संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| तुल्ययोगिता अलंकारः| लक्षण ४ तुल्ययोगिता अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ तुल्ययोगिता अलंकारः - लक्षण ४ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammer लक्षण ४ Translation - भाषांतर एवं च-‘ दधीचिबलिकर्णेषु हिमहेमाचलब्धिषु । अदातृत्वमधैर्यं च दृष्टे भवति भासते ॥’इत्यादौ रशनारूपैषा यथासंख्यावष्टब्धा । ‘ दृष्ट: सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिका: । अथत्वं संगरे: शेषकालानलाब्धय: ॥’इत्यत्र च स्वरूपद्वयेन राजविषयकरतिभावभूषणतया स्थिता । यत्र च प्रकृतानामेवाप्रकृतानामेव वा क्रियाणामेककारकान्वय: सा कारकतुल्ययोगिता ।यथा-‘ वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च सकलां पृथ्वीमतीव निपुणो भवान् ॥ ’अत्र राज्ञ: स्तावकवाक्ये प्रकृतानां क्तियाणामेकेन कर्त्रा साधारणेन धर्मेणौपम्यम् ।यथा वा-‘ दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरंतनमघं चुलुकीकरोति । भूतेषु किं च करुणां बहुलीकरोति सड्र: सतां किमु न मड्रलमातनोति ॥ ’अत्रार्थान्तरन्यासान्विता ।‘ केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये पश्यन्ति पुण्यपुरुषा: कति च स्पृशन्ति । मातर्मुरारिचरणाम्बुजमाध्वि गड्रे भाग्याधिका: कतिपये भवतीं पिबन्ति ॥’अत्रैकं कर्म क्तियाणां साधारणम् ।व्यड्रयैषा यथा-‘ अये लीलाभग्नत्रिपुरहरकोदण्डमहिम-न्कथा यत्रोदञ्चत्यतुलबलधैर्यस्य भवत: । अयं को वा तत्र प्रसृमरफणाकोणनिहित-क्षिति: शेष: श्रीमान्कमठकुलचूडामणिरपि ॥’अत्र को वा इत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य शेष-कमठाभ्यामप्रकृताभ्यामन्वय: प्रतीयते ।इति रसगड्राधरे तुल्ययोगिताप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP