संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| तुल्ययोगिता अलंकारः| लक्षण २ तुल्ययोगिता अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ तुल्ययोगिता अलंकारः - लक्षण २ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammer लक्षण २ Translation - भाषांतर अत्र गुण: । यदि च ‘ विलसन्त्यहमहमिकया वाचो गतयश्च विभ्रमाश्च भृशम् ’ इत्युत्तरार्धं तदा क्रिया । यदि ‘ दधति स्म मधुरिमाणंवाचो गतयश्च विभ्रामाश्च भृशम् ’ इति क्तियते तदा गुणविशिष्टा क्तिया । केवलगुणेन साक्षात्संबन्धाभावात् केवलक्तियायाश्चाह्लद्यत्वात् । अप्रकृतानामेव यथा-‘ न्यञ्चति बाल्ये सुद्दश: समुदञ्चति गण्डसीम्नि पाण्डिमनि । मालिन्यमाविरासीद्राकाधिपलवलिकनकानाम् ॥’अत्र गुण:, आविर्भावक्तियाया: साक्षाद्धर्मिभिरनन्वन्वयात् । ‘ न्यञ्चति राकाधिपतिर्लवली पुरटं च पुण्डरीकं च ’ इति कृते क्तिया । ‘ धवली-भवत्यनुदिनं लवली कनकं कलनिधिश्चायम् ’ इति कृते गुणविशिष्टक्तिया ।‘ त्वयि पाकशासनसमे शासति सकल्म वसुंधरावलयम् । विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥अत्रोभयसाधारणयोर्गुणक्तिययोरभावाच्छब्दमात्रम् । श्लेषमूलेनाभेदा-ध्यवसानेन पिण्डीकृतोऽर्थो वा ।यत्त्वलंकारसर्वस्वकृता, तदनुगामिना कुवलयानन्दकृता च ‘ गुण-क्तियाभि: संबद्धत्वे गुणक्रियारूपैकधर्मान्वय: ’ इति चोक्तं तदापातत: ।‘ शासति त्वयि हे राज न्नखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयो: ॥ ’इत्यत्राभावरूपस्यैव धर्मस्यान्वयात् । गुणक्तियेत्युपलक्षणं वा धर्म-मात्रस्य । एवम् ‘ एकस्त्वं दानशीलोऽसि प्रत्यर्थिषु तथार्थिषु ’ इत्यादावपिदानशीलरूपैकान्वयाल्लक्षणप्रवृत्ति:, यथाकथांचिदनेकत्रैकान्वयस्य चमत्-कारिणोऽपेक्षितत्वात । एतेन-‘ हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता । प्रदीयते पराभूतिर्मित्रशात्रवयो: समा ॥’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP