अक्षेप अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


‘ तपोनिधे कौशिक रामचंद्रं निनीषसे चेन्नय किं विकल्पै: । निरन्तरालोकनपुण्यधन्या भवन्तु वन्या अपि जीवभाज: ॥ ’
अत्र पुत्रस्नेहाकुलस्य दशरथस्य वाक्ये नयेति विधिर्बाधितो मा नयेति निषेधे पर्यवसितोऽन्यथा तु मम प्राणवियोगो भविष्यतीत्यर्थं व्यनक्तीति विध्याभासरूपोऽयमाक्षेप: । एवमुदाहरणेषु स्थितेषु प्राचीन-मतानुसारीण्याक्षेपोदाहरणान्येतेषां मते‍ऽनुदाहरणान्येव । इत्थं च प्राथमिकमतसिद्ध आक्षेप: प्रतीपप्रभदे: । द्वितीयमतसिद्धस्तु विहित-निषेध एव । न पुनराक्षेप: । तत्र निषेधस्यानाभासरूपत्वात्‍-इति तदाशय: । इतरे तु-
“-‘ निषेधमात्रमाक्षेप: । ’
चमत्कारित्वं चालंकारसामान्यलक्षणप्राप्तमेव । तच्च व्यड्रयार्थे सति संभवतिति सव्यड्रयो निषेध: सर्वोऽप्याक्षेपालंकार: । एवं चोपमेयकृतो-
पमानकैमर्थक्य-पक्षान्तरालब्मनकृतप्राचीनपक्षकैमर्थक्य-विशेषप्रतिपादन-प्रयोजकोक्तवक्ष्यमाणकथनकैमर्थक्यानामनुपदोक्तनिषेधविध्याभासयोश्च-संग्रह: ”
इत्यप्याहु: ।
अथाक्षेपध्वनिस्तन्मतानुसारेणोदाह्लियते-
‘ त्वामवश्यं सिसृक्षन्य: सृजति स्म कलाधरम्‍ । किं वाच्यं तस्य वैदुष्यं पुराणस्य महामुने: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP