संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| सप्तमाष्टक| चतुर्थोsध्याय: सप्तमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: सप्तमाष्टक - चतुर्थोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती देवदूतैर्वैश्यायान्नवस्त्रादिदानविधिकथनं नाम सप्तमाष्टके चतुर्थोsध्याय: Translation - भाषांतर हरि: ॐ ॥ असर्जीदं जगद्येन गुणकर्मविभागश: ॥तं स्वधर्मेण योsभ्यर्चेत्सोsधिगच्छति तत्पदम् ॥१॥स्वधर्माचरणादत्र प्रीणाति परमेश्वरम् ॥ यथाज्ञापालनाद्राज्ञा तथेश: शास्त्रसत्कृते: ॥२॥ द्विजदेवातीथीन्ये च प्रीणयन्त्यन्वहं मुदा ॥पाशानिहैव ते छित्त्वा ब्रह्मलोके वसन्ति हि ॥३॥मूर्खो वा पण्डितो वापि श्रोत्रिय: पतितोsपि वा ॥मध्याह्ने य: समायातो ब्रह्मतुल्योsतिथिर्हि स: ॥४॥पथि श्रान्ताय विप्राय क्षुधिताय क्रुशाय ये ॥अन्नपानादि यच्छन्ति ते वसंति चिरं दिवि ॥५॥मार्गे श्रान्ता: क्षुधाविष्टा भोक्तुकामा: समागता: ॥तांस्तर्पयन्ति ये भूम्यां ब्रह्मलोके वसन्ति हि ॥६॥न याति विमुखो यस्मादतिथिस्तद्गृहं गृहम् ॥अतिथिर्विमुखो यस्मात्तद्गृहं वनमुच्यते ॥७॥नैवातिथिअमो बन्धुर्न धर्मो न हितो धनम् ॥अतिथीनां प्रभावेन मुनित्वं देवतापि च ॥८॥पक्कान्नं भिक्षवे यज्ञात्प्रग्दद्यादपि तत्फलम् ॥तस्मिन्पराड्मुखे यज्ञो नैवास्यादानदोषहृत् ॥९॥तस्मै भक्त्यार्पितं ग्रासमात्रमप्यन्नमद्रिवत् ॥तस्मात्सर्वप्रयत्नेन यतयेsन्नं प्रदीयताम् ॥१०॥भारतं वर्षमश्रित्य दत्त्वान्नादीन्यकामत: ॥विष्णुमभ्यर्च्य मेधावी जीवन्मुच्येदसंशयम् ॥११॥नान्नदानसमं पुण्यं नोपकारश्च तादृश: ॥अन्ने प्रतिष्ठिता: प्राणा ह्यन्नद: प्राणदो मत: ॥१२॥योsतिथिभ्यो ददात्यन्नमन्नकामेभ्य उत्तम: ॥स्वर्गे सौख्यं चिरं भुक्त्वा भूयोsप्यत्र धनी भवेत् ॥१३॥पुरा यमोsवदत्स्वर्गाच्च्यवन्तं केसरिध्वजम् ॥देह्यन्नं तत आत्मानं पुनरप्युद्धरिष्यसि ॥१४॥इति श्रुतं यमवचस्ततोsन्नं तारकं परम् ॥अन्नदानसमं दानं न भूतं न भविष्यति ॥१५॥ग्रीष्मे सुशीतलं तोयं हेमन्ते काष्ठमंशुकम् ॥दद्याद्वर्षासु पापेषु क्षुद्रेषु च महत्स्वपि ॥वारंवारं चरेद्विद्वान्प्रायश्चित्तं यथाविधि ॥१७॥निष्कल्मषो नरो भूत्वा ज्ञानी मुच्येदिहैव तु ॥प्रायश्चित्तमकृत्वेह नरो नरकमश्नुते ॥१८॥वाङ्मन:कायसंभूतं पापं यो नाशयेदिह ॥अतोsज्ञोsपि समाप्नोति ब्रह्मलोकं महासुखम् ॥१९॥कृत्वापि बहुपापानि योsनुतप्तो जपेद्द्विज: ॥गायत्रीं वेदमन्त्रान्वा सोsत्र पापैर्वियुज्यते ॥२०॥नित्यकर्मरतो यस्तु वेदाभ्यासरतो वशी ॥न ज्ञानोत्थेन पापेन लिप्यते स न संशय: ॥२१॥महाव्रतो यमी यस्तु नित्यं तीर्थोपसेवक: ॥पितृदेवाचार्यसेवी दुर्गं स्वप्नेपि नेक्षते ॥२२॥यो यस्यान्नं समश्नाति स तस्याश्नाति दुष्कृतम् ॥ज्ञात्वैवं दुर्गतिभिया परान्नस्य रुचिं त्यजेत् ॥२३॥आपदि प्रतिगृह्णीयाद्दानं नैव च भोजनम् ॥पुण्यहानिकरी भुक्तिस्तथैवान्यवधूरति: ॥२४॥नित्यस्नानेन पूयन्ते पापात्मानोपि जन्तव: ॥बाह्याभ्यन्तरपापघ्नं प्रात:स्नानं सुसिद्धिदम् ॥२५॥अस्नातादशुचेर्यान्ति विमुखा: पितृदेवता: ॥विना स्नानेन यो भुंक्ते मलाशीति स कथ्यते ॥२६॥स्नानहीनो नर: पापी नरकं याति दारुणं ॥तस्माद्य: स्नाति गङ्गादौ कुयोनिं स न गच्छति ॥२७॥दु:स्वप्ननाशनं पुण्यं प्रात:स्नानं विशोधनम् ॥स्नानं विनेह शक्तस्य नाधिकारोsन्यकर्मसु ॥२८॥संध्योपासनयज्ञादीन् भक्त्या यो विधिवच्चरेत् ॥सङ्गं त्यक्त्वा फलं चापि न स पश्यति दुर्गतिम् ॥२९॥बह्वल्पं वेह यल्लब्धं तत्तु प्राग्जन्मदानत: ॥इति ज्ञात्वा यथाशक्ति धर्मार्थं दीयतां धनम् ॥३०॥गोभूतिलहिरण्याज्यवासोधान्यगुडादि य: ॥ददाति सात्त्विको नैव नारकी तस्य यातना ॥३१॥सुक्षेत्रे पर्वणि शुभे यो ददाति जुहोति च ॥भक्त्या जपति तं याम्या न स्पृशन्ति भटा: खलु ॥३२॥प्रियव्रत: सत्यवादी मौनी दानदयापर: ॥शान्तो दान्तस्तितिक्षुश्च शुद्धो दाक्षिण्य संयुत: ॥३३॥निर्मत्सरो निष्कपटो ब्रह्मचर्येण संयुत: ॥परस्य स्वं तृणं वापि मनसापि न य: स्पृशेत् ॥३४॥स नेच्छन्नपि मुच्येत बन्धादज्ञानसंभवात् ॥इच्छन्नपि न मुच्येत कृतघ्नो यो हि दुर्मति: ॥३५॥न तीर्थैर्न तपोभिश्च कृतघ्नस्यास्ति निष्कृति: ॥स याति यातनां घोरामवकीर्णी तथैव च ॥३६॥क्रूरारुंतुददुर्वाणीवक्ता स नरकागत: ॥धर्मत्यागी च दुष्टोsपि पुनर्यास्यति दुर्गतिम् ॥३७॥तस्मात्सौम्यो नरो भूत्वा निजधर्मं समाचरेत् ॥सत्सङ्गनिरतो नित्यं तीर्थवासपरो भवेत् ॥३८॥न तीर्थे पातकं कुर्यात्त्याज्यस्तीर्थे प्रतिग्रह: ॥दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रह: ॥३९॥व्रतं दानं तपो यज्ञ: पवित्राण्यपराणि च ॥गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम् ॥४०॥धर्मद्रवो ह्यपां बीजं श्रीविष्णुचरणच्युतम् ॥शंकरेण धृतं मूर्ध्ना गङ्गाम्भ: पावयेन्न किम् ॥४१॥ गङ्गेत्त्युच्चारणान्मुक्ति: किं पुन: स्नातपानत: ॥स्नातव्यं तत्प्रयत्नेन सुधीभिर्गाङ्गवारिणि ॥४२॥असमर्थोsपीह दातुमादातुं यो न सज्जते ॥महाव्रतधर: प्रेत्य भास्वत्तारात्वमेति स: ॥४३॥सदा योगरत: पश्येन्मातृवत्परकामिनीम् ॥परद्रव्यं च विषवत्सोsचिरान्मुच्यते भयात् ॥४४॥स्त्रीणां तु भर्तृसेवैव तारणं शीलपालनम् ॥श्रेष्ठसेवेह शूद्राणां तारका नातिमानिनाम् ॥४५॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां त्रिकाण्डमण्डितायां श्रीवासुदेव्यां कर्मकाण्डे सप्तमाष्टके चतुर्थोsध्याय: ॥४॥॥ इति देवदूतैर्वैश्यायान्नवस्रादिदानविधिकथनं नाम सप्तमा० चतु० ॥७।४॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP