संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| सप्तमाष्टक| षष्ठोsध्याय: सप्तमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: सप्तमाष्टक - षष्ठोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती विकुण्डलेन प्रसादितैर्विष्णुदूतैस्तद्भ्रातृमोक्षोपायकथनं नाम सप्तमाष्टके षष्ठोsध्याय: Translation - भाषांतर हरि: ॐ ॥ अयं सर्वोत्तमो धर्मो वर्णाश्रमपर: सदा ॥सेवानीय: प्रयत्नेन तद्विष्णो: स्मरणं परम् ॥१॥स्मरणं वासुदेवस्य सर्वाघौघनिदानहृत् ॥हृत्स्थैर्यदं ज्ञानकरं वासनाजालनाशनम् ॥२॥कृताघघ्नानि सर्वाणि प्रायश्चित्तमुखानि तु ॥विष्णो: स्मृत्याsनया भाविपापेच्छाविर्भवोsपि नो ॥३॥तपस्तप्तं व्रतं चीर्णं दानं दत्तं क्रिया कृता ॥कृतं सर्वं च तेनैव श्रीहरिर्येन संस्मृत: ॥४॥पूज्यो विष्णुर्यथा भक्त्या तद्भक्ता अपि तादृशा: ॥अतो विष्णो: प्रियतरा सेव्या भक्ताश्च विष्णुवत् ॥५॥भूत्वाsपि वैष्णवो मूढो यो निन्दति स दुर्मति: ॥शैवादीन्स तु नाप्नोति सद्गतिं तस्य दुर्गति: ॥६॥तस्मात्सर्वप्रयत्नेन निन्दासूयादिवर्जित: ॥कामपीशकलां भक्त्या पूजयेत्स विमुक्तिभाक् ॥७॥शृणु सर्वोत्तमं धर्मं निरयादिनिवारणम् ॥सर्वाभयार्पणं सत्त्वशोधनं गोनिरोधनम् ॥८॥अद्रोह: सर्वभूतानां मनोवाक्कयकर्मभि: ॥स्ववर्णाश्रमधर्मोक्तचरणं पापवारणम् ॥९॥सत्यमेव प्रवक्तव्यं न चौर्यं यस्य कस्यचित् ॥शक्त्या पात्रे प्रदातव्यं संत्याज्या विषयस्पृहा ॥१०॥अयमेव परो धर्म इदमेव परं तप: ॥इयमेव परा पूजा विष्णोर्विश्वात्मनो हरे: ॥११॥आचारप्रभवो धर्मो विभुस्तत्प्रभुरच्युत: ॥तुष्टेsस्मिन्नुभयर्द्धीशे भक्तानां दुर्लभं किमु ॥१२॥सत्संगत्याsपि ते वैश्य माघस्नानेन तोषित: ॥श्रीविष्णुस्तत्प्रसादात्त्वं शुद्धो वैकुण्ठभागसि ॥१३॥धर्म: पृष्टस्त्वयाsस्माभि: प्रोक्त एवं सनातन: ॥आबाल्यं ये चरन्त्येनं नैषां स्वप्नेsपि दुर्गति: ॥१४॥श्रुत्वा विकुण्डल: प्राह तद्वचोsमृतसंनिभम् ॥स्वभ्रातुर्दुर्गतिं चित्त आनीयाह सुदीनवाक् ॥१५॥हृत्प्रसादकरं सौम्या: श्रुतं वो मङ्गलं वच: ॥गङ्गेव पापहृत्सद्य: सतां संगतिरुत्तमा ॥१६॥वक्तुं प्रियं चोपकर्तुं सतां स्वाभाविको गुण: ॥शीतलीक्रियतेsर्को यैस्तापतप्तस्य का कथा ॥१७॥देवदूता यथा भ्राता निरयादुद्गतिं व्रजेत् ॥तथोद्योगोsद्य कार्यो यदुदारा: साधवो बुधा: ॥१८॥कर्तैव केवलं भुङ्क्ते कृतं सर्वं शुभाशुभम् ॥एवं चेन्निष्फलो भाव्यो दैवाप्त: सदनुग्रह: ॥१९॥इति तस्य वच: श्रुत्वा क्षणं ध्यात्वाsवदन्भटा: ॥तद्भ्रातृमुक्त्युपायं ते तन्मैत्रीकृतबन्धना: ॥२०॥पुरा मधुवने सौम्य शाकल्याखोsवसन्मुनि: ॥तपोध्ययनसंपन्नास्तस्य पुत्रा नवाभवन् ॥२१॥तत्र तेजस्विन: पञ्च बभुवुर्गृहमेधिन: ॥परिव्राजोsस्पृहा: शिष्टा नि:सङ्गा निष्परिग्रहा: ॥२२॥वातशीतादिसहना जिताहारा जितेन्द्रिया: ॥अक्रिया नष्टसंदेहा दृढज्ञाना महाव्रता: ॥२३॥पश्यन्तो विष्णुरूपेण विश्वं मौनं समाश्रिता: ॥विस्मृत्य भौतिकं रूपं परमानन्दनिर्वृता: ॥२४॥येन केनचिदाच्छन्ना भोजिता येन केनचित् ॥स्वापिता येन केनापि न ते वारब्धभोगिन: ॥२५॥एवं ते दैवयोगेन मत्स्यदेशे त्वदाश्रमे ॥आगता वैश्वदेवान्ते वेदा रूपधरा इव ॥२६॥अष्टमे जन्मनि त्वं तु पूर्वमासीर्द्विजोत्तम: ॥कुटुम्बवान् शीलवृत्तश्रुतयुक्तो महाव्रत: ॥२७॥तान्दृष्ट्वाभ्यागतान्सिद्धान्प्रत्युद्गत्वा प्रणम्य च ॥सगद्गदं साश्रुनेत्रं सहर्षं प्रार्थ्य सद्गिरा ॥२८॥त्वयाभिनन्दितास्ते तु त्वद्गृहे समवस्थिता: ॥संपूजिता भोजिस्तास्ते ध्यायन्तोsस्थु: परं मुदा ॥२९॥पादावनेजनं तीर्थं तेषां पीतं त्वया धृतम् ॥शीर्ष्णाते तेन सर्वाघं नष्टं तत्स्तवनादपि ॥३०॥तेषामातिथ्यजं पुण्यं जातं वाचोsप्यगोचरम् ॥भूतानां प्राणिन: श्रेष्ठास्तेभ्यो विध्युपजीविन: ॥३१॥ततोsपि मानवा: श्रेष्ठा: श्रेष्ठास्तेभ्योsपि च द्विजा: ॥श्रेष्ठास्तेम्योsपि विद्वांसस्तेभ्योsपि कृतबुद्धय: ॥३२॥श्रेष्ठास्ततोsपि कर्तारस्ततोsपि ब्रह्मवित्तमा: ॥अत: परं परं भूतं न भूतं न भविष्यति ॥३३॥अत: सत्संगति: श्रेष्ठा तारिणी पापहारिणी ॥इति ते संचितं पुण्यं वर्णितं पूर्वजन्मजम् ॥३४॥केनचिद्दैवयोगेन भ्रष्टस्यापि तत: पुन: ॥जन्मन्यत्रैव सत्सङ्गात्पूर्वपुण्यप्रभावत: ॥३५॥माघस्नानं द्विवारं ते जातमेकेन पातकम् ॥प्रणष्टमपरेणातो विष्णुलोक: सनातन: ॥३६॥ब्रह्मिष्ठातिथ्यजं पुण्यं भ्रात्रेsर्पय तत: स तु ॥भूत्वा विपापो वैकुण्ठं यास्यत्यद्यं त्वया सह ॥३७॥इत्युक्त: स ददौ तेन स पापोsपि समुद्धृत: ॥अथोर्ध्वं जग्मतुरुभौ नृपैवं पुण्यमुत्तमम् ॥३८॥तस्मादध्रुवदेहेन प्राप्नुवन्ति ध्रुवं नरा: ॥इदमेव सदा कार्यमन्यथाधोगतिर्नृणाम् ॥३९॥मकरस्थेsरुणेsघघ्न्य आप: शुद्धा मयोभुव: ॥रमणीयं महो द्रष्टुं यासां शिवतमो रस: ॥४०॥ईशानावार्यपापानां चर्षणीनां क्षयन्त्य उत् ॥भेषजं ददते शंभुर्यास्वग्निर्भेषजानि च ॥४१॥प्रवहन्तीदमापोsमूर्यत्किंचिद्दुरितं नरे ॥शापद्रोहानृताद्युत्थं माघमासे विशेषत: ॥४२॥यासूर्जं वरुण: सोमो विश्वेदेवा मदन्ति च ॥वैश्वानरो यास्वाविष्टस्ता: सत्यो न पुनन्ति किम् ॥४३॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे सप्तमाष्टके षष्ठोsध्याय: ॥६॥॥ विकुण्डलेन प्रसादितैर्विष्णुदूतैस्तद्भ्रातृमोक्षोपायकथनं नाम सप्तमा० षष्ठो० ॥७।६॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP