संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|तृतीयो गुच्छः| कलिङ्गसेनालाभवर्णनम् तृतीयो गुच्छः कुसुमायुधाख्यायिका केसटाख्यायिका कलिङ्गसेनालाभवर्णनम् शशाङ्कवतीलम्बको नाम कलिङ्गसेनालाभवर्णनम् क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कलिङ्गसेनालाभवर्णनम् Translation - भाषांतर इति केसटकन्दर्पौ प्रापतुर्वल्लभौ पुरा । वणिक्पुत्र त्वमप्येवं ध्रुवं जायामवाप्स्यसि ॥५६॥ मयापि स्ववधूः पूर्वं प्रयाता पञ्चतामपि । कपोलिकेन मायेन हिंसिता मन्त्रशक्तितः ॥५७॥ हत्वा काम्पिलकं दूरात्सजीवा सा पुराहृता । जीवतां संगमो नाम मन्येऽहं किल जायते ॥५८॥ इत्यभ्यागतविप्रेण सुचिरं परिसान्त्वितः । भ्रान्त्वा महीं महीपाल त्वामहं शरणं गतः ॥५९॥ राजा विषमशीलस्तन्निशम्य वणीजो वचः । गजेन दत्तां तां कान्तामदात्तस्मै सुतामिव ॥६०॥ तस्मिन्भार्यां समादाय याते वणीजि भूपतिः । कलिङ्गसेनासंप्राप्त्यै कलिङ्गेशं समभ्ययात् ॥६१॥ ततो विजित्य समरे कलिङ्गनृपतिः विभुः । राजा श्रीविक्रमादित्यः स्त्रीं........प्राप..........श्रियम् ॥६२॥ इति कलिङ्गसेनालाभवर्णनम् ॥३१॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP