संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्|अष्टमाष्टक| षष्ठोsध्याय: अष्टमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: अष्टमाष्टक - षष्ठोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती गुरुतल्पोपपातकशुद्धिकथनं नामाष्टमाष्टके षष्ठोsध्याय: Translation - भाषांतर हरि: ॐ ॥ उभावपि कृताघेन लिप्येते दंपती तत: ॥कार्याsप्यन्यतराघस्य ताभ्यां संशुद्धिरुत्तमा ॥१॥अज्ञानाज्जननीं गत्वा सपत्नीं वोज्झितेन्द्रिय: ॥स्वयमेव स्वमुष्कं स छित्त्वा पापमुदाहरन् ॥२॥पाण्योर्गृहीत्वा संतप्तो यातुधानदिशं व्रजेत् ॥गच्छन्तं तं महापापं नैव कोsपि निवारयेत् ॥३॥आदेहपातं गच्छन्स मृत: पापाद्विशुध्यति ॥तदशक्तावश्ममूर्घ्नि देहत्यागो भृगोर्भृशम् ॥४॥स्ववर्णोत्तमवर्णस्त्रीगमने ब्रह्महव्रतम् ॥मत्याsभ्यासेन यो गच्छेत्स्ववर्णामुत्तमामपि ॥५॥करीषवह्निदग्धाङ्ग: शुद्धिं याति न चान्यथा ॥रेत:सेकात्पूर्वमेव निवृत्तौ ब्रह्महव्रतम् ॥६॥ब्रह्महत्याव्रतं क्षत्रे वैश्ये त्वत्र षडब्दकम् ॥शूद्रे मातृगमे त्र्यब्दं देहान्तो ब्राह्मणीगमे ॥७॥प्रजावतीं स्नुषां पुत्रीं भगिनीं च सखिस्त्रीयम् ॥शिष्यपत्नीं च संगत्य षडब्दं व्रतमाचरेत् ॥८॥मातु: पितु: स्वसारं चाचार्यमातुलयोषितम् ॥गत्वाsधिकं चरेदन्यस्त्रियं गत्वाब्दमाचरेत् ॥९॥सकृद्गत्वाsब्दमभ्यासे द्विगुणं च चतुर्गुणम् ॥अत्यन्ताभ्यास इत्येवं सुधी: सर्वत्र योजयेत् ॥१०॥प्रजामुत्पाद्य शूद्रायां ब्राह्मण्याद्धीयते द्विज: ॥चाण्डालीगस्य विप्रस्य शोधितस्याप्यसंग्रह: ॥११॥तपस्विनीं च विधवां तथा शीलवतीमपि ॥गत्वा चरेद्द्वादशाब्दं विशेषाच्च रजस्वलाम् ॥१२॥ऋतुं विनापि गमने स्वपत्न्यां वर्णितालय: ॥निषिद्धाहे हठाद्वापि पुनर्मामित्यृचौ जपेत् ॥१३॥व्रतं द्वित्रिगुणं वर्णिवनिनो: सर्वथा यते: ॥मातृगामिव्रतं प्रोक्तं कृच्छ्रास्तु स्मरणादिषु ॥१४॥स्मरणं कीर्तनं केलि: प्रेक्षणं गुह्यभाषणम् ॥उत्साहोsध्यवसायश्च क्रियानिष्पत्तिरित्यद: ॥१५॥अष्टाङ्गमैथुनं प्रोक्तमेकमप्यत्र पातयेत् ॥तत्प्रयत्नादिदं वर्ज्यं विधनाव्रतिभिक्षुभि: ॥१६॥द्रष्टुर्मन्तुस्तथाssज्ञप्तुस्तुर्यभागमघं स्मृतम् ॥स्वस्त्रीभ्रमात्पारदार्ये द्वयोरप्यर्धमीरितम् ॥१७॥पुंसो यत्परदारेषु स्त्रीणामपि तथा व्रतम् ॥प्रेतान्नात्ता च संस्कार्य: कृच्छ्राद्दुर्भोजिनस्तथा ॥१८॥यस्य येन भवेत्सङ्गो ब्रह्महादिचंतुर्ष्वपि ॥तत्तद्व्रतं विधायैव शुद्धिमाप्नोति नान्यथा ॥१९॥अज्ञानात्पञ्चरात्रं तु तत्सङ्गे कायकृच्छ्रक: ॥अनुष्ठेयो द्वादशाहसङ्गे सांतपनं महत् ॥२०॥पराको माससंसर्गे त्रिमासे तत्त्रयं तथा ॥चान्द्रत्रयं च वर्षार्धे षण्मासं न्यूनवत्सरे ॥२१॥अब्दे पापिसमं ज्ञाने द्विगुणं व्रतमिष्यते ॥मण्डूकं नकुलं काकं वराहं मषकं शुकम् ॥२२॥अजमोतुमवि श्वानं हत्वैणं कुक्कुटं कपिम् ॥विप्रोsज्ञानाच्चरेदर्धकृच्छ्रं त्रीनश्वहा तथा ॥२३॥तप्तक्रुच्छ्रं करिवधे पराकं गोवधेन हि ॥कामतो गोवधे शुद्धिर्गुरूणां च तथैव च ॥२४॥टिट्टिभं चक्रवाकं च हंसं कारण्डवं तथा ॥उलूकं सारसं श्येन कपोतं वनजानपि ॥२५॥मयूरं चाषं बलाकं शिशुमारं च कच्छपम् ॥अन्यांश्च जलजान्हत्वा द्वादशाहव्रतं चरेत् ॥२६॥शयनासनयानेषु हृतेष्वज्ञानतो द्विज: ॥भक्ष्यभोज्योपहारेषु पञ्चगव्यं विशोधनम ॥२७॥शुष्कैधस्तृणवृक्षेषु चर्मवल्कगुणेषु च ॥हृतेष्वन्येषु चाज्ञानात्तादृशेषु त्र्यहं व्रतम् ॥२८॥प्राजापत्यव्रतं प्रोक्तं रेतोविण्मूत्रभोजने ॥शूद्रोच्छिष्टाशनेsज्ञानात्प्रोक्तं चान्द्रायणत्रयम् ॥२९॥चण्डालं पतितं मद्यपं महापापिनं द्विज: ॥रजस्वलां सूतिकां च रजकं यवनादिकम् ॥३०॥स्पृष्ट्वा सचैलं स्नात्वैव गव्यं पीत्वा शुचिर्भवेत् ॥गायत्रीं च विशुद्धात्मा जपेदष्टशतं तत: ॥३१॥एषामन्यतमं स्पृष्ट्वा ज्ञानाद्भोजनमाचरेत् ॥द्विरात्रोपोषित: शुध्येत्पञ्चगव्याशनाद्द्विज: ॥३२॥स्नाने दाने जपे चैषां ध्वनि श्रुत्वाsध्वरे द्विज: ॥गायत्र्यष्टसहस्रं तु जपित्वा शुद्धिमाप्नुयात् ॥३३॥व्रतादौ भोजने चैषां ध्वनिं श्रुत्वा तदैव तु ॥मुखात्तमन्नं संत्यज्य स्नात्वा चोपोषित: शुचि: ॥३४॥नित्यभुक्तौ तु भुक्तं चेद्गायत्र्यष्टशतं जपेत् ॥कलहश्वघरट्टादिशब्दे ज्ञाते तथैव च ॥३५॥भुक्तौ परस्परस्पर्शे तथा पड्क्तिस्थ उत्थिते ॥गुरुं विनोद्गमेद्धीमानज्ञानी वा व्रतं चरेतु ॥३६॥पापानामधिकं पापं विप्रसद्देवनिन्दितम् ॥प्रयत्नान्निष्कृतिस्तेषां प्रायशो वाप्यधोगति: ॥३७॥यस्तु रागादिनिर्मुक्त: पश्चात्तापेन संयुत: ॥प्रायश्चित्तं चरन्विष्णुपर: शीघ्रं स मुच्यते ॥३८॥संस्मृत: पूजितो ध्यातो भक्त्या वा नमितो हरि: ॥निर्दहत्येव पापानि तूलराशिं यथानल: ॥३९॥नैवं यो निष्कृतिं कुर्यात्पापी धर्मपराड्मुख: ॥लब्ध्वाsकीर्तिमिह प्रेत्य पच्यते नरके चिरम् ॥४०॥ततो योन्यन्तरं याति भुक्तदु:खोsप्यघांशत: ॥प्रायशो वासनाभूम्ना भूतप्रेतपिशाचताम् ॥४१॥हुंत्वंकाराद्गुरोर्विप्राभिभवादब्रह्मराक्षस: ॥गर्दभो हीनसेवी स्यात्कुक्कुटोsतिथिहापक: ॥४२॥उष्ट्रोsर्थहृद्वनचर: फलपत्रादिहृद्भवेत् ॥मधु दंश: पलं गृध्रोsन्नमाखुश्चातको जलम् ॥४३॥गन्धाच्छुच्छुन्दरी धान्यं शलभोsलिर्विषं तथा ॥कृमि: कीट: पतङ्ग: स्यात्स्वर्णं हृत्वा तृणं पशु: ॥४४॥काको निर्मन्त्रभुग्गृध्रो मित्रध्रुग्दाम्भिको बक: ॥इत्याद्या बहुशो योनीर्भुक्त्वा रुग्णा भवन्त्यथ ॥४५॥हृद्रोगी परहृद्भेत्ता गुरुत्यागी महामयी ॥क्षयी तु ब्रह्महा कुष्ठी स्वर्णहृत्पुस्तकापहा ॥४६॥जन्मान्धो विश्वासघाती वमी गण्डी गणार्थहृत् ॥अपुत्रोsन्यार्थहृद्वस्त्रहृच्छ्वित्री चानृती कुवाक् ॥४७॥गुल्म्यन्नहृत्कुरुङ्मांसभोक्ता क्कास्यस्तु तैलहृत् ॥देवार्थहृत्पाण्डुरोगी रोगा: सर्वेsत्र पापत: ॥४८॥स्त्रीपुंसो: पारदार्याच्छ्वकृमियोनि: पुन: पुन: ॥तदघं परिहर्तव्यं जातं चेन्निष्कृतिं चरेत् ॥४९॥कामक्रोधादिकं त्यक्त्वा स्वधर्मं सर्वदा चरन् ॥ईशभक्तो विशुद्धात्मा सद्गतिं याति नेतर: ॥५०॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे अष्टमाष्टके षष्ठोsध्याय: ॥६॥॥ गुरुतल्पोपपातकशुद्धिकथनं नामाष्टमाष्टके षष्ठोsध्याय: ॥८।६॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP