संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|द्वितीय पटल| तत्त्वज्ञानोपदेश १ द्वितीय पटल तत्त्वज्ञानोपदेश १ तत्त्वज्ञानोपदेश २ द्वितीय पटल - तत्त्वज्ञानोपदेश १ महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत तत्त्वज्ञानोपदेश १ Translation - भाषांतर देहेsस्मिन् वर्तते मेरु: सत्पद्वीपसमन्वित: ।सरित: सागरा: शैला: क्षेत्राणि क्षेत्रपालक: ॥१॥ऋषयो मनुय: सर्वे नक्षत्राणि ग्रहास्तथा ।पुण्यतीर्थानि पीठानि वर्तन्ते पीठदेवता: ॥२॥सृष्टिसंहारकर्तारौ भ्रमन्तौ शशिभास्करौ ।नभोवायुश्च वहिनश्च जलं पृथ्वी तथैव च ॥३॥त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहत: ।मेरुं संवेष्ट्य सर्वत्र व्यवहार: प्रवर्तते ।जानाति य: सर्वमिदं स योगी नात्र संशय: ॥४॥ब्रह्माण्डसंज्ञके देहे यथादेशं व्यवस्थित: ।मेरुश्रृंगे सुधारश्मिर्बहिरष्टकलायुत: ॥५॥वर्ततेsहर्निशं सोsपि सुधां वर्षत्पधोमुख: ।ततोsमृतं द्विधाभूतं याति सूक्ष्मं यथा च वै ॥६॥इडामार्गेण पुष्ट्यर्थ याति मन्दाकिनीजलम् ।पुष्णाति सकलं देहमिडामार्गेण निश्चितम् ॥७॥एष पीयूषरश्मिर्हि वामपार्श्वे व्यवस्थित: ॥८॥अपर: शुद्धदुग्धामो हठात्कर्षति मण्डलात् ।रन्ध्रमार्गेण सृष्ट्यर्थ मेरौ संयाति चन्द्रमा: ॥९॥मेरुमूले स्थित: सूर्य: कलाद्वादशसंयुत: ।दक्षिणे पथि रश्मिभिर्वहत्यूर्ध्व प्रजापति: ॥१०॥पीयूषरश्मिनिर्यासं धातूंश्च ग्रसति ध्रुवम् ।समीरमण्डले सूर्यो भ्रमते सर्वविग्रहे ॥११॥एषा सूर्यपरामूर्तिर्निर्वाणं दक्षिणेपथि ।वहते लग्नयोगेन सृष्टिसंहारकारक: ॥१२॥सार्धलक्षत्रयं नाड्य: सन्ति देहान्तरे नृणाम् ।प्रधानभूता नाड्यस्तु तासु मुख्याश्चतुर्दश ॥१३॥सुषुम्णेडा पिंगला च गान्धारी हस्तिजिह्वका ।कुहू सरस्वती पूषा शंखिनी च पयस्विनी ॥१४॥वारुणालम्बुषा चैव विश्वोदरी यशस्विनी ।एतासु तिस्रो मुख्या: स्यु: पिंगलेडा सुषुम्णिका ॥१५॥तिसृष्वेका सुषुम्णैव मुख्या सा योगिवल्लभा ।अन्यास्तदाश्रयं कृत्वा नाडय: सन्ति हि देहिनाम् ॥१६॥नाड्यस्तु ता अधोवदना: पद्मतन्तुनिभा: स्थिता: ।पृष्ठवंशं समाश्रित्य सोमसूर्याग्निरूपिणी ॥१७॥तासां मध्ये गता नाडी चित्रा सा मम वल्लभा ।ब्रह्मरन्ध्रं च तत्रैव सूक्ष्मात् सूक्ष्मतरं शुभम् ॥१८॥पञ्चवर्णोज्ज्वला शुद्धा सुषुम्णा मध्यरूपिणी ।देहस्थोपाधिरूपा सा सुषुम्णा मध्यरूपिणी ॥१९॥दिव्यमार्गमिदं प्रोक्तममृतानन्दकारकम् ।ध्यानमात्रेण योगीन्द्रो दुरितौघं विनाशयेत् ॥२०॥गुदात्तु द्वयङ्गुलादूर्ध्व मेढ्रात्तु द्वयङ्गुलादध: ।चतुरङ्गुलविस्तारमाधारं वर्तते समम् ॥२१॥तस्मिन्नाधारपद्मे च कर्णिकायां सुशोभना ।त्रिकोणा वर्त्तते योनि: सर्वतंत्रेषु गोपिता ॥२२॥तत्र विद्युल्लताकारा कुण्डली परदेवता ।सार्द्धत्रिकारा कुटिला सुषुम्णामार्गसंस्थिता ॥२३॥जगत्संसृष्टिरूपा सा निर्माणे सततोद्यता ।वाचामवाच्या वाग्देवी सदा देवैनमस्कृता ॥२४॥इडानाम्नी तु या नाडी वाममार्गे व्यवस्थिता ।सुषुम्णायां समाश्लिष्य दक्षनासापुटे गता ॥२५॥पिंगला नाम या नाडी दक्षमार्गे व्यवस्थिता ।सुषुम्णा या समाश्लिष्य वामनासापुटे गता ॥२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP