केसटाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


त्वमप्येवं रूपवतीमवाप्स्यसि सखीप्रियाम् ।
यक्षस्वामी निगद्येति सान्त्वयामास केसटम् ॥४२॥
ततः सुमानसा तौ च दैवात्कन्दर्पकेसटौ ।
स्वपुरं प्रस्थिता गन्तुं गजेन्द्रं ददृशुः पथि ॥४३॥
तद्भयाद्विप्रयोगोऽभून्मिथस्तेषां तदा वने ।
अत्यन्तसुखलेशो हि बहुदुःखो भवाम्बुधिः ॥४४॥
केसटोऽप्यथ संप्राप्य शोचन्वाराणसीं शनैः ।
कन्दर्पं प्राप्य कालेन विरहक्षामविग्रहम् ॥४५॥
सुमानसाभिर्देवीभिः कन्दर्पः कृपया वनान् ।
.........न्यरत्नपुरे ताभिर्भर्तुः कुलगृहे सतीम् ॥४६॥
रत्ना..........नगवीं नाम ज्येष्ठां कन्दर्पवल्लभाम् ।
तद्वियोगानलाक्रान्तां वह्निपाते समुद्यताम् ॥४७॥
सुमानसा निजकथां कथयित्वा प्रियो मतः ।
ध्रुवं समेष्यतीत्युक्त्वा तां सपत्नीमवारयत् ॥४८॥
अत्रान्तरे रूपवती तदा वृद्धद्विजालये ।
कुरूपं वीक्ष्य तत्पुत्रं पितुरेवाययौ गृहम् ॥४९॥
कालेन तत्र विरहक्षामौ दैवादथागतौ ।
कन्दर्पकेसटौ दृष्ट्वा सुधार्द्रेवाभवज्झषात् ।५०॥
प्रत्यभिज्ञाय तां कान्तां केसटः प्राप्य सुन्दरीम् ।
तस्थावाश्वासयंस्तत्र कन्दर्पं विरहातुरम् ॥५१॥
रूपवत्या स ते सख्याः परिणीयैव केसटः ।
लेखहारकसंदेशाज्ज्ञात्वा रत्नपुरे स्थिताम् ॥५२॥
सुमानसां विरहिणीं तां कन्दर्पपितुर्गृहे ।
तूर्णं तत्सहितः प्रायात्केसटो वल्लभासखः ॥५३॥
कन्दर्पः स्वगृहं प्राप्य समासाद्य सुमानसाम् ।
तां चानङ्गवतीं कान्तां विललास सुहृद्वर(?) ॥५४॥
प्रियाविरहितो गत्वा ताम्रलिप्तां च केसटः ।
विजहार स्वभवने संस्मरन्विरहानलम् ॥५५॥
इति केसटाख्यायिका ॥३०॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP