संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्|अष्टमाष्टक| पञ्चमोsध्याय: अष्टमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: अष्टमाष्टक - पञ्चमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती पापहेतुतन्निवृत्तिप्रायश्चित्तकृच्छ्रादिलक्षणकथनं नामाष्टमाष्टके पञ्चमोsध्याय: Translation - भाषांतर हरि: ॐ ॥ हयेष्टयाद्या अपि कृता: पापिनो नोर्ध्वमार्गदा: ॥प्रायश्चित्तं श्रृणु ततो दत्तोक्तं स्वर्गतिप्रदम् ॥१॥योsहंभावं समापन्नो बुद्धिर्यस्य च लिप्यते ॥निषिद्धाचरणात्सोsत्र पतेच्छुद्धो न चेदघात् ॥२॥रसो येन जितो नैव हृपीकं यद्वशे न च ॥स कर्मणाप्यनुपदं प्रत्यवायी न संशय: ॥३॥अहंकारमतस्त्यक्त्वा भजेदीशं स्वकर्मभि: ॥असक्त: सोsमृतं याति प्रायश्चित्त्यस्तकल्मष: ॥४॥प्रमादलुप्तकर्मा तु प्रायश्चित्त्या शुचिर्विना ॥अनुतप्तं प्रयत्नादि दु:सङ्गापहृतक्रिय: ॥५॥कामक्रुल्लोभहीनैस्तु धर्मशास्त्रविशारदै: ॥विप्रै: स्वधर्म: प्रष्टव्य: सद्धर्मफललिप्सुभि: ॥६॥ब्रह्महा मद्यप: स्वर्णस्तेयी च गुरुतल्पग: ॥महापातकिनस्त्वेते तत्संसर्गी च तत्सम: ॥७॥सकृत्तदन्नभुक्त्याब्दमेकत्र शयनादिना ॥संसर्ग एषां पातित्यं ददातीति सुनिश्चितम् ॥८॥अज्ञानाद्ब्राह्मणं हत्वा चीरवासा जटी वनी ॥वन्याहारो भवेन्नित्यमेकाहारो मिताशन: ॥९॥सम्यक्संध्यामुपासीत त्रिकालस्नानतत्पर: ॥अध्यापनादिकं सर्वं त्यक्त्वा भक्त्या हरिं भजेत् ॥१०॥यतेन्द्रियो ब्रह्मचारी गन्धमाल्यादिवर्जित: ॥तीर्थसेवी भवेद्वापि पुण्यारण्याश्रमाश्रय: ॥११॥यदि वन्यैर्न जीवेत ग्रामे भिक्षां चरेन्मिताम् ॥शरावपात्रधृक् चैककाले भोजनमाचरेत् ॥१२॥एवं कृत्वा द्वादशाब्दं नित्यं हरिपरायण: ॥ब्रह्महा शुद्धिमाप्नोति कर्मार्हश्च ततो भवेत् ॥१३॥गोनिमित्तं द्विजार्थं वा व्रतमध्ये मृतोsगदै: ॥हिंस्रैर्हतो वा शुद्ध: स्यात्स्वेच्छापूर्वं मृतो न च ॥१४॥शुद्धो वायुतगोदानै: कोटिगायत्रिकाजपै: ॥एषामन्यतमं कृत्वा ब्रह्महा शुद्धिमाप्नुयात् ॥१५॥दीक्षितं क्षत्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥दीक्षितं ब्राह्मणं हत्वा द्विगुणं व्रतमाचरेत् ॥१६॥अशक्तोsग्निं विशेद्वाद्रे: पातन्मृत्युमवाप्नुयात् ॥आचार्यादिवधे चैव व्रतं प्रोक्तं चतुर्गुणम् ॥१७॥द्विजमात्रो हतो येन त्रिंशत्कृच्छ्रै: स शुध्यति ॥एष विप्रस्य गदित: प्रायश्चित्तविधि: पित: ॥१८॥प्रोक्तं द्वित्रिगुणं क्षत्रविशो: शूद्रस्य चाधिकम् ॥सप्रायश्चित्तदेहान्तशिक्षा शूद्रस्य शुद्धिदा ॥१९॥राज्ञैव शिक्षा कर्तव्या शूद्रस्येति विनिश्चितम् ॥ब्रह्मपुत्रवधे त्वर्धं ब्रह्महव्रतमेव च ॥२०॥कन्यकागर्भहन्तॄणां व्रतं पादतदर्धकम् ॥यज्वपन्त्या ब्राह्मणवद् ब्राह्मण्या अष्टवत्सरम् ॥२१॥हत्वा क्षत्रियविप्रं तु पडाब्दं व्रतमाचरेत् ॥संवत्सरत्रयं वैश्यं शूद्रं हत्वा तु वत्सरम् ॥२२॥हत्वा च दीक्षितं शूद्रमष्टवर्षव्रतं चरेत् ॥त्र्यहं दिवा त्र्यहं सायं त्र्यहमद्यादयाचितम् ॥२३॥नाद्यात्त्र्यहं कायकृच्छ्रोsयुतगायत्रिकाजपात् ॥सहस्रहवनाद्वापि द्वादशद्विजभोजनात् ॥२४॥गोदानाच्छक्तितोsर्धाद्वा प्राजापत्य: प्रसिध्यति ॥त्रिंशताब्दव्रतं कृच्छ्रै: शक्त्या कार्या शुचिर्धिया ॥२५॥प्रायश्चित्तविधानज्ञैस्तारतम्याच्च कोविदै: ॥बालवृद्धातुरस्त्रीणां प्रायश्चित्तं प्रकल्पयेत् ॥२६॥गौडी पैष्टी च माध्वी च न पेयास्त्रिविधा: सुरा: ॥त्रिभिर्वर्णैश्च तत्स्त्रीभि: शूद्रैश्चापि हितेप्सुभि: ॥२७॥पयो गोमूत्रमाज्यं वा प्रतप्तं मद्यप: पिबेत् ॥तप्तेन ताम्रपात्रेण लोहपात्रेण वा तथा ॥२८॥नारायणापरो भूत्वा पिबेद्यावन्मृतिं व्रजेत् ॥मद्यप: शुद्धिमाप्नोति नान्यथेति विनिश्चितम् ॥२९॥चरेद्विप्रो ब्रह्महत्याव्रतमज्ञानत: पिबन् ॥चान्द्रद्वयं ससंस्कारं रोगशान्त्यै निषेविणाम् ॥३०॥सुरासंस्पृष्टमन्नादि सुराभाण्डोदकादि च ॥सुरापानसमं ज्ञेयं कर्पूरस्य च भक्षणम् ॥३१॥एकादशप्रकारेषु मद्येष्वेकतमं पिबन् ॥उत्कशुद्धिमकुर्वाण: पतितस्तं न भाषयेत् ॥३२॥परोक्षं वाsपरोक्षं वा बलात्कारेण वापि च ॥परस्वानामुपादानं स्तेयमित्युच्यते बुधै: ॥३३॥गवाक्षगतसूर्यांशुदृश्यं तत्त्रसरेणुकम् ॥ऋक्षस्तदष्टकं प्रोक्तं तत्त्रयं राजसर्षप: ॥३४॥ते पञ्च सर्षप: प्रोक्तस्तत्षट्कं यव उच्यते ॥यवत्रयं कृष्णल: स्यान्माषस्तत्पञ्चकं स्मृत: ॥३५॥ते षोडशाक्ष: कर्षश्च चत्वारस्ते पलं तथा ॥यवमात्रे हृतेsज्ञानाद्ब्रह्मस्वेsब्दव्रतं स्मृतम् ॥३६॥माषाधिकं हृतं चेत्तु ज्ञानतो ब्रह्महव्रतम् ॥गुरूणां यज्ञकर्तॄणां ब्रह्मिष्ठानां मनस्विनाम् ॥३७॥श्रोत्रियाणां द्विजातीनां हृतं हेम कथंचन ॥प्रायश्चित्तं तु संकल्प्य नारायणमनुस्मरन् ॥३८॥करीषाच्छादितो दग्ध: स्तेयपापाद्विमुच्यते ॥ब्रह्मस्वं क्षत्रियो हृत्वा सोsश्वमेधेन शुध्यति ॥३९॥आत्मतुल्यं सुवर्णं विड् दद्याद्वा गोव्रतं चरेत् ॥आदौ हृत्वा तत: कोsपि पश्चात्तापमुपैति चेत् ॥४०॥एकं सांतपनं कृत्वा द्वादशाहेन शुघ्यति ॥वज्ररत्नमनुष्यस्त्रीधेनुभूम्यादिषु स्मृतम् ॥४१॥स्वर्णस्तेयोदितं प्रायश्चित्तमेव विशोधनम् ॥प्राणायामद्वयं हेम्नि त्रसरेणुसमे हृते ॥४२॥त्र्यसुयामा ऋक्षमात्रे चत्वार: सर्षपोपमे ॥गायत्र्यष्टसहस्रेण शुद्धिर्गोसर्षपोपमे ॥४३॥प्रातरारभ्य चासायं जपाच्छुद्धिर्यवोपमे ॥माषमात्रे सांतपनमत ऊर्ध्वं पुरोदितम् ॥४४॥गोमूत्रपक्कयवभुक् वाब्देनैकेन शुध्यति ॥सुवर्णं न्यूनमानेन रजतस्तेयकर्मणि ॥४५॥दशनिष्कान्तपर्यन्तमूर्ध्वं निष्कचतुष्टयम् ॥हृतं चेद्रजतं कुर्याद्द्विजश्चान्द्रायणं परम् ॥४६॥द्विगुणं शतनिष्कान्ते सहस्रान्ते चतुर्गुणम् ॥अत ऊर्ध्वं ब्रह्महत्याव्रतं न्यूनं तु ताम्रके ॥४७॥कांस्यापित्तलमुख्येषु चायस्कान्तादिषूदिता ॥निष्कमात्रेषु कृच्छ्रेण शुद्धिरूर्ध्वं तथाधिका ॥४८॥रौप्यवत्स्वल्परत्नेषु धान्यवस्त्रतृणादिषु ॥फलमूलौषधाद्येषु शुद्धि: कृच्छ्रेण गद्यते ॥४९॥रसेsन्ने पुस्तके चापि शुद्धिर्योज्या विशेषत: ॥अकृत्वा निष्कृतिं याति ना सर्वत्रात्र दुर्गतिम् ॥५०॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां त्रिकाण्डमण्डितायां श्रीवासुदेव्यां कर्मकाण्डे अष्टमाष्टके पञ्चमोsध्याय: ॥५॥॥ पापहेतुतन्निवृत्तिप्रायश्चित्तकृच्छ्रादिलक्षणकथनं नामाष्टमाष्टके पञ्च० ॥८।५॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP