मराठी मुख्य सूची|मराठी साहित्य|अनुवादीत साहित्य|शिवसंहिता|प्रथम पटल| लयप्रकरण ३ प्रथम पटल लयप्रकरण १ लयप्रकरण २ लयप्रकरण ३ लयप्रकरण ४ लयप्रकरण ५ प्रथम पटल - लयप्रकरण ३ महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaमराठीशिवसंहिता लयप्रकरण ३ Translation - भाषांतर यथा रज्जूरगभ्रांतिर्भवेद्भेदवशाज्जगत् ॥४१॥तथा जगदिदं भ्रांतिरध्यासकल्पनाजगत् ।आत्मज्ञानाद्यथा नास्ति रज्जुज्ञानाद्भुजंगम: ॥४२॥यथा दोषवशाच्छुक्ल: पीतो भवती नान्यथा ।अज्ञानदोषादित्मपि जगद्भवति दुस्त्यजम् ॥४३॥दोषनाशे यथा शुक्लो गृह्यते रोगिणा स्वयम् ।शुक्लज्ञानात्तथाज्ञाननाशादात्मा तथा कृत: ॥४४॥कालत्रयेsपि न यथा रज्जु: सर्पो भवेदिति ।तथात्मा न भवेद्भिश्वं गुणातीतो निरंजन: ॥४५॥आगमाsयिनोsनित्या नाश्यत्वे नेश्वरादय: ।आत्मबोधेन केनापि शास्त्रादेतद् विनिश्चितम् ॥४६॥यथा वातवशात्सिन्धावुत्पन्ना: फ़ेनबुद्बुदा: ।तथात्मनि समुद्भूतं ससारं क्षणभंगुरम् ॥४७॥अभेदो भासते नित्यं वस्तुभेदो न भासते ।द्विधात्रिधादिभेदोsयं भ्रमत्वे पर्यवस्यति ॥४८॥यद्भूतं यच्च भाव्यं वै मूर्तामूर्त तथैव च ।सर्वमेव जगदिदं विवृतं परमात्मनि ॥४९॥कल्पकै: कल्पिता विद्या मिथ्या जाता मृषात्मिका ।एतन्मूलं जगदिदं कथं सत्यं भविष्यति ॥५०॥चैतन्यात् सर्वमुत्पन्नं जगदेतत् चराचरम् ।तस्मात् सर्व परित्यज्य चैतन्यं तु समाश्रयेत् ॥५१॥घटस्याभन्तरे बाह्ये यथाकाशं प्रवर्तते ।तथात्माभ्यन्तरे बाह्ये ब्रह्माण्डस्य प्रवर्तते ॥५२॥सततं सर्वभूतेषु यथाकाशं प्रवर्तते ।तथात्माभ्यंतरे बाह्ये ब्रह्मांडस्य प्रवर्तते ॥५३॥वर्तते सर्वभूतेषु यथाकाशं समन्तत: ।तथात्माभ्यन्तरे बाह्ये कार्यवर्गेषु नित्यश: ॥५४॥असंलग्नं यथाकाशं मिथ्याभूतेषु पंचसु ।असंलग्नस्तथात्मा तु कार्यवर्गेषु नान्यथा ॥५५॥ईश्वरादिजगत्सर्वमात्मव्याप्तं समत्नत: ।एकोsस्ति सच्चिदानन्द: पूर्णो द्वैतविवर्जित: ॥५६॥यस्मात्प्रकाशको नास्ति स्वप्रकाशो भवेत्तत: ।स्वप्रकाशो यतस्तस्मादात्मा ज्योति: स्वरूपक: ॥५७॥अविच्छिन्मो यतो नास्ति देशकालस्वरुपत: ।आत्मन: सर्वथा तस्मादात्मा पूर्णो भवेत्खलु ॥५८॥यस्मान्न विद्यते नाश: पंचभूतैर्वृथात्मकै: ।तस्मादात्मा भवेन्नित्यस्तन्नाशो न भवेत्खलु ॥५९॥यस्मात्तदन्यो नास्तीह तस्मादिकोsस्ति सर्वदा ।यस्मात्तदन्यो मिथ्या स्यादात्मा सत्यो भवेत् खलु ॥६०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP