पदाघातस्फोटव्रणकिणितकार्तान्तिकभुजं
प्रघानव्याघातप्रणतविमतद्रोहबिरुदम् ॥
परं ब्रह्मैवासौ भवति तत एवास्य सुमदं
गतापस्मारार्तीञ्जगति महतोऽद्यापि तनुते ॥४१॥
प्राप्तस्याभ्युदयं नवं कलयतः सारस्वतोज्जृम्मणं
स्वालोकेन विधूतविश्वतिमिरस्याऽऽसन्नतारस्य च ॥
तापं नस्त्वरितं क्षिपन्ति घनतापन्नं प्रसन्ना मुने -
राह्लादं च कलाधरस्य मधुराः कुर्वन्ति पादक्रमाः ॥४२॥
नतिर्दत्ते मुक्तिं नतमुत पदं वेति भगव -
त्पदस्य्प्रागल्भ्याज्जगति विवन्दते श्रुतिविदः ॥
वयं तु ब्रूमस्तद्भजनरतपादाम्बुजरजः -
परीरम्भारम्भः सपदि हृदि निर्वाणशरणम् ॥४३॥
धवलांशुकपल्लवावृतं
विललासोरुयुगं विपश्चितः ॥
अमृतार्नवफेनमञ्जरी -
चुरितैरावतहस्तशस्तिभृत् ॥४४॥
यदि हाटकवल्लरीत्रयी -
घटिता स्फाटिककूटभृत्तटी ॥
स्फुटमस्य तया कटीतटी
तुलिता स्यात्कलितत्रिमेखला ॥४५॥
आदाय पुस्तकवपुः श्रुतिसारमेक -
हस्तेन वादिकृततद्गतकण्टकानाम् ॥
उद्धारमारचयतीव विबोधमुद्रा -
मुद्बिभ्रतो निजकरेण परेण योगी ॥४६॥
सुधीराजः कल्पद्रुमकिसलयाभौ करवरौ
करोत्येतौ चेतस्यमलकमलं यत्सहचरम् ॥
रुचेश्चोरावेतावहनि किमु रात्राविति भिया
निशादेराप्रातर्निजदलकवाटं घटयति ॥४७॥
रुचिरा तदुरःस्थली बभा -
वररस्फालविशालमांसला ॥
धरणीभ्रमणोदितश्रमा -
त्पृथुशय्येव जयश्रियाऽऽश्रिता ॥४८॥
परिघप्रथिमापहारिणौ
शुशुभाते शुभलक्षणौ भुजौ ॥
बहिरन्तरशत्रुनिग्रहे
विजयस्तम्भयुगीधुरंधरौ ॥४९॥
उपवीतममुष्य दिद्युते
बिसतन्तुक्रियमाणसौहृदम् ॥
शरदिन्दुमयूखपाण्डिमा -
तिशयोल्लङ्घनजाङ्घिकप्रभम् ॥५०॥
समराजत कण्ठकम्बुराङ् -
भगवत्पादमुनेर्यदुद्भवः ॥
निनदः प्रतिपक्षनिग्रहे
जयशङ्खध्वनितामविन्दत ॥५१॥
अरुणाधरसंगताऽधिकं
शुशुभे तस्य हि दन्तचन्द्रिका ॥
नवविद्रुमवल्लरीगता
तुहिनांशोरिव शारदी छविः ॥५२॥
सुकपोलतले यशस्विनः
शुशुभाते सितभानुवर्चसः ॥
वदनाश्रितभारतीकृते
विधिसंकल्पितदर्पणाविव ॥५३॥
समासीतस्याऽऽस्यं सुकृतजलधेः सर्वजगतां
पथःपारावारादजनि रजनीशो बहुमतात् ॥
सुधाधारोद्गारः सुसदृगनयोः किंतु शशभृ -
त्सतां तेजःपुञ्जं हरति वदनं तस्य दिशति ॥५४॥
पुरा क्षीराम्भोधेरहह तनया यद्विषयता -
युषो दीनस्याग्रे घनकनकधाराः समकिरत् ॥
इदं नेत्रं पात्रं कमलनिलयाप्रीतिवितते -
र्मुनीशस्य स्तोतुं कृतसुकृत एव प्रभवति ॥५५॥
दुर्वारप्रतिपक्षदूषणसमुन्मेषक्षितौ कल्पने
सेतोरप्यनघस्य तापसकुलैणाङ्कस्य लङ्कारयः ॥
आपन्नानतिकायविभ्रममुषः संसारिशाखामृगा -
न्पुष्णन्त्यच्छपयोब्धिवीचिवदलंकाराः कटाक्षाङ्कुराः ॥५६॥
निःशङ्कक्षतिरूक्षकण्टककुटं मीनाङ्कदावानल -
ज्वालासंकुलमार्तिपाङ्किलतरं व्यध्वं धृतिध्वंसिनम् ॥
संसाराकृतिमामयच्छलचलद्दुर्वारदुर्वारणं
मुष्णन्ति श्रममाश्रिता नवसुधावृष्टायिता दृष्टयः ॥५७॥
त्रिपुण्ड्रं तस्याऽऽहुः सितभसितशोभि त्रिपथगां
कृपापारावारं कतिचन मुनिं तं श्रितबतीम् ॥
वयं त्वेतद्ब्रूमो जगति किल तिस्रः सुरुचिरा -
स्त्रयीमौलिव्यकृत्युपकृतिभवाः कीर्तय इति ॥५८॥
असौ शम्भोर्लीलावपुरिति भृशं सुन्दर इति
द्वयं संप्रत्येतज्जनमनसि सिद्धं च सुगमम् ॥
यदन्तः पश्यन्तः करणमदसीयं निरुपमं
तृणीकुर्वन्त्येते सुषममपि कामं सुमतयः ॥५९॥
अज्ञानान्तर्गहनपतितानात्मविद्योपदेशै -
स्त्रातुं लोकान्भवदवशिखातापपापच्यमानान् ॥
मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्ती
शम्भोर्मृर्तिश्चरति भुवने शंकराचार्यरूपा ॥६०॥

N/A

References : N/A
Last Updated : May 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP