संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगुरुचरित्रम्| अथैकोनविंशोsध्याय: श्रीगुरुचरित्रम् श्रीगुरुस्तुति: अथ प्रथमोsध्याय: अथ द्वितीयोsध्याय: अथ तृतीयोsध्याय: अथ चतुर्थोsध्याय: अथ पंचमोsध्याय: अथ षष्ठोsध्याय: अथ सप्तमोsध्याय: अथ अष्टमोsध्याय: अथ नवमोsध्याय: अथ दशमोsध्याय: अथैकादशोsध्याय: अथ द्वादशोsध्याय: अथ त्रयोदशोsध्याय: अथ चतुर्दशोsध्याय: अथ पंचदशोsध्याय: अथ षोडशोsध्याय: अथ सप्तदशोsध्याय: अथ अष्टादशोsध्याय: अथैकोनविंशोsध्याय: अथ विंशोsध्याय: अथैकविंशोsध्याय: अथ द्वाविंशोsध्याय: अथ त्रयोविंशोsध्याय: अथ योगरहस्यम् अथ बोधरहस्यम् अथैकोनविंशोsध्याय: स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल. Tags : bharathi krishnateerthgurucharitraगुरूचरित्रभारती कृष्णतीर्थसंस्कृत अथैकोनविंशोsध्याय: Translation - भाषांतर ॥ नामधारक उवाच ॥कर्मयोगं ज्ञानयोगसहायं चित्तशोधनं ।उक्त्वापि भगवान्कस्मात् भक्तियोगं जगौ वद ॥१॥॥ सिद्ध उवाच ॥भक्तिरेवानुत्तमात्र सर्वसाधनकारिणी ।कर्मज्ञस्याप्यभक्तस्य मोघं कर्मेत्यथाब्रवीत् ॥२॥त्रिभिर्योगपथैरेव परस्परसहायकै: ।ब्रह्माद्वंद्वं समं शान्तं गम्यते नैकयोगत: ॥३॥श्रद्धालु: सात्विको भक्तो नितरां भगवत्प्रिय: ।सकार्ममपि तद्भिन्नं शश्वत्क्षिपति दुर्भवे ॥४॥कर्मण्यकर्म य: पश्येदकर्मण्यपि कर्म य: ।स लोके भक्तिमान्धीमान्मुच्यते कर्मबन्धनात् ॥५॥भक्तियोगमयं तस्य भक्तिगम्यस्य चेष्टितं ।श्रृणु तस्मिन्दृढा भक्ति: पूता यच्छ्रवणाद्भवेत् ॥६॥भिक्षां सशिष्यगुरव एकैक: प्रत्यहं ददौ ॥भास्कराख्यो द्विजो दीन आययौ तत्र भक्तिमान् ॥७॥आदाय गुरवे भिक्षां दातुकामो गुरुप्रिय: ।स त्रिपुंभुक्तिपर्याप्तं तण्डुलादिकमाप तं ॥८॥तद्दिने केनचिद्दत्ता भिक्षा श्रीगुरवे वरा ।शिष्यभक्तयुजे तत्र सोपि भोक्तुं ययौ द्विज: ॥९॥सायमेत्य मठे भिक्षाद्रव्यमादाय स द्विज: ।सुष्वापैवं त्रिमांसं स तत्र तस्थौ सुभाविक: ॥१०॥तं तत्रोपहसन्ति स्म प्राप्य स्वल्पान्नतो गुरुं ।भिक्षां दातुं प्राज्यशिष्यं पुष्णाति स्वमितीतरे ॥११॥तज्ज्ञात्वा तं प्रभु: प्राह भक्तियोगविधित्सया ।द्राङ्मे सशिष्यभक्ताय भिक्षां देह्यद्य भाविक ॥१२॥तच्छ्रुत्वा हृषित: शाकसितादुग्धघृतादिकं ।स आनीय स्वयं पाकं कर्तुमारेभ उत्तमं ॥१३॥दातुं तदान्यमप्युवतं भिक्षां देहि श्व इत्यज: ।त निवार्याह्वयाशेषान्भोक्तुमित्याह भास्करं ॥१४॥तच्छ्रुत्वाप्याव्हयत्तान्स त ऊचुर्लज्जसे न किं ।पक्तान्नकणतुल्यान्न: किमाहूय करिष्यसि ॥१५॥तच्छ्रित्वैत्य गुरुं तत्स शशंस भगवांस्तदा ।आनयित्वात्र भोक्तव्यं सर्वैरित्याह तान्गुरु: ॥१६॥शङ्किता अपि तद्वाक्यात्तूष्णीं स्थित्वा बहूनि ते ।निर्माय भुक्तिपात्राणि सर्वे स्नात्वाययु: पुन: ॥१७॥शाट्येशस्याज्ञयाच्छाद्य सिद्धान्नं तीर्थमन्त्रितं ।सहान्यै: षड्विधं सोदाद्गरवे ब्राह्मणै: सह ॥१८॥भक्तान्छिष्यान्स तत्रत्यांस्त्र्यपत्येष्टयुजो द्विजान् ।गुरुं चेष्टं सुखं भोक्तुं प्रार्थयामास सादरं ॥१९॥परमान्नान्नपौल्याज्यसूपशाकादिषड्रसै: ।षोढान्नममितं नीत त्रिपुंपर्याप्तपाकत: ॥२०॥नीत्वा नीत्वापि भोक्तृभ्यो दत्तं तत्र तु पूर्ववत् ।नाप्यल्पं दातृभिस्तष्टं चेष्टा भगवतस्त्वियं ॥२१॥भुक्तं सशेषमाकण्ठं तृप्ता: स्मोलमिति द्विजा: ।उक्त्वोत्तस्थौ ( ? ) सहाजेन ततो गुर्वाज्ञयांघ्रिजान् ॥२२॥हीनांश्चाहूय तेभ्योदात्कामं नान्नं व्यहीयत् ।पशुपक्षिमृगादिभ्य: प्रकामं स उपानयत् ॥२३॥न शिष्टास्तत्र केपीति श्रुत्वा भुक्त्वा तदाज्ञया ।यादोभ्योदात्स शेषान्नं तदा नि:शेषतां ययौ ॥२४॥माधुर्यं सुरसान्नस्य दुर्लभं ह्यमृतांधसां ।स्वप्नेपि न श्रुतं रुच्यं तृप्तिरेषाप्यलौकिकी ॥२५॥प्राक्पार्थसंकटेरण्ये निशीथेदात्स्वमायया ।ऋषिभ्योन्नं हरिरिति श्रुतं दृष्टं त्वदोत्र तु ॥२६॥नृणां चतु:सहस्राणि भुक्तानि स्वल्पपाकत: ।जीवा अगणिता भुक्ता मायातर्क्येयमीशितु: ॥२७॥भास्करोयं प्रियो भक्तो यत्प्रसादोस्य नान्यके ।त्रिमासं सर्वदा तेन पादसंवाहनादिभि: ॥२८॥श्रद्धाभक्त्यैव भगवान्सेवितस्तत्फलं त्विदं ।इत्युक्त्वान्ये नरा: प्रेम्णा तुष्टुव: श्रीगुरुं परं ॥२९॥दत्वा प्रभुर्भास्करमीप्सितं वरं प्रस्थापयामास गृहाय स द्विज: ।ईशप्रसादात्सकलार्थयुग्ययौ सायुज्यमंते दृढभक्तियोगत: ॥३०॥शृण्वन्यदप्यद्भुतमीशचेष्टितं गंगाव्हया तत्र तु षष्टिवत्सरा ।साध्वी वशानर्च परेशमन्वहं भक्त्यैकदोचे स तु तां किमिच्छसि ॥३१॥॥ गंगोवाच ॥लोकोsपुत्रस्य न स्व:स्था लुप्तपिण्डोदकक्रिया: ।पितरोध: पतंतीति श्रुत्वा स्वामिन्बिभेम्यहं ॥३२॥भवेग्रे मे सुपुत्राप्त्या गतिर्भूयादितीच्छया ।सर्वेश तेर्चनं कुर्वे पाहि मां करुणानिधे ॥३३॥॥ श्रीगुरुरुवाच ॥कमावर्तेन मायाब्धौ क्क भ्रमिष्यसि वेत्सि किं ।क्केयं तत्र स्मृतिस्तेत्र पुत्रौ गंगे भविष्यत: ॥३४॥तच्छ्रुत्वा पल्लवे ग्रंथिं बध्वोचे पुत्रवत्यहो ।निष्कला जातिवन्ध्यापि भवेयं त्वत्प्रसादत: ॥३५॥व्रततीर्थार्चने यातं वयो मे पुत्रकामया ।विशेषात्सेवितोश्वत्थो मौर्ख्याद्दास्यति किं स मे ॥३६॥॥ श्रीगुरुरुवाच ॥ब्रह्मनारदसंवादं शृण्वात्थ यदसत्तु तत् ।नारदाश्वत्थमूलेहं मध्येजोग्रे शिव: पुन: ॥३७॥अवाक्प्रत्यगुदक्शाखास्त्रयाणां प्राक्समा: सुरा: ।तीर्थाब्धयश्चांकुरेषु गोयज्ञर्षिश्रुतिद्विजा: ॥३८॥ओंकारोंध्र्यंतशीर्षस्थ्ग इत्यश्वत्थोस्त्यसंस्कृत: ।नार्च्य: संस्कृत्य मौंज्युक्तकालेस्मिन्सत्क्षणेर्चयेत् ॥३९॥नार्कारशुक्रनिट्सन्ध्याकुयुक्पर्वादिषु स्पृशेत् ।वर्णित्वमौनसत्त्वाढ्यो भजेन्नामुं वधूरपि ॥४०॥तत्तले गोविशा लिप्ते रंजिते स्वस्ति वाचयेत् ।संस्नाप्य सप्तकलशै: पूजयेत्स्वाधिकारत: ॥४१॥ध्यात्वाष्टबाहुं श्रीविष्णुरूपमावेष्ट्य वाससा ।नाममन्त्रैर्मंदगत्या शक्त्या कार्या: प्रदक्षिणा: ॥४२॥नमेत्प्रदक्षिणायास्तु भक्त्याद्यंतसमाप्तिषु ।पदे पदे मेधफलं दैन्यर्णार्त्यघतापहृत् ॥४३॥ग्रहार्तिघ्नं सौरिवारे तन्नामोच्चारणं तरो ।सदेशेपैति नु: कालमृत्यू रौद्रमनोर्जपात् ॥४४॥तत्रातिफलदा ब्रह्मभुज्याप्लुतिजपाध्वरा: ।पुत्रादिकामसिध्द्यै नो विलंबोक्षय्यपुण्यदात् ॥४५॥येनेह स्थापितोश्वत्थस्तेन स्व: स्थापितं कुलं ।येन च्छिन्नोपि वंश: स्वस्तेन च्छिन्नो न संशय: ॥४६॥प्रदक्षिणादशांशेन हवनं तद्दशांशत: ।कृत्वा ब्रह्मभुजिं दद्याद्धैमाश्वत्थार्थगोतिलान् ॥४७॥सद्ब्रह्मभ्यो लभेदिष्टमित्यूचे नारदं विधि: ।तस्मात्तं विधिना साध्वि भज द्राक्सिद्धिदोस्ति स: ॥४८॥त्वं भीमामरजायोगे स्नात्वा षट्कूल उत्तमं ।संगमस्थं भजाश्वत्थं सत्यं पुत्रौ भविष्यत: ॥४९॥तथा कुर्वेपि षष्टयब्दा मत्वोक्तिं तव वेदवत् ।इत्युक्त्वा सेश्वराश्वत्थं पत्या भेजे यथाविधि ॥५०॥चतुर्थेन्ह्याह तत्स्वप्ने कृत्वाश्वत्थप्रदक्षिणा: ।यद्दास्यति गुरुर्भुंक्ष्व भवेत्पुत्र इति द्विज: ॥५१॥साप्युत्थाय तत: स्नात्वा सङ्गमं प्राप्य सद्गुरुं ।भक्त्या प्रदक्षिणीकृत्य साश्वत्थं प्रणनाम ह ॥५२॥दत्वा फले स तां प्राह दान देहि समाप्य सत् ।व्रतं प्रदक्षिणारूपं फले भुंक्ष्वेष्टकामदे ॥५३॥प्राग्युगेनेकपुत्रा: स्युरौरसो दत्तकस्त्विह ।औरसस्तूत्तमोस्यास्य दर्शनं पितृमुक्तिदं ॥५४॥तत्साध्वीहौरसौ पुत्रौ तारकु ते भविष्यत: ।मदर्चनफलं त्वेतन्न संदेहोत्र शोभने ॥५५॥तथेत्युक्त्वापि सा गेहं गत्वा चक्रे यथोदितं ।निष्कलाप्यृतुमत्यासीन्नि:सीममहिमा प्रभो: ॥५६॥ शुद्धयूर्ध्वं सह पत्यैत्य सा प्रपूज्य गुरुं मुदा ।गृहं गत्वा दधौ गर्भं तन्निशीशप्रसादत: ॥५७॥स्वतंत्रसंविद्भगवान्लीलां को वेत्ति यत्स्तुतौ ।द्विसहस्ररसज्ञोपि कुण्ठिश्चकिता श्रुति: ॥५८॥वलीपलितवेपर्यैद्देहो विद्धो जराकृश: ।साधत्त गर्भमित्यन्ये प्रशशंसु: परस्परं ॥५९॥तद्भर्ता सोमनाथस्तु प्रीत्या पुंसवनादिका: ।क्रिया व्यधात्क्रमात्पुत्रीं कालेसौषीत्तत: सती ॥६०॥तदेयं कन्यका साध्वी सच्छीलगुणशालिनी ।भविष्यति कुलोद्धर्त्री पुत्राढ्येत्याह दैववित् ॥६१॥तच्छ्रुत्वा स द्विजेभ्योदादर्थवस्त्रादिकं द्विज: ।प्रापतुर्द्वादशेह्नीशं कन्यां संस्थाप्योचे प्रणम्य सा ।संसृतिस्थजरद्वंध्यद्रुमस्ते फलितो दृशा ॥६३॥सेव्यते फलितोपि द्रु: पांथैश्चेत्सफलो वरं ।वन्ध्योपि मोघफलत इति भातीश वेत्सि तत् ॥६४॥तच्छ्रुत्वा सस्मितं कन्यामादायेशो जगाद तौ ।शीलधीगुणपुत्राढ्या भवेत्साध्व्यखिलार्चिता ॥६५॥कन्या लब्धोत्तमेयं वां पुत्रेच्छा चेद्भवेत्सुत: ।मूर्ख: शतायुर्वाल्पायुर्विद्वान्वां कतर: प्रिय: ॥६६॥सार्भो विद्वान् प्रियोल्पायुरपीत्युचतुरप्युभौ ।तथेत्युक्त्वा स सापत्यौ गमयामास तौ प्रभु: ॥६७॥गर्भं साप्यल्पकालेन धृत्वासूत सुतं शुभं ।श्रद्धया निष्कलाप्येवं पुत्रौ लेभेथ किं वद ॥६८॥विद्याविनयवान् भृत्वा पितृशुश्रूषणोद्यत: ।धार्मिक: पंच पुत्रांस्तत्पुत्रो लब्ध्वाम्रुतं ययौ ॥६९॥कन्यापीशप्रसादात्सा दीक्षितस्य सती शुभा ।भूत्वा गुरूक्तवद्ब्रह्मवादिनी प्राप सद्गतिं ॥७०॥एवं गुरुप्रभावोयं श्रद्धादृष्टयैव दृश्यते ।सद्भक्तैर्न त्वभक्तै: स जन्मांधैरिव भास्कर: ॥७१॥दण्डकुण्डीकरं शान्तं काषायाच्छादनं सदा ।ध्यायंतौ यतिरूपं तं दम्पती मुक्तिमापतु: ॥७२॥श्रद्धाभक्त्यैव सुलभा गुरुवाक्यानुवर्तिनां ।उभयी सिद्धिरप्यन्यच्चित्रं तच्चेष्टितं श्रृणु ॥७३॥तत्रैत्य नरहर्याख्यो विप्र: कुष्ठी जगद्गुरुं ।प्रणत: शरणं प्राप्य प्रावोचद्गद्गदाक्षर: ॥७४॥हरे शम्भो परानंदमूर्ते जय जयाच्युत ।भक्तवत्सल ते कीर्ति श्रुत्वात्राप्तोस्मि सद्गुरो ॥७५॥यजुर्विदोपि मे तुण्डं केपि नेक्षंति कुष्ठिन: ।तीर्थार्चनजपै: कुष्ठं तन्मे नापैत्यघात्मन: ॥७६॥कृपया तेपयायात्तदिति मत्वागतोस्म्यहं ।नास्ति चेत्तत्प्रतीकार: शंसाग्रेसूंस्त्यजामि ते ॥७७॥तच्छ्रुत्वा प्राक्तनाघोत्थ कुष्ठं नश्येदिति प्रभु: ।प्रोक्त्वा शुष्कौदुम्बरैधो दृष्ट्वावोचत्स कुष्ठिनं ॥७८॥मद्वाक्ये भक्तिमांश्चेत्तत्काष्ठमारोप्य संगमे ।भज पल्लविते तस्मिन्छुद्धोकुष्ठो भविष्यसि ॥७९॥ॐमित्युक्त्वा तदारोप्य श्रद्धाभक्त्या स संगमे ।भेजे दत्वाधारबन्धं परितोंबुनिषेचनै: ॥८०॥कृपास्य सद्यस्तव शुध्द्यभावादुक्तं फलं कष्टमिदं कुतोस्मिन् शङ्कांकुरस्यात इदं त्यजेति जनैर्निषिद्धोप्यभजत्सदेध्मं ॥८१॥तदैत्य ते गुरुं प्राहर्भवद्वाक्याद्द्विजो जरत् ।भजतीध्मं बोधय तं मरिष्यत्युपवासत: ॥८२॥॥ श्रीगुरुरुवाच ॥करोति साधु तद्विप्रो दृढभक्त्या तरिष्यति ।भक्तिर्हि तारकात्रैव भवसिन्धुनिमज्जत: ॥८३॥मंत्रे तीर्थे द्विजे देवे दैवज्ञे भि ( भे ) षजे गुरौ ।यादृशी भावना यस्य तस्य सिद्धिस्तु तादृशी ॥८४॥वच्मि सूतर्षिसंवादं प्राग्वृत्तं दृढभक्तिदं ।ऋषीन्सूतो जगादेदं सिंहकेतुनृपात्मज: ॥८५॥धनंजयाख्य: पांचाल एकदा वनमभ्यगात् ।दृष्ट्वा स मृगयाश्रांतस्तत्र जीर्णं शिवालयं ॥८६॥तस्थौ तत्र क्षणं साकं शबरेणानुयायिना ।दृष्ट्वा लिंगानि रम्याणि दूत: प्राह नृपं गृहे ॥८७॥लिङ्गं नीत्वा पूजयितुं कांक्षेज्ञोस्म्यनुशाधि मां ।यदाज्ञापयसे देव दृढभक्त्या करोमि तत् ॥८८॥॥ राजपुत्र उवाच ॥संस्थाप्य सत्स्थले लिङ्गं शुचिर्भूत्वा स्त्रियान्वित: ।भक्त्या पूजय मत्वेशमुपचारैर्यथाविधि ॥८९॥चिताभस्मान्वहं देयं दत्तान्नं भुंक्ष्व भार्यया ।प्रसादबुध्द्येत्युक्त्वा स पूजाविधिमुपादिशत् ॥९०॥सोपि तुष्टो गृहीत्वैकं लिङ्गं गत्वा गृहं स्त्रिया ।भेजे यथोपदेशं तद्भस्मादात्प्रत्यहं मुदा ॥९१॥भस्मैकस्मिन्दिने क्कापि न लेभेभूत्स दुर्मना: ।तद्भार्या प्राह मां दग्ध्वा शम्भवेsर्पय भस्म तत् ॥९२॥शरीरं कृमिविड्भस्मरूपांतं क्षणभंगुरं ।तत्साफल्यं कुरु हरे भस्मार्पणनिमित्तत: ॥९३॥॥ शबर उवाच ॥तिष्ठत्स्विनक्ष्माग्निषु साक्षिषु प्रिये भर्तृत्वमाश्रुत्य वृतास्यदोन्यथा ।कुर्यां कथं तन्वि किशोरि बालिके भो साध्व्यलब्धैहिकसौख्य उत्तमे ॥९४॥सा प्राह मोहे वितथोयमध्रुवे येन ध्रुवं साहजिकं प्रसाध्यते ।तत्साधयास्मिन्परकीयकल्पना नास्त्येव तेर्धांगविभाग्यदो वपु: ॥९५॥प्रोक्ते सुयुक्ते प्रियया तथेत्यसौ प्रोक्त्वा गृहे तामवरुध्द्य सालयां । दग्ध्वार्पयद्भस्म शिवाय नित्यवभ्द्रांत्या प्रसादक्षण आह्वयत्प्रियां ॥९६॥दग्धापि साह्वानत आप पूर्ववत्तां सद्म चालोक्य स शंकितोब्रवीत् । दग्धापि गेहेन सहागता कथं सुप्तोत्थितास्मीति शबरुवाच तम् ॥९७॥शम्भुप्रभावोस्त्विति तेन भाषिते द्राक्प्रादुरासीन्निजरूपधृक् शिव: । दौष्कुल्यदोषं परिहृत्य दर्शनात्ताभ्यां शिवोदादुभयत्र कांक्षितं ॥९८॥भक्ते: प्रभावोयमियान्न किंचित्फलत्यृते भक्तिमतोस्य सिध्द्येत् । भक्त्येष्टमित्याह स तान्कदाचिद्गच्छन्प्रभु: स्नातुममुं ददर्श ॥९९॥तं तादृशं प्रेक्ष्य कमण्डलुस्थक्षीरेण तत्प्रोक्ष्य स शुष्ककाष्ठं ।ददर्श सद्दिव्यदृशा तदेध्मे सद्योंकुरा भूरिश आविरासन् ॥१००॥दिव्यं स्वधामांकुरितं च काष्ठमदृष्टकुष्ठोग्रत आस्थितं तम् ।दृष्ट्वा स काष्ठार्पितदृष्टिमीशं तुष्टाव सत्प्रेमभरानतांग: ॥१०१॥कोट्यर्कभं कोटिसुचंद्रशांतं विश्वाश्रय्म देवगणार्चितांघ्रिं ।भक्तप्रियं त्वात्रिसुतं वरेण्यं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०२॥मायातमोर्कं विगुणं गुणाढ्यं श्रीवल्लभं स्वीकृतभिक्षुवेषम् ।सद्भक्तसेव्यं वरदं वरिष्ठं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०३॥कामादिषण्मत्तगजांकुशं त्वामानंदकंदं परतत्त्वरूपम् ।सद्धर्मगुप्त्यै विधृतावतारं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०४॥सूर्येंदुगुं सज्जनकामधेनुं मृषोद्यपंचात्मकविश्वमस्मात् ।उदेति यस्मिन्रमतेस्तमेति वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०५॥रक्ताब्जपत्रायतकांतनेत्रं सद्दंडकुंडीपरिहापिताघम् ।श्रितस्मितज्योत्स्नमुखेंदुशोभं वंदे नृसिंहेश्वर पाहि माम त्वम् ॥१०६॥नित्यं त्रयीम्रुग्यपदाब्जधूलिं निनादसद्बिंदुकलास्वरूपम् ।त्रितापतप्ताश्रितकल्पवृक्षं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०७॥दैन्याधिभीकष्टदवाग्निमीड्यं योगाष्टकज्ञानसमर्पणोत्कम् ।कृष्णानदीपंचसरिद्युतिस्थं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०८॥अनादिमध्यांतमनंतशक्तिमतर्क्यभावं परमात्मसंज्ञम् ।व्यतीतवाघृत्पथमद्वितीयं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०९॥स्तोत्रे क्क ते मेस्त्युरुगाय शक्तिश्चतुर्मुखो वै विमुखोत्र जात: ।स्तुवन्द्विजिव्होभवदीश्वर त्वां सहस्रवक्रश्चकितोपि वेद: ॥११०॥स्तुत्वैवं प्रणतीश्वक्रे तमाश्वास्याब्रवीद्विभु: ।मत्परसादान्महत्वश्रीकीर्तिसत्पुत्रवान् भव ॥१११॥शिष्योत्तम त्वं योगज्ञो भविष्यसि कुलं च ते ।त्वद्वद्भविष्यत्यानीय वधूं तिष्ठ ध्रुवं त्विह ॥११२॥तथेत्युक्त्वा द्विजो भार्यामानीय स तया सह ।तत्र तस्थौ ततो लेभे पुत्रान्पुत्रीं स सत्तमान् ॥११३॥विद्यासरस्वतीमंत्रं गुरुदत्तं जपन्वरम् ।भेजे गुरुं भवासक्तो जीवन्मुक्तोभवद्द्विज: ॥११४॥तत्कुलं चापि तत्तुल्यं तद्भक्तिमहिमा त्वियान् ।त्वत्पूर्वजोपि तत्तुल्यस्तस्मात्ते मतिरीदृशी ॥११५॥सद्गुरोस्तु प्रसादोयं भविष्यत्यपि ते कुले ।वर्धमान: सदैवेति संविन्मे ब्राह्मण ध्रुवा ॥११६॥इति श्रीगुरुचरिते भक्तियोगे भक्तिमहिमवर्णनं नाम प्रथमोध्याय: आदित एकोनविंशोsध्याय: ॥१९॥ N/A References : N/A Last Updated : December 16, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP