संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगुरुचरित्रम्| अथ सप्तमोsध्याय: श्रीगुरुचरित्रम् श्रीगुरुस्तुति: अथ प्रथमोsध्याय: अथ द्वितीयोsध्याय: अथ तृतीयोsध्याय: अथ चतुर्थोsध्याय: अथ पंचमोsध्याय: अथ षष्ठोsध्याय: अथ सप्तमोsध्याय: अथ अष्टमोsध्याय: अथ नवमोsध्याय: अथ दशमोsध्याय: अथैकादशोsध्याय: अथ द्वादशोsध्याय: अथ त्रयोदशोsध्याय: अथ चतुर्दशोsध्याय: अथ पंचदशोsध्याय: अथ षोडशोsध्याय: अथ सप्तदशोsध्याय: अथ अष्टादशोsध्याय: अथैकोनविंशोsध्याय: अथ विंशोsध्याय: अथैकविंशोsध्याय: अथ द्वाविंशोsध्याय: अथ त्रयोविंशोsध्याय: अथ योगरहस्यम् अथ बोधरहस्यम् अथ सप्तमोsध्याय: स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे. Tags : bharathi krishnateerthgurucharitraगुरूचरित्रभारती कृष्णतीर्थसंस्कृत अथ सप्तमोsध्याय: Translation - भाषांतर ॥ नामधारक उवाच ॥साधूनुद्धर्तुकामोथ कुतो लीलाविहार्यभूत् ।अदृश्यो भगवांस्तत्तु श्रोतुमिच्छामि सादरं ॥१॥॥ सिद्ध उवाच ॥अतींद्रियोपि दृश्योत्र भूत्वा लीलात्मना पुन: ।अवतारप्रसंगेन जातोsदृश्य इदं श्रृणु ॥२॥तत्राभूच्छांदस: कश्चिदंबिका नाम तद्वधू: ।कुपुत्रं सुषुवे दैवात्स्तब्धं हीनमतिं जडं ॥३॥वर्णधर्मोपनीतं तं सावित्र्युचारणाक्षमं ।ताडयंतं निवार्याह स्वपति वैदिकं वधू: ॥४॥भो जदोर्भोश्मवद्योनेरेवालं खेदहेतुना ।ताडनेन त्यजाम्यस्मिंस्ताडितेसून्सुधीरिति ॥५॥सोप्यजाकंठकुचवत्तं मत्वाश्रुत्य तद्वच: ।तूष्णीं तस्थौ ततो विप्र: कालेनाल्पीयसा मृत: ॥६॥तंत्र पुत्रान्विता माता जीवनं याच्ञयाकरोत् ।काले याते कियत्येवं निंदां चक्रुर्द्विजोत्तमा: ॥७॥सूर्यंर्च्यजैषा वृत्तिस्ते गर्ह्यास्माकं न रोचते ।इतो व्रज त्यजासून्वा तैरित्युक्तो नदीं ययौ ॥८॥कृष्णाविष्टं समं मात्रा मर्तुकामं विलोक्य तौ ।निषिध्योचेनुकंपार्द्र: श्रीपादस्तीरवास्यसौ ॥९॥साहसं मा कुरु ब्रह्मन्नात्महत्या हि दुर्वहा ।भवे भवेप्यतोत्रैव संप्राप्तसहनं वरम् ॥१०॥॥ ब्राह्मण्युवाच ॥प्राज्ञोद्भूतकुपुत्रत्वहेतुनैवाखिला हि मां ।धिक्कुर्वंत्यपि नेक्षंति तत्किं कार्यमत: परं ॥११॥॥ श्रीपाद उवाच ॥हत्यया लिप्यसेग्रेतो दु:खं निस्तीर्य दैविकं ।शिवतोषात्सुपुत्रस्ते भविष्यति भवांतरे ॥१२॥॥ ब्राह्मण्युवाच ॥त्वयोक्तं साध्वहं कुर्यां तथैव तु कथं भवेत् ।शिवतोष: पुरा केन कृत: श्रावय विस्तरात् ॥१३॥॥ श्रीपाद उवाच ॥उज्जयिन्यां पुरा चंद्रसेनराजसखोलभत् ।मणिभद्र: शिवाच्छैवश्चिंतामणिमभीष्टदं ॥१४॥तं ज्ञात्वार्घदिनाsलभ्यं युद्धायाभ्यागतान्नृपान् ।श्रुत्वाप्येकाग्रचित्तोsसौ प्रदोषेपूजयच्छिवं ॥१५॥मंदानंगप्रदोषे तं मणिं भूपं तथाविधं ।दृष्ट्वा गोपसुतास्तद्वत्स्वांगणे चक्रुरर्चनं ॥१६॥गोप्यो निर्वाय पत्राद्यैर्लिंगकल्पनयोपलं ।भजतो निन्युरत्तुं तांस्तस्थौ तत्रैकबालक: ॥१७॥प्रसद्याप्युद्भृतोर्चां स मात्रोद्वास्यापतद्भुवि ।शंभुपूजाभंगभिया निर्विण्णो मर्तुमुद्यत: ॥१८॥तद्भावं विश्वसाक्षीशो ज्ञात्वाविष्कृत्य शोभनम् ।स्वं रूपं बालमाश्वास्य वरं वृण्विति तं जगौ ॥१९॥बालोपि दिव्यरूपं तं नत्वोचे भुवनेश्वर ।मात्रोत्सृष्टात्र ते पूजा तन्मंतुं क्षंतुमर्हसि ॥२०॥॥ शिव उवाच ॥भक्त्या सायुज्यभाङ् मेसि कृतं मात्रा त्वबोधत: ।नायं मंतु: सापि भूयाद्विष्णुमातार्चनेक्षणात् ॥२१॥इत्युक्त्वांतर्दधे सोभूद्भास्वल्लिंगं य आगता: ।त ऊचु: पुण्यश्लोकार्थं दोषाप्यर्कोत्र तिष्ठिति ॥२२॥धन्येन सह योद्धव्यं नास्माभिरिति ते नृपा: ।निश्चित्य स्निग्धभावेन तौ द्रष्टुं सर्व आययु: ॥२३॥पूजां कृत्वापि राट् द्योतहेतुं निश्चित्य तै: सह ।नृपैर्गोपांगणं गत्वा प्राप लिंगेक्षणान्मुदं ॥२४॥श्रुत्वा गोपमुखात्सर्वं तुष्टास्तस्मै नृपा: श्रियं ।दत्वा गोपाधिपत्यं च स्वं स्वं स्थानं ययुर्मुदा ॥२५॥सा तु प्रेत्य यशोदाख्या गोपी भूत्वा हरिं सुतं ।प्रापेशतोषात्तस्मात्ते तथा भूयाच्छिवार्चनात् ॥२६॥॥ ब्राह्मण्युवाच ॥कष्टाद्दैवाच्छिवे तुष्टे फलं भाव्यधुनामुना ।कष्टेनायु: कथं लंघ्यं मातृत्वेनाव मामत: ॥२७॥इत्यशाठ्यं सकारुण्यं श्रुत्वा प्रीतो दयार्द्रधी: ।ओमित्युक्त्वा दधौ पाणि दुष्प्रापं मूर्खमूर्धनि ॥२८॥सहसा गीष्पतिसमो बभूव श्रुतिशास्त्रवित् ।मातृभक्तौ विनीतं तं नियुज्याहांब मे श्रृणु ॥२९॥विस्मृत्याकमनेनेशपूजयायु:क्षयं कुरु ।पुत्रो भाविभवे मादृक्ते भविष्यति वा इति ॥३०॥साप्यत्यर्थं प्रहृष्टा तदाज्ञया सह सूनुना ।ग्रामं गत्वेशमानर्च विद्वन्मान्यसुतान्विता ॥३१॥मादृङ् नान्यो भवेयं चेन्नास्या: पुत्रो मृषा वच: ।अतोवतीर्य तत्कुर्यामित्यमंस्ताज ईश्वर: ॥३२॥कृतावतारसंकल्प: कार्यानंत्यान्नं सोत्यजत् ।लीलांगं तत्र भजतामदृश्योप्यस्ति कामद: ॥३३॥॥ नामधारक उवाच ॥संकल्पवान्कथं कार्येsपूर्णेप्यन्योभवत्कथं ।स्थित्वाद्यधाम्नादृश्योपि भजतां कामद: कथं ॥३४॥॥ सिद्ध उवाच ॥कार्यानंत्याद्विश्वबीजे संकल्पानंत्यमव्यये ।नृणां कलिमलांधानां स प्रत्यक्षोप्यदृश्यवत् ॥३५॥प्राग्वृत्तं श्रृण्वदृष्टेस्मिन्द्विज: कश्चित्कुटुंब्यभूत् ।धीमांद्यात्स वणिग्वृत्ति: श्रीपादांघ्र्यार्पितांतर: ॥३६॥व्यापारे मेधिलाभश्चेद्भूयात्तदनुसारत: ।कुर्यां कुरुपुरे विप्रभोजनं श्रीशतुष्टये ॥३७॥इत्युक्त्वाsगात्स्मरन्छ्रीशं व्यापारार्थं ततो धनं ।लेभे भूरि तदादाय ययौ संकल्पसिद्धये ॥३८॥मार्ग एकाकिनं यांतं तं सार्थं प्रेक्ष्य तस्करा: ।सुहृत्तया तदनुगा भूत्वा तं विजनेहनन् ॥३९॥तदैव सहसा तत्र श्रीपाद: शूलपात्रधृक् ।प्राप्य ताञ्छितधारेण त्रिशूलेन जघान स: ॥४०॥एकस्तमेत्य शरणं प्रोचे चोरधिया तु नो ।संगीभूतोस्मि मां ज्ञात्वा यथेष्टं कुरु भो प्रभो ॥४१॥श्रीपादोपि सकारुण्यां श्रुत्वोक्तिं विमलांतरं ।ज्ञात्वा तं योजयामास तद्रक्षायै कृपार्द्रधी: ॥४२॥कबंधे तच्छिर: कृत्वा भस्माक्तं जलमंत्रितम् ।सजीवं तं द्विजं कृत्वा क्षणादन्तर्दधे स तु ॥४३॥स सुप्तोत्थितवद्बुत्ध्वा दृष्ट्वा चोरगोचर: ।सर्वदाराधितो दैवान्नायं मे दृष्टिगोचर: ॥४५॥इत्युक्त्वा धनमादाय गत्वा कुरुपुरं द्विज: ।चतु:सहस्रसद्विप्रभोजनं श्रद्धया व्यधात् ॥४६॥तत: श्रीशप्रसादात्स सिद्धिं प्रापोभयीं द्विज: ।इत्याद्या भूरिशो वृत्ता: सत्यदृश्येपि तत्कथा: ॥४७॥प्रत्यक्षस्तु सतां तत्र कच्चराणां त्वगोचर: ।सोप्यन्यत्रावतीर्यात्र स्वरूपेणेष्टकामद: ॥४८॥वेदयज्ञतपोदानप्रदिष्टफलतोधिकं ।श्रीपादाधिष्थितस्थानवासिनां द्राक्फलं लभेत् ॥४९॥यत्र कुत्रापि ये केचिच्छ्रीपादांध्रिसरोरुहे ।संस्मरंत्यपि तेभ्य: स कामानिष्टान्ददात्यलं ॥५०॥इ० श्रीपादमहिमवर्णनं नाम सप्तमोध्याय: ॥७॥ N/A References : N/A Last Updated : December 16, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP