संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सिद्धसिद्धान्तपद्धतिः|सिद्धसिद्धान्तपद्धतिः| पञ्चमोपदेशः सिद्धसिद्धान्तपद्धतिः प्रथमोपदेशः द्वितीयोपदेशः तृतीयोपदेशः चतुर्थोपदेशः पञ्चमोपदेशः षष्ठोपदेशः सिद्धसिद्धान्तपद्धतिः - पञ्चमोपदेशः सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath. Tags : gorakshanathhath yogsanskritगोरक्षनाथसंस्कृतहठ योग पञ्चमोपदेशः Translation - भाषांतर अथ पिण्डपदयोः समरसकरणं कथ्यते -महासिद्धयोगिभिः पूर्वोक्तक्रमेण परपिण्डादिस्वपिण्डान्तंज्ञात्वां परमपदे समरसं कूर्यात् ॥१॥परमपदमिति स्वसंवेद्यं अत्यन्ताभासाभासकमयं ॥२॥उक्तं तत्त्वसंहितायाम् :-यत्र बुद्धिर्मनो नास्ति तत्त्वविन्नापरा कला ।ऊहापोहौ न कर्तव्यौ वाचा तत्र करोति किम् ॥वाग्मिना गुरुणा सम्यक् कथं तत्पदमीयते ।तस्मादुक्तं शिवेनैव स्वसंवेद्यं परंपदम् ॥३॥अतएव नानाविध - विचारचातुर्य - वचसा विस्मयं गत्वागुरुचरणतत्वात् निर्णीतत्वात् स्वसंवेद्यमेव परमं पदम्प्रसिद्धमिति सिद्धान्तः ॥४॥गुरुरत्र सम्यक् सन्मार्गदर्शनशीलो भवति ।सन्मार्गो योगमार्गस्तदितरः पाषंडमार्गः ।तदुक्तमादिनाथेन :-योगमार्गेषु तंत्रेषु दीक्षितास्तांश्च दूषकाः ।ते हि पाषंडिनः प्रोक्ताः तथा तैः सहवासिनः ॥५॥यस्मिन् दर्शिते सति तत्क्षणात् स्वसंवेद्यसाक्षात्कारः समुत्पद्यते । ततो गुरुरेवात्र कारणमुच्यते ॥६॥तस्माद्गुरुकटाक्षपातात् स्वसंवेद्यतया च महासिद्ध -योगिभिः स्वकीयं पिण्डं निरुत्थानानुभवेन समरसं क्रियतेइति सिद्धान्तः ॥७॥तद्यथा - निरुत्थानप्राप्त्युपायः कथ्यते ।महासिद्धयोगिनः स्वस्वरूपतयानुसन्धानेन निजावेशो भवति निजावेशान्निपीडित - निरुत्थान - दशा - महोदयः कश्चिज्जायते ।ततः सच्चिदानन्द - चमत्कारात् अद्भुताकारप्रकाशप्रबोधो जायते ।प्रबोधादखिलमेतद् द्वयाद्वय - प्रकटतया चैतन्यभासाभासकं परात्परं पदमेव प्रस्फुटं भवतीति सत्यं ॥८॥अतं एव महासिद्धयोगिभिः सम्यक् ( उक्त ) गुरुप्रसादं लब्ध्वाs -वधान - वलेनैक्यं भजमानैस्तत्क्षणात् परमं पदमेवानुभूयते ॥९॥तदनुभवबलेन स्वकीयं सिद्धं सम्यक् निजपिण्डं परिज्ञात्वातमेव परमपदे एकीकृत्य तस्मिन् प्रत्यावृत्यारूढेवाभ्यन्तरे स्वपिण्ड सिद्धयर्थं महत्त्वमनुभूयते ॥१०॥निजपिण्डमिति स्वरूपकिरणानन्दोन्मेषमात्रं यस्योन्मेषस्य प्रत्या -हरणमेव समरसकरणं भवति ॥११॥अतएव स्वकीयं पिण्डं महारश्मिपुंजं स्वेनैवाकारेण प्रतीयमानंस्वानुसन्धानेन स्वस्मिन्नुररीकृत्य महासिद्धयोगिनः पिण्डासिद्धयर्थं तिष्ठन्तीति प्रसिद्धम् ॥१२॥अथ पिण्डसिद्धौ वेषः कथ्यते -शंखमुद्राधारणञ्च केशरोमप्रधारणम् ।अमरीपानममलं तथा मर्दनमुत्कटम् ॥१३॥एकान्तवासो दीक्षा च सन्ध्या जपमाश्रया ।झानभैरवमूर्तेस्तु तत्पूजा च सुरादिभिः ॥१४॥शंखाध्यातं सिहंनादं कौपीनं पादुका तथा ।अङ्गवस्त्रं बहिर्वस्त्रं कम्बलं छत्रमद्भुतम् ॥१५॥वेत्रं कमंडलुञ्चैव भस्मना च त्रिपुण्ड्रकम् ।कूर्यादेतान् प्रयत्नेन गुरुवन्दनपूर्वकम् ॥१६॥तेषां पिण्डसिद्बौ सत्यां सर्वसिद्धयः सन्निधाना भवन्ति ॥१७॥उक्तञ्च :-यस्मिन् ज्ञाते जगत्सर्वं सिद्धं भवति लीलया ।सिद्धयः स्वयमायान्ति तस्माद् ज्ञेयं परमं पदम् ॥१८॥परं पदं न वेषेण प्राप्यते परमार्थतः ।देहमूलं हि वेषं स्याल्लोकप्रत्ययहेतुकम् ॥१९॥लोके निकृष्टमुत्कृष्टं परिगृह्य पृथक् कृतम् ।तत्स्वधर्म इति प्रोक्तो योगमार्गे विशेषतः ॥२०॥योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ॥२१॥शास्त्रेष्वन्येषु सर्वेषु शिवेन कथितः पुरा ।योगः सन्नहनोपायो ज्ञानसंगतियुक्तिषु ॥२२॥लोके निकृष्टं सततं यं वा यं वा प्रकुर्वतो ।तं वा तं वा वर्जयन्ति लोकज्ञानबलेन तु ॥२३॥मनुष्याणां च सर्वेषां प्राक्संस्कारवशादिह ।शास्त्र - युक्ति - समाचारः क्रमेण भवति स्फुटम् ॥२४॥एवं पिण्डे संसिद्धे ज्ञानप्राप्त्यर्थं तच्च परमपदं महासिद्धानांमतं परिज्ञाय तस्मिन्नहंभावे जीवात्मा च सहजसंयम -सोपायाद्वैतक्रमेणोपलक्ष्यते ॥२५॥ तत्र सहजमिति ।विश्वातीतं परमेश्वरं विश्वरूपेणावभासमानमितिएकमेवास्तीति स्वस्वभावेन यद् ज्ञानं तत्सहजं प्रसिद्धम् ॥२६॥संयम इति । सावधानानां प्रस्फुरद् - व्यापाराणां निजवृत्तीनांसंयमनं कृत्वा आत्मनि धीयते इति संयमः ॥२७॥सोपायमिति । स्वयमेव प्रकाशमय स्वेनैव स्वात्मन्येकी -कृत्य सदा तत्त्वेन स्थातव्यम् ॥२८॥अद्वैतमिति । अकर्तृतयैव योगी नित्यतृप्तो निर्विकल्पः सदानिरुत्थानत्वेन तिष्ठति ॥२९॥उक्तश्च :-सहजं स्वात्मसंवित्तः संयमः स्वात्मनिग्रहः ।सोपायः स्वस्य विश्रान्तिरद्वैतं परमं पदम् ॥३०॥तज्ज्ञेयं सद्गुरोर्वक्त्रात् नान्यथा शास्त्रकोटिभिः ।न तर्कशब्दविज्ञानान्नाचाराद्वेदपाठनात् ॥३१॥वेदान्तश्रवणान्नैव तत्त्वमस्यादिबोधनात् ।न हंसोच्चारणाज्जीवब्रह्मणोरैक्यभावनात् ॥३२॥न ध्यानान्न लयाल्लीनः सर्वज्ञः सिद्धिपारगःस्वेच्छो योगी स्वयंकर्ता लीलया चाजरोsमरः ॥३३॥अवध्यो देवदैत्यानां क्रीडते भैरवो यथा ।इत्येवं निश्चलो योsसौ क्रमादाप्नोति लीलया ॥३४॥असाध्याः सिद्धयः सर्वाः सत्यमीश्वरभासितम् ।प्रथमे त्वरोगतासिद्धिः सर्वलोकप्रियो भवेत् ।कांक्षते दर्शनं तस्य स्वात्मारूढस्य नित्यशः ॥३५॥कृतार्थः स्यात्, द्वितीये तु कुरुते सर्वभाषया ।तृतीये दिव्यदेहस्तु व्यालैर्व्यघ्रैर्न बाध्यते ॥३६॥चतुर्थे क्षुत्तुषानिद्राशीततापविवर्जितः ।जायते दिव्ययोगीशो दूरश्रावी न संशयः ॥३७॥वाक्सिद्धिः पञ्चमे वर्षे परकायप्रवेशनम् ।षष्ठे न छिद्यते शस्त्रैर्वज्रपातैर्न वाध्यते ॥३८॥वायुवेगी क्षितित्यागी दूरदर्शी च सप्तमे ।अणिमादिगुणोपेतस्त्वष्टमे वत्सरे भवेत् ॥३९॥नवमे वज्रकायः स्यात् खेचरो दिक्चरो भवेत् ।दशमे पवनाद्वेगी यत्रेच्छा तत्र धावति ॥४०॥सम्यगेकादशे वर्षे सर्वज्ञः सिद्धिभाग्भवेत् ।द्वादशे शिवतुल्योsसौ कर्ता हर्ता स्वयं भवेत् ॥४१॥त्रैलोक्ये पूज्यते सिद्धः सत्यं श्रीभैरवो यथा ।एवं द्वादशवर्षेषु सिद्धयोगी महाबलः ॥जायते सद्गुरोः पादप्रभावान्नात्र संशयः ॥४२॥गुरुकुलसन्तानञ्चेति पञ्चधा प्रोक्तम् आई - सन्तानं विलेश्वर -प सन्तानं विभूति - सन्तानं नाथ - सन्तानं योगीश्वर - सन्तानञ्चेति एषामपि सन्तानानां पृथक् पृथक् वैशिष्ट्यं वर्तते ॥४३॥परमार्थतः सर्वं पाञ्चभौतिकं । तज्जाताः पुरुषाः । ( स्ववोघ ) सम्बोध -मात्रैकरूपः सः शिवः । तदितरत्सर्वमज्ञानमव्यक्तं भवति तत्रशिवस्तु ज्ञानं ॥४४॥एतेषामपि सन्तानानां केचित्स्वरूपपराड्मुखाः वेश -मात्रसम्पन्नाः क्रयविक्रयादिकं कुर्वन्ति सन्तानभेदंप्रत्यन्योsन्यमधः कुर्वन्ति योगमार्गं द्वेषयन्ति ॥४५॥रजसा घोरसंकल्पाः कामुकाः अतिमन्यवः ।दाम्भिकाः मानिनः पापाः धिक्कुर्वन्त्यीश्वरप्रियान् ॥४६॥साधुसङ्गम - सच्छास्त्र - परमानन्द - लक्शितान् ।स्वेच्छाचारविहारैक - ज्ञानविज्ञानसंयुतान् ॥४७॥यूयं दुष्टा वयं शिष्टा भ्रष्टा यूयं वयं तथा ।इत्येवं परिवदन्ति संप्रमोहे निरन्तरम् ॥४८॥पृथ्वी जलं तथा वह्निः वायुराकाशमेव च ।एते सन्तानोदयास्तु सम्यगेव प्रकीर्तिताः ॥४९॥काठिन्यञ्चार्द्रता तेजो धावनं स्थिरता खलु ।गुणान्येतानि पञ्चैव सन्तानानां क्रमात् स्मृताः ॥५०॥ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवःएताश्च देवताः प्रोक्ताः सन्तानानां क्रमेण तु ॥५१॥स्थूल - सूक्ष्म - कारणं तूर्यं तूर्यातीतमिति पञ्चवस्थाः क्रमेण लक्ष्यन्ते । एतेषामपि सर्वेषां विज्ञाता यः स योगी स सिद्ध -पुरुषः स योगीश्वरेश्वर इति परमरहस्यं प्रकाशितम् ॥५२॥अतएव सम्यक् निजविश्रान्तिकारकं महायोगिनं सद्गुरुं सेव -यित्वा सम्यक् सावधानेन परमं पदं सम्पाद्य तस्मिन् निज -पिण्डे ( पिण्डं ) समरसभावं कृत्वाsत्यन्तं निरुत्थानेन सर्वानन्दतत्त्वे निश्चलं स्थातव्यम् । ततः स्वयमेव महासिद्धो भवतीति सत्यम् ॥५३॥न विधिर्नैव वर्ण्श्च न वर्ज्यावर्ज्यकल्पना ।न भेदो निधनं किञ्चिनाशौचं नोदकक्रिया ॥५४॥योगीश्वरेश्वरस्यैवं नित्यतृप्तस्य योगिनः ।चित्स्वात्मसुखाविश्रान्तिभावलब्धस्य पुण्यतः ॥५५॥सम्यक् स्वभावविज्ञानात् क्रमाभ्यासान्न चासनात् ।न वैराग्यान्न नैराश्यान्नहार - प्राण - धारणात् ॥५६॥न मुद्रा - धारणाद्योगान्न मानकर्म - समाश्रयात् ।न विरक्तौ वृथायासान्न कायक्लेशधारणात् ॥५७॥न जपान्न तपोध्यानान्न यज्ञात्तीर्थसेवनात् ।न देवार्चनाश्रयाद्भक्त्या नाश्रमाणाञ्च पालनात् ॥५८॥न षङ्दर्शनकेशादिधारणान्न च मुण्डनात् ।नानन्तोपाययन्तेभ्यः प्राप्यते परम पदम् ॥५९॥एतानि साधनानि सर्वाणि दैहिकानि परित्यज्य परमपदेsदैहिकेस्थीयते सिद्धपुरुषैरिति ॥६०॥तत्कथं । गुरुदृक्पातनात् प्रायो दृढानां सत्यवादिनां सा स्थिति -र्जायते ॥६१॥कथनाच्छक्तिपाताद्वा पादावलोकनात् ।प्रसादात् स्वगुरोः सम्यक् प्राप्यते परमं पदम् ॥६२॥अतएव शिवेनोक्तम् -न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् ।शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः ॥६३॥वाड्मात्राद्वाथदृक्पातात् यः करोति च तत्क्षणात् ।प्रस्फुटं शाम्भवं वेद्यं स्वसंवेद्यं परं पदम् ॥६४॥करुनाखड्गपातेन छित्वा पाशाष्टकं शि(प)शोः ।सम्यगानन्दजनकः सद्गुरुः सोsभिधीयते ॥६५॥निमिषार्धार्धपाताद्वा यद्वा पादावलोकनात् ।स्वात्मानं स्थिरमाधत्ते तस्मै श्रीगुरवे नमः ॥६६॥नाना - विकल्प - विश्रान्तिं कथया कुरुते तु यः ।सद्गुरुः स तु विज्ञेयो न तु मिथ्या - विडम्बकः ॥६७॥अतएव परमपदप्राप्त्यर्थं स सद्गुरुः सदा वन्दनीयःगुरुरिति गृणाति शं सम्यक् चैतन्यविश्रान्तिमुपदिशति ।विश्रान्त्या स्वयमेव परात्परं परमपदमेव प्रस्फुटं भवति तत्क्षणात्साक्षात्करो भवति ॥६८॥अतएव महासिद्धानां मते प्रोक्तं । वाग्मात्रेण वा दृक्पात -मात्रेण वा सम्यगवलोकनेन वा तत्क्षणान्मुहुर्विश्रान्तिमत्तांनयतीति ( विश्रान्तियुक्तं करोतीति, ह )यः स सद्गुरुर्भवति । नो चेन्निजविश्रान्तिंविना पिण्डपदयोः समरसकरणं न भवतीति सिद्धान्तः ।तस्मान्निजविश्रान्तिकारकः सद्गुरुरभिधीयते नान्यः ॥पुनर्वागादि - शास्त्रदृष्टयानुमानतस्तर्क - मुद्रया भ्रामिकोगुरुस्त्याज्यः ॥६९॥उक्तञ्च :-ज्ञानहीनो गुरुस्त्याज्यः मिथ्यावादी विडम्बकः ।स्वविश्रान्तिं न जानाति परेषां स करोति किम् ॥७०॥शिलया किं परं पारं शिलासंघः प्रतार्यते ।स्वयं तीर्णो भवेद्योsसौ परान्निस्तारयत्यलम् ॥७१॥विकल्पसागरात्घोराच्चिन्ताकल्लोलदुस्तरात् ।प्रपञ्च - वासना - दुष्ट ( ग्रह ) ग्राहजालसमाकुलात् ॥७२॥वासना - लहरी - वेगाद्यः स्वं तारयितुं क्षमः ।स्वस्थेनैवोपदेशेन निरुत्थानेन तत्क्षणात् ॥७३॥तारयत्यैव दृकूपातात् कथनाद्वा विलोकनात् ।तारिते स्वपदं धत्ते स्वस्वमध्ये स्थिरो भवेत् ॥७४॥ततः स मुच्यते शिष्यो जन्मसंसारबन्धनात् ।परानन्दमयो भूत्वा निष्कलः शिवतां व्रजेत् ॥७५॥कुलानां कोटिकोटीनां तारयत्येव तत्क्षणात् ।अतस्तं सद्गुरुं साक्षात् त्रिकालमभिवन्दयेत् ॥७६॥सर्वाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् ।भजनात्स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ॥७७॥किमत्र बहुनोक्तेन शास्त्रकोटिशतेन च ।दुर्लभा चित्ताविश्रान्तिर्विना गुरुकृपां पराम् ॥७८॥चित्तविश्रान्तिलब्धानां योगिनां दृढचेतसाम् ।स्वस्वमध्ये निमग्नानां निरुत्थानं विशेषतः ॥७९॥निमिषात्प्रस्फुटं भाति दुर्लंभ परमं पदम् ।यस्मिन् पिण्डो भवेल्लीनः सहसा नात्र संशयः ॥८०॥संवित्क्रिया - विकरणोदय - चिद्विलोल -विश्रान्तिमेव भजतां स्वयमेव भाति ।ग्रस्ते स्ववेगनिचये पदपिण्डमैक्यं, सत्यं भवेत्समरसं गुरुवत्सलानाम् ॥८१॥॥ इति श्रीगोरक्षनाथकृतौ सिद्धिसिद्धान्तपद्धतौ पिण्डपदयोः समरसकरणं नाम पञ्चमोपदेशः ॥५॥ N/A References : N/A Last Updated : November 25, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP