संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सिद्धसिद्धान्तपद्धतिः|सिद्धसिद्धान्तपद्धतिः| षष्ठोपदेशः सिद्धसिद्धान्तपद्धतिः प्रथमोपदेशः द्वितीयोपदेशः तृतीयोपदेशः चतुर्थोपदेशः पञ्चमोपदेशः षष्ठोपदेशः सिद्धसिद्धान्तपद्धतिः - षष्ठोपदेशः सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath. Tags : gorakshanathhath yogsanskritगोरक्षनाथसंस्कृतहठ योग षष्ठोपदेशः Translation - भाषांतर अथ अवधूतयोगिलक्षणं कथ्यते :-अवधूतयोगी नाम क इत्यपेक्षायामाह ।यः सर्वान् प्रकृतिविकारान् अवधूनोतीत्यवधूतः । योगोsस्यास्तीति योगी । धूञ् कम्पने इति धातुः कम्पनार्थे वर्तते ।कम्पनं चालनं देह - दैहिक - प्रपंचादिषु विषयेषु संगतं मनःपरिगृह्य तेभ्यः प्रत्याहृत्य स्वधाममहिम्नि परिलीन -चेताः प्रपञ्चशून्य आदिमध्यान्तनिधनभेदवर्जितः ॥१॥यकारो वायुबेजं स्याद्रकारो वह्निबीजकम् ।तयोरभेदओंकारश्चिदाकारः प्रकीर्तितः ॥२॥तदेतद् व्यक्तमुच्यते :-क्लेशपाशतरङ्गाणां कृन्तनेन विमुण्डनम् ।सर्वावस्थाविनिर्मुक्तः सोsवधूतोsभिधीयते ॥३॥निजस्मरविभूतिर्यो योगी स्वाङ्गे विभूषितः ।आधारे यस्य वा रुढः ( ढः ) सोsवधूतोsभिधीयते ॥४॥लोकमध्ये स्थिरासीनः समस्त - कलनोज्झितः ।कौपिनं खर्परोsदैन्यं सोsवधूतोsभिधीयते ॥५॥शं सुखं खं परं ब्रह्म शंखं सघंट्टानादवत् ।सिद्धान्तं धारितं येन सोsवधूतोsभिधीयते ॥६॥पादुका पदसंवित्ति र्मृगत्वच्च महाव्रतम् ।वेला यस्य परा संवित्सोsवधूतोsभिधीयते ॥७॥मेखला निवृत्तिर्नित्यं स्वस्वरूपं कटासनम् निवृत्तिः षड्विकारेभ्यः सोsवधूतोsभिधीयते ॥८॥चित्प्रकाश - परानन्दौ यस्य वै कुण्डलद्वयम् ।जपमालाक्षविश्रान्तिः सोsवधूतोsभिधीयते ॥९॥यस्य धैर्यमयो दण्डः पराकाशं च खर्परम् ।योगपट्टं निजा शक्तिः सोsवधूतोsभिधीयते ॥१०॥भेदाभेदौ स्वयं भिक्षां षड्रसास्वादने रतःजारणात्तन्मयीभावः सोsवधूतोsभिधीयते ॥११॥अचिंन्त्ये निज - दिग्देशे स्वान्तरं यस्तु गच्छति ।एकादेशान्तरीयो यः सोsवधूतोsभिधीयते ॥१२॥स्वपिण्डममरं कर्तुमनन्ताममरीं च यः ।स्वयमेव पिवेदेतां सोsवधूतोsभिधीयते ॥१३॥अचिन्त्यं वज्रवद्गाढा वासनामलसंकुला ।सा वज्री भक्षिता येन सोsवधूतोsभिधीयते ॥१४॥आवर्त्तयति यः सम्यक् स्वस्वमध्ये स्वयं सदा ।समत्वेन जगद्वेत्ति सोsवधूतोsभिधीयते ॥१५॥स्वात्मानमवगच्छेद्यः स्वात्मन्येवावतिष्ठते ।अनुत्थानमयः सम्यक् सोsवधूतोsभिधीयते ॥१६॥अनुत्वा(त्था) धारसम्पन्नः परविश्रान्तिपारगः ।धृतिचिन्मयतत्त्वज्ञः सोsवधूतोsभिधीयते ॥१७॥अव्यक्तं व्यक्तमाधत्ते व्यक्तं सर्वं ग्रसत्यलम् ।स्व(स)त्यं स्वान्तरे सन् यः सोsवधूतोsभिधीयते ॥१८॥अवभासात्मको भासः स्वप्रकाशे सुसंस्थितः ।लीलया रमते लोके सोsवधूतोsभिधीयते ॥१९॥क्कचिद्भोगी क्कचित्त्यागी क्कचिन्नग्नः पिशाचवत् ।क्कचिद्राजा क्कचाचारी सोsवधूतोsभिधीयते ॥२०॥एवं - विध नानासंकेतसूचकनित्यप्रकाशे ( वस्तुनि ) सुनिज -स्वरूपी सर्वेषां सिद्धान्तदर्शनानां स्वस्वरोपदर्शन सम्यक् सद्वेधकोs-वधूतयोगी - त्यभिधीयते स सद्गुरुर्भवति । यतः सर्वदर्शनानां स्वस्वरूपदर्शने समन्वयं करोति सोsवधूतो योगी स्यात् ॥अत्याश्रमी च योगी च ज्ञानी सिद्धश्च सुव्रतः ।ईश्वरश्च तथा स्वामी धन्यः श्रीसाधुरेव च ॥२१॥जितेन्द्रियश्च भगवान् स सुधीः कोविदो बुधः ।चार्वाकश्चार्हतश्चेति तथा बौद्धः प्रकाशवित् ॥२२॥तार्किकश्चेति सांख्यश्च तथा मीमांसको विदुः ।देवतेत्यादिविद्वाद्भिः कीर्तितः शास्त्रकोटिभिः ॥२३॥आत्मेति परमात्मेति जीवात्मेति पुनः स्वयम् ।अस्तितत्त्वं परं साक्षाच्छिव - रुद्रादि - संज्ञितम् ॥२४॥शरीरपद्मकुहरे यत्सर्वेषामवस्थितम् ॥तदवश्यं महायासाद्वेदितव्यं मुमुक्षुभिः ॥२५॥ब्रह्मा विष्णुश्च रुद्रश्च सोsक्षरः परमः स्वराट् ।स एव इन्द्रः स प्राणः स कालाग्निः सचन्द्रकः ॥२६॥स एव सूर्यः स शिवः स एव परमः शिवः ।स एव योगगम्यस्तु सांख्यशास्त्रपरायणैः ॥२७॥स एव कर्म इत्युक्तः सर्वकर्ममीमांसकैरपि ।सर्वत्र सत्परानन्द इत्युक्तो वैद्कैरपि ॥२८॥व्यवहारैरयं भेदः तस्मादेकस्य नान्यथा ।मुदू - मोदे तु रानन्दो ( ? तुरीयानन्दो ) जीवात्मपरमात्मनोः ॥२९॥उभयोरैक्यं संवित्ति र्मुद्रेति परिकीर्तिता ॥३०॥मोदन्ते देवसंघाश्च द्रावन्तेsसुरराशयः ।मुद्रेति कथिता साक्षात्सदा भद्रार्थदायिनी ॥३१॥अस्मिन् मार्गेsदीक्षिता ये सदा संसाररागिणः ।ते हि पाषण्डिनः प्रोक्ताः संसारपरिपेलवाः ॥३२॥अवधूत - तनुर्योगी निराकारपदे स्थितः ।सर्वेषां दर्शनानां च स्वस्वरूपं प्रकाशते ॥३३॥तत्र ब्राह्मणेषु ब्रह्मचर्याश्रममाह :-सर्वतो भरिताकारं निजबोधेन बृंहितम् ।चरते ब्रह्मविद्यस्तु ब्रह्मचारी स कथ्यते ॥३४॥गृहिणी पूर्णता नित्या गेहं व्योम सदाचलम् ।यस्तयोर्निवसत्यत्र गृहस्थः सोsभिधीयते ॥३५॥सदान्तःप्रस्थितो योsसौ स्वप्रकाशमये वने ।वानप्रस्थः स विज्ञेयो न वने मृगवच्चरन् ॥३६॥परमात्माथ जीवात्मा आत्मन्येव स्फुरत्यलम् ।तस्मिन् न्यस्तः सदा येन संन्यासी सोsभिधीयते ॥३७॥मायाकर्मकलाजालमनिशं येन दण्डितम् ।अचलो नगवद्भाति त्रिदण्डी सोsभिधीयते ॥३८॥एकं नानाविधाकारमस्थिरं चञ्चलं सदा ।तच्चित्तं दण्डितं येन एकदण्डी स कथ्यते ॥३९॥शुद्धं शान्तं निराकारं परानन्दं सदोदितम् ।तं शिवं यो विजानाति शुद्धशैवो भवेत्तु सः ॥४०॥सन्तापयति दीप्तानि स्वेन्द्रियाणि च यः सदा ।तापसः स तु विज्ञेयो न च गोभस्मधारकः ॥४१॥क्रियाजालं पशु हत्वा पतित्वं पूर्णतां गतम् ।यस्तिष्ठेत्पशुभावेन स वै पाशुपतो भवेत् ॥४२॥परानन्दमयं लिङ्गं निजपीठे सदाsचले ।तल्लिङ्ग पूजितं येन स वै कालमुखो भवेत् ॥४३॥विलयं सर्वतत्त्वानां कृत्वा संधार्यते स्थिरम् ।सर्वदा येन वीरेण लिङ्गधारी भवेत्तु सः ॥४४॥अन्तकादीनि तत्त्वानि त्यक्त्वा नग्नो दिगम्बरः ।यो निर्वाणपदे लीनः स निर्वाणपरो भवेत् ॥४५॥स्वस्वरूपात्मकं ज्ञानं समन्त्रं ( समन्तात् ) प्रतिपालितम् ।अनन्यत्वं सदा येन स वै कापालिको भवेत् ॥४६॥महाव्याप्तिपरं तत्त्वमाधाराधेयवर्जितम् ।तद्व्रतं धारितं येन स भवेद्वै महाव्रतः ॥४७॥कुलं सर्वात्मकं पिण्डमकुलं सर्वतोमुखम् ।तयोरैक्यपदं शक्तिर्यस्तां वेद स शक्तिभाक् ॥४८॥कौलं सर्वकलाग्रासः स कृतः सततं यया ।तां शक्तिं ( यो ) विजानाति शक्तिज्ञानी स कथ्यते ॥४९॥ज्ञात्वा कुलाकुलं तत्त्वं स क्रमेण क्रमेण तु ।स्वप्रकाशमहाशक्त्या ततः शक्तिपदं लभेत् ॥५०॥मदो मद्यं मतिर्मुद्रा माया मीनं मनः पलम् ।मूर्च्छनं मैथुनं यस्य तेनाsसौ शाक्त उच्यते ॥५१॥यया भासस्फुरद्रूपं कृतं चैव स्फुटं बलात् ।तां शक्तिं यो विजानाति शाक्तः सोsत्राभिधीयते ॥५२॥यः करोति निरुत्थानं कर्तृचित्प्रसरेत्सदा ।तद्विश्रान्तिस्तया शक्त्या शाक्तः सोsत्राभिधीयते ॥५३॥व्यापकत्वे परं सारं यद्विष्णोराद्यमव्ययम् ।विश्रान्तिदयकं देहे तज्ज्ञात्वा वैष्णवो भवेत् ॥५४॥भास्वत्स्वरूपो यो भेदादू भेदाभेदभवोज्झितः ।भाति देहे सदा यस्य स वै भागवतो भवेत् ॥५५॥यो वेत्ति वैष्णवं भेदं सर्वासर्वमयं निजम् ।प्रबुद्धं सर्वदेहस्थं भेदवादी भवेत्तु सः ॥५६॥पञ्चानामक्षया हानिः ( पञ्चानामक्षपातानां ) पञ्चत्वं रात्रिरुच्यत ।तां रात्रिं यो विजानाति स भवेत्पांचरात्रिकः ॥५७॥येन जीवन्ति जीवा वै मुक्तिं यान्ति च तत्क्षणात् ।स जीवो विदितो येन सदाजीवी स कथ्यते ॥५८॥यः करोति सदा प्रीतिं प्रसन्ने पुरुषे परे शासितानीन्द्रियाण्येव सात्त्विकः सोsभिधीयते ॥५९॥सर्वाकारं निराकारं निर्निमित्तं निरञ्जनम् ।सूक्ष्मं हंसञ्च यो वेत्ति स भवेत्सूक्षासात्त्विकः ॥६०॥सत्यमेकमजं नित्यमनन्तञ्चाक्षयं ध्रुवम् ।ज्ञात्वा यस्तु वदेद्धीरः सत्यवादी स कथ्यते ॥६१॥ज्ञानज्ञेयमयाभ्यां तु योगिनः स्वस्वभावतः ।कलङ्की स तु विज्ञेयो व्यापकः पुरुषोत्तमः ॥६२॥मुक्तिचारे मतिर्या वै व्यापिका स्वप्रकाशिका ।एषा ज्ञानवती यस्य ज्ञाताsसौ सात्विको भवेत् ॥६३॥क्षपणं चित्तवृत्तीनां रागद्वेषविलुण्ठनम् ।कुरुते व्योमवन्नग्नो योsसौ क्षपणको भवेत् ॥६४॥प्रसरं भासते शक्तिः संकोचं भासते शिवः ।तयोर्योगस्य कर्ता यः स भवेत् सिद्धयोगिराट् ॥६५॥विश्वातीतं यथा विश्वमेकमेव विराजते ।संयोगेन सदा यस्तु सिद्धयोगी भवेत्तु सः ॥६६॥सर्वासां निजवृत्तीनाम प्रसृति र्भजते लयम् ( तु यः ) ।स भवेत् सिद्धसिद्धान्ते सिद्धयोगी महाबलः ॥६७॥उदासीनः सदा शान्तः स्वस्थोsन्तर्निजभासकः ।महानन्दमयो धीरः स भवेत् सिद्धयोगिराट् ॥६८॥परिपूर्णः प्रसन्नात्मा सर्वासर्वपदोदितः ।विशुद्धो निर्भरानन्दः स भवेत् सिद्धयोगिराट् ॥६९॥परिपूर्णः प्रसन्नात्मा सर्वानन्दकरः सुधीः ।सर्वानुग्रहधीः सम्यक् स भवेत् सिद्धयोगिराट् ॥७०॥गते न शोकं विभवे न वांछां प्राप्ते च हर्षं न करोति योगी ।आनन्दपूर्णो निजबोधलीनो न बाध्यते कालपथेन नित्यम् ॥७१॥एवं सर्वसिद्धान्तदर्शनानां पृथक् पृथक् भूतानामपि ब्रह्मणि समन्वयसूचनशीलोपदेशकर्ताsवधूत एव सद्गुरुः प्रशस्यते ।एषामुपदेशानां पृथक् पृथक् सूचितानां जायते यत्र विश्रान्तिः साविश्रान्तिरभिधीयते ॥७२॥लीनतां च स्वयं याति निरुत्थानचमत्कृतेः ।यतो निरुत्थानमयात् ( मयः ) सोsयं स्यादवधूतराट् ॥७३॥तस्मात्तं सद्गुरुं साक्षाद्वन्दयेत् पूजयेत्सदा ।सम्यक् सिद्धपदं धत्ते तत्क्षणात्स्वात्मभासितम् ॥७४॥न वन्दनीयास्ते काष्ठाः दर्शनभ्रान्तिकारकाः ।वर्जयेत् तान् गुरून् दूरे धीरः सिद्धमताश्रयः ॥७५॥परपक्षं निरासं करोति :-वेदान्ती बहुतर्ककर्कशमतिर्ग्रस्तः परं मायया ।भाट्टाः कर्मफलाकुला हतधियो द्वैतेन वैशेषिकाः ॥अन्ये भेदरताः विवादविकला स्ते तत्त्वतोवाञ्चिताः( सत्तत्त्वतोवञ्चिताः ) ।तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥७६॥सांख्या वैष्णवा वैदिका विधिपराः संन्यासिनस्तापसाः ।सौरा वीरपराः प्रपञ्चनिरता बौद्धा जिनाः श्रावकाः ॥एते कष्टरता वृथापथगतास्ते सत्तत्त्वतो वञ्चिताः ।तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥७७॥आचार्या बहुदीक्षिता हुतिरता नग्नव्रतास्तापसाः ।नानातीर्थनिषेवका जपपरा मौनस्थिता नित्यशः ॥एते ते खलु दुःखभारनिरताः सत्तत्त्वतो वञ्चिताः ।तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥७८॥आदौ रेचक - पूरक - कुम्भक - विधौ नाडीपथा शोधितम् ।कृत्वा हृत्कमलोदरे तु सहसा चित्तं महामूर्च्छितम् ॥पश्चादव्ययमक्षरं परकुले चोंकारदीपाङ्कुरे ।ये पश्यन्ति समाहितेन मनसा तेषां न नित्यं पदम् ॥७९॥( तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् )चार्वाकाश्चतुराश्च तर्कनिपुणा देहात्मवादे रताः ।ते सर्वे न तरन्ति दुःसहतरं ये ते परं सात्विका ॥ते सर्वे प्रभवन्ति ये च यवनाः पापे रता निर्दयाः ।तेषामैहिकमल्पमेव फलदं तत्त्वं न मोक्षप्रदम् ॥८०॥श्रीहट्टे मस्तकान्ते त्रिपुटपुटबिले ब्रह्मरन्ध्रे ललाटे ।भ्रूनेत्रे नासिकाग्रे श्रवणपथरवे घण्टिका राजदन्ते ॥कण्ठे हृन्नाभिमध्ये त्रिकमलकुहरे चोड्डियाणे च मूले ।एवं ये स्थानलग्नाः परमपदमहो नास्ति तेषां निरुत्थम् ॥८१॥कोल्लाटे दीप्तिपुंजे प्रलयशिखिनिभे सिद्धजालन्धरे वा ।शृङ्गाटे ज्योतिरेकं तडिदिव तरलं ब्रह्मनाड्यन्तराले ॥भालान्ते विद्युदाभं तदुपरि शिखरे कोटिमार्तण्डचण्डे ।ये नित्यं भावयन्ते परमपदमहो नास्ति तेषां निरुत्थम् ॥८२॥लिङ्गाद्दण्डांकुरान्तर्मनःपवनगमात् ब्रह्मनाड्यादिभेदम् ।कृत्वा बिन्दुं नयन्तः परमपदगुहां शंखगर्भोदरोर्ध्वम् ॥तत्रान्तर्नादघोषं गगनगुणामयं वज्रदण्डीक्रमेण ।ये कुर्वन्तीह कष्टात् परमपदमहो नास्ति तेषां निरुत्थम् ॥८३॥सम्यक् चालनदोहनेन सततं दीर्घी कृतां लिम्बिकाम् ।तां ताल्वभ्यंतरवेशितां च दशमद्वारेsपि चोल्लंघिनीम् ॥नीत्वा मध्यम - सन्धि - संघट - घटात्प्राप्तां शिरोदेशतः पीत्वा षड्विधपानकाष्टितजनां मूर्च्छां चिरं मोहिताः ॥८४॥गुह्यात्पश्चिमपूर्वमार्गमुभयं रुध्वानिलं मध्यमम् ।नीत्वा ध्यानसमाधिलक्षकरणैर्नानासनाभ्यासनैः ॥प्राणापानसमागमेन सततं हंसोदरे संघटा ।एवं येsपि भजन्ति ते भवजले मज्जन्त्यहो दुःखितः ॥८५॥शक्त्याकुञ्चनमग्निदीप्तिकरणं त्वाधारसंपीडानात् स्थानात्कुण्डलिनीप्रबोधनूमनः ( तः ) कृत्वा ततो मूर्धनि ॥नीत्वा पूर्णगिरिं निपातनमधः कुर्वन्ति तस्याश्च ये ।खण्डज्ञानरतास्तु ते निजपदं तेषां हि दूरं पदम् ॥८६॥बन्धं भेदं च मुद्रां गल - बिल - चिबुका - बद्धमार्गेषु वन्हिम् ।चन्द्रार्कौ सामरस्यं शमदम नियमानादबिन्दुं कलान्ते ।ये नित्यं मेलयन्ते ह्यनुभवमनसाप्युन्मनीयोगयुक्ताः ।ते लोकान् भ्रामयन्ती निजसुखविमुखाः कर्मदुःखाध्वमाजः ॥८७॥अष्टाङ्गं योगमार्गं कुलपुरुषमतं षण्मुखीचक्रभेदम् ।ऊर्ध्वाधो वायुमध्ये रविकिरणनिभं सर्वतो व्याप्तिसारम् ॥दृष्ट्या ये वीक्षयन्ते तरलजलसमं नीलवर्णं नभो वा ।एवं ये भावयन्ते निगदितमतयस्तेsपि हा कष्टभाजः ॥८८॥आदौ धारण शंख धारणमतः कृत्वा महाधारणम् ।सम्पूर्णं प्रतिधारणं विधिबलात् दृष्टिं तथा निर्मलां ॥अर्धोली बहुलीह दृष्टासनमथो घण्टी वसन्तोलिका ।ये कुर्वन्ति च कारयन्ति च सदा भ्राम्यन्ति खिद्यन्ति ते ॥८९॥शंखक्षालनमन्तरं रसनया ताल्वोष्ठनासारसम् ।वान्तेरुल्लटनं कवाटममरीपानं तथा खर्परी ॥वीर्यद्रावितमात्मजं पुनरहो ग्रासं प्रलेपञ्च वा ।ये कुर्वंति जडास्तु ते नहि फलं तेषां तु सिद्धान्तजम् ॥९०॥घण्टाकादल - कालमर्दल - महा - भेरीनिनादं यदा ।सम्यङ् नादमनाहतध्वनिमयं श्रृण्वन्ति चैतादृशम् ॥पिण्डे सर्वगतं निरन्तरतया ब्रह्माण्डमध्येsपि वा ।तेषां सिद्धपदं ततः समुचितं तत्त्वं परं लभ्यते ॥९१॥वैराग्यात्तृणशाकपल्लवजलं कन्दं फलं मूलकम् ।भुक्त्वा ये वनवासमेव भजन्ते चान्ये च देशान्तरम् ॥बालोन्मत्तपिशाचमूकजडवत् चेष्टाश्च नानाविधा ।ये कुर्वन्ति पदं विना मतिबलाद्भ्रष्टा विमुह्यन्ति ते ॥९२॥कथा दर्शनमद्भुतं बहुविधं भिक्षाटनं नाटकम् ।भस्मोलद्धूनमङ्गकर्कशतरं कृत्वाथ वर्षं चरेत् ॥क्षेत्रं क्षेत्रमटन्ति दुर्गमतरं छित्वाथ सर्वेंन्द्रियम् ।नो विन्दन्ति परं पदं गुरुमुखाद्गर्वेण कष्टाश्च ते ॥९३॥वाणीं ये च चतुर्विधां स्वरचितां सिद्धैश्च वा निर्मितां ।गायत्रीचतुराश्च पाठनिरता विद्याविवादे रताः ॥नो विन्दन्ति तदर्थमात्मसदृशं खिद्यन्ति मोहाद्धलात् ।दण्डैः कर्तरिशूलचक्रलगुडैर्भण्डाश्च दुष्टाश्चये ॥९४॥एवं शून्यादिशून्यं परमपरपदं पञ्चशून्यादिशून्यम् ।व्योमातीतं ह्यनाद्य निजकुलमकुलं चाद्भुतं विश्वरूपम् ॥अव्यक्तं चान्तरालं निरुदयमपरं भासनिर्नाममैक्यम् ।वाड्मात्राद्भासयन्तो बहुविधमनसो व्याकुला भ्रामितास्ते ॥९५॥आज्ञासिद्धिकरं सदा समुचितं सम्पूर्णमाभासकम् ।पिण्डे सर्वगतं विधानममलं सिद्धान्तसारं वरम् ॥भ्रान्तेर्निर्हरणं सुखातिसुखदं कालान्तकं शाश्वतम् ।तन्नित्य कलनोद्गतं गुरुमयं ज्ञेयं निरुत्थं पदम् ॥९६॥आत्मेति परमात्मेति जीवात्मेति विचारणे ।त्रयाणामेक्यसंभूतिः आदेश इति कीर्तितः ॥९७॥आदेश इति सद्वाणीं सर्वद्वन्द्वक्षयापहाम् ।यो योगिनं प्रतिवदेत् स यात्यात्मानमैश्वरम् ॥९८॥आशादहनं भसितं कुण्डलयुगलं विचारसन्तोषः ।कौपीनं स्थिरचित्तं खर्परमाकाशमात्मनो भजनम् ॥९९॥एतच्छास्त्रं महादिव्यं रहस्यं पारमेश्वरम् ।सिद्धान्तं सर्वसारस्वं नानासंकेतनिर्णयम् ॥१००॥सिद्धानां प्रकटं सिद्धं सद्यःप्रत्ययकारकम् ।आत्मानंदकरं नित्यं सर्वसंदेहनाशनम् ॥१०१॥न देयं परशिष्येभ्यः नान्येषां सन्निधौ पठेत् ।न स्नेहान्न बल्लाल्लोभान्न मोहान्नानृताच्छलात् ॥१०२॥न मैत्रीभावनाद्दानान्न सौन्दर्यान्न चासनात् ।पुत्रस्यापि न दातव्यं गुरुशिष्यक्रमं विना ॥१०३॥सत्यवन्तो दयाचित्ताः दृढभक्ताः सदाचलाः निस्तरङ्गाः महाशान्ताः सदाज्ञानप्रबोधकाः ॥१०४॥भयदैन्यघृणालज्जातृष्नाशाशोकवर्जिताः ।आलस्यमदमात्सर्यदम्भमायाछलोज्झिताः ॥१०५॥अहङ्कारमहामोहरागद्वेषपराड्मुखाःक्रोधेच्छाकामुकासूयाभ्रान्तितालोभवर्जिताः ॥१०६॥निस्पृहा निर्मला धीराः सदाद्वैतपदे रताः ।तेभ्यो देयं प्रयत्नेन धूर्तानां गोपयेत् सदा ॥१०७॥निन्दका ये दुराचाराश्चुम्बकाः गुरुतल्पगाः ।नास्तिका ये शठाः क्रूरा विद्यावादरतास्तथा ॥१०८॥योगाचारपरिभ्रष्टाः निद्राकलहयोः प्रियाः ।स्वस्वकार्ये परानिष्ठाः गुरुकार्येषु निस्पृहाः ॥१०९॥एतान् विवर्जयेदू दूरे शिष्यत्वेन गतानपि ॥११०॥सच्छास्त्रं सिद्धमार्गञ्च सिद्धसिद्धान्तपद्धतिम् ।न देयं सर्वदा तेभ्यो यदीच्छेच्चिरजीवनम् ॥१११॥गोपनीयं प्रयत्नेन तस्करेभ्योधनं यथा ।तेषां यो बोधयेत् मोहादपरीक्षितमन्दधीः ॥११२॥न हि मुक्तिर्भवेत्तस्य सदा दुःखेन सीदतः ।खेचरी भूचरी योगी शाकिनी च निशाचरी ॥११३॥एतेषामद्भुतं शापः सिद्धानां भैरवस्य च ।मस्तके तस्य पतति तस्माद्यत्नेन रक्षतेत् ॥११४॥गुरुपादाम्बुजस्थाय परीक्ष्य प्रवदेत्सदा ।कुतो दुःखं च भीतिश्च तत्त्वज्ञस्य महात्मनः ॥११५॥कृपयैव प्रदातव्यं सम्प्रदायप्रवृत्तये ।सम्प्रदायप्रवृत्तिर्हि सर्वेषां सम्मता यतः ॥११६॥मायाशंकरनाथाय नत्वा सिद्धान्तपद्धतिम् ।लिखित्वा यः पठेद्भक्त्या स याति परमां गतिम् ॥११७॥विदधात्वत्यर्थनिचयं भक्तानुग्रहमूर्तिमत् ।स्मरानन्दपरं चेतो गणपत्यभिधं महः ॥११८॥॥ इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ अवधूतयोगिलक्षणं नाम षष्ठोपदेशः ॥६॥ N/A References : N/A Last Updated : November 25, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP