संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| अक्षेप अलंकारः| लक्षण २ अक्षेप अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ अक्षेप अलंकारः - लक्षण २ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २ Translation - भाषांतर अत्र किमेभिरित्युत्तरार्धेन पूर्वार्धोक्तपक्षप्रतिक्षेपमात्रं पक्षान्तरालम्बनेन क्रियते । यथा वा-‘ किं नि:शड्कं शेषे शेषे वयसि त्वमागतो मृत्यु: । अथवा सुखं शयीथा जननी जागर्ति जाह्लवी निकटे ॥ ’अन्ये तु-“-‘ निषेधो वक्तुमिष्टय यो विशेषाभिधित्सया । वक्ष्यमाणोक्तविषय: स आक्षेपो द्विधा मत: ॥ विशेषं व्यड्रयरूपमर्थविशेषं वक्तुं विवक्षितस्य प्रकृतार्थस्य निषेधो निषेधसदृश: कथनादिप्रत्याख्यानरूप: । स वक्ष्यमाणविषय उक्तविषय-श्चेति द्विविध: ”इत्याहु: । तेषां मते इत्थमुदाहार्यम्-‘ रीतिम गिराममृतवृष्टिकिरां त्वदीयां तां चाकृतिं कृतिवरैरभिनन्दनीयाम् । लोकोत्तरामथ कृतिं करुणारसार्द्रां ज्ञांतु न कस्यचिदुदेति मन:प्रसार: ॥ ”अत्र करिष्यमाणस्य मन:प्रसारस्य निषेधो वर्णनीयस्यानिर्वाच्यतां बोधीयतुम । ‘ श्वासोऽनुमानवेद्य: शीतान्यड्रानि निश्चला दृष्टि: । तस्या: सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥ ’अलंकारसर्वस्वकारादयस्तु-“ प्राकरणिकस्यार्थस्य निषेधोऽप्रतिष्ठिवत्वादाभासमात्ररूप: कस्य-चिदर्थविशेषस्य विधानं व्यनक्ति स एक: । यश्चाप्राकरणिकस्य विधिस्तादृश एव सन्निषेधे पर्यवस्यति सोऽपर इत्युभयविधोऽप्ययमाक्षेप: ।तत्र निषेधाभासरूप आक्षेपस्तावहिऊविध:-उक्तविषयो वक्ष्यमाण-विषयश्चेति । उक्तविषयोऽपि द्विविध:-क्कचिद्वस्तुमात्रनिषेधात्क्कचिद्वस्तु-कथननिषेधात् । वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एव सामान्य-धर्मावच्छिन्नप्रतियोगिताक:शब्दात्समर्प्यमाणोऽपि विशेषरूपेष्टनिषेधात्मना स्थितो निषिध्यमानगतं विशेषान्तरमाधत्ते । सोऽपि द्विविध:-सामान्याश्रययक्तिंचिद्विशेषनिरूपणानिरूपणाभ्याम् । तत्र निरूपितेषु यक्तिंचिद्विशेषेषु प्रयोजनाभावादप्रवर्तमानो निषेधो वक्ष्यमाणेष्टविषय एव संपद्यते । अनिरूपितेषु तु सुतराम् । चतुर्विधेऽप्यस्मिन्नाक्षेपे इष्टोऽर्थ:, तस्य च निषेध: तस्याप्यसत्यत्वम्, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुप-युज्यते । तेन नात्र निषेधविधि: । न वा विहितनिषेध: । अपि तुनिषेधेनासत्येन विधेराक्षिप्यमाणत्वाद्योगार्थादाक्षेप: । स च प्रागुक्तदिशा चतुर्विध: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP