तुल्ययोगिता अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.

Tags :

अथ तुल्ययोगिता-

प्रकृतानामेवाप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वय-स्तुल्ययोगिता ॥
औपम्यं चात्र गम्यम्‍, तत्प्रयोजकस्य समानधर्मस्योपादानात्‍ । वाच-काभावाच्च । अत एवालंकारिकाणामपि सादृश्यं पदार्थान्तरं न तु साधा-रणधर्मरूपमिति विज्ञायते । अन्यथा औपम्यस्यात्र गम्यत्वोक्तेरनुपपत्ते: । केचित्तु-‘ सादृश्यभाव एवातिरिक्त: । सादृश्यं तु तत्तत्साधारणधर्मा-
त्मकमेव । स चेवादिपदानां शक्यतावच्छेदक: । तत्तत्साधारणधर्मवाच-कैस्तु तत्तत्साधारणधर्मस्य स्वशक्यतावच्छेदकतत्तद्धर्मरूपेण बोधनेऽपि सादृश्यभावरूपेण बोधो व्यञ्जनसाध्य एव ’ इत्यादि वदन्ति ।
उदाहरणम्‍ -
‘ प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियाया: । वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मान: ॥’
अत्र मानिन्या वर्ण्यत्वात्तदीयत्वेन प्रकृतयो: कर्त्रोरक्ष्रुमानयोर्विगलन-क्तिया समानधर्मत्वेनोपात्ता, विलोचनमनसोरपादानयोश्च । कारकाणां सर्वेषामपि क्तियान्वयस्य तुल्यत्वात्‍ । एवं चतुर्णां क्रियारूपधर्मैक्येऽपि द्वयोर्द्वयोरेवौपम्यं प्रतीयते न परस्परं चतुर्णाम्‍ । तदपादानत्वतत्कर्तृत्वरूपे विशेषे सामान्यस्य पर्यवसानात्‍ । शेषमुपरिष्टाद्वोध्यम्‍ ।
‘ न्यञ्चति क्यति प्रथमे समुदञ्चति किं च तरुणिमनि सुद्दश: । उल्लसति कापि शोभा वचसां च विभ्रमाणां च ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP