने दिने ।किं तेषां व प्रकर्तव्यं भक्षणार्थं मया वद ॥५०॥नास्त्येवान्नं गृहे किञ्चिद् वस्त्रं वाप्यथवा धनम् ।किं मया च प्रकर्तव्यं कुत्र गन्तव्यमेव च ॥५१॥कथं विलिखितं दिष्टं धात्रा पापेन मे पुरा ।मूर्खश्चालस्यसंयुक्तो दरिद्रो निष्ठुरस्तथा ॥५२॥स्नेहहीनः कुटुम्बे च कथायाः श्रवणे रतः ।एतादृशः पतिर्मह्यं धात्रा दत्तो दुरात्मना ॥५३॥पृथिव्यां दुर्भगैकाहं दरिद्रगृहमागता ।उदरापूर्तिमात्रं हि नान्नं मे भक्षितं कदा ॥५४॥सौभाग्यास्ताः स्त्रियो लोके यासामुद्योगशालिनः ।पतयो धनधान्यादिसमृद्धिपरिशोभिताः ॥५५॥ते वै स्त्रीणां वाक्यकराः शिशुपालनतत्पराः ।नित्यं गृहेषु तिष्ठन्ति स्त्रीणां संतोषकारकाः ॥५६॥सदन्नभक्षणात् पुष्टा भार्याज्ञापरिपालकाः ।व्यवसायं च भार्याणां कुर्वन्ति बुद्धिशालिनः ॥५७॥अयं मूर्खश्च जडधीरुपेक्षां कुरुते गृहे ।अद्य तैलं गृहे नास्ति चेन्धनं लवणं तथा ॥५८॥शाकश्च मम नास्त्येव धान्यलेशो न मद्गृहे ।किं मया तु प्रकर्तव्यं पतिरेतादृशो मम ॥५९॥कथायां श्रूयमाणायां पत्या सन्मार्गमूर्तिंना ।धान्यादौ विद्यमानेऽपि मिथ्याभाषणतत्परा ॥६०॥कथाविघ्नं चकारासौ कर्कशा सा दिने दिने ।ततः कालेन मरणं प्राप्ता सा दुष्टमानसा ॥६१॥यमदूतैस्तु बद्धा सा नीता च यममन्दिरे ।ततो यमाज्ञया तैस्तु नरके पातिता चिरम् ॥६२॥पश्चात् सा राक्षसी जाता भैरवे जलवर्जिते ।अरण्ये क्षुत्तृषायुक्ता पूर्वपापप्रभावतः ॥६३॥तस्माद् विघ्नं न कर्तव्यं भार्यया पुरुषेण वा ।श्रीहरेः सत्कथायास्तु तव सत्यं वदाम्यहम् ॥६४॥मीनालिनो महिषहंसबकस्वभावा मार्जारकाकवृककंकजलौकतुल्याः ।सच्छिद्रकुम्भजलसिन्धुशिलोपमाश्च ते श्रावकाश्च सुचतुर्दशधा भवन्ति ॥६५॥दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान् ।अनपत्यो मोक्षकामः शृणुयात् स कथामिमाम् ॥६६॥अपुष्पा काकवन्ध्या च वन्ध्या या च मृतार्भका ।स्रवद्गर्भा च या नारी तया श्राव्या प्रयत्नतः ॥६७॥सुपुत्रं लभते राजन् व्यासस्य वचनं यथा ।सर्वान्कामानवाप्नोति कथां श्रुत्वा हरेरिमाम् ॥६८॥इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP