अपहृति अलंकारः - लक्षण ७

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


ताभ्यां च ‘ न त्वं नारी, किं तु कमलिनी ’ इति तृतीयापह्लुतिर्व्यञ्जन-व्यापारेण प्राधान्येन निवेद्यतें, तत्संबन्धिवस्तुनिषेधारोपयोस्तनिषेधा-रोपनिवेदकत्वस्य न्याय्यत्वात्‍ । तुल्ययोगिता तु गुणतया स्थिता ।

यत्त्वप्पयदीक्षितैरपह्लुतिध्वनावुक्तम्‍-

“-‘ त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्तं रचयति सुपर्णीसुतमपि । अपि स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्प्म चाप्म मकरमुपरिष्टाच्च लिखति ॥’

इत्यादावपह्लुतिध्वनिरुदाहर्तव्य: । अत्र हि चक्तसुपर्णलेखनेन ‘ नायं साधारण: पुरुष:, किं तु पुण्डरीकाक्ष: ’
इति कयाचिव्द्यञ्जितम्‍ । अन्यया तस्याप्येतादृशं रूपं न संभवतीत्याशयेन ‘ नायं पुण्डरीकाक्षोऽपि, किं मन्मथ: ’ इति तदुभयमपमृज्य पुष्पसायकमकरध्वजलेखनेन ब्यञ्जि-तम्‍ ” इति । तदेतदापातरमणीयम्‍ । यत्तावदुच्यते-‘ चक्तसुपर्णलेखनेन नायं साधारण: पुरुष:, किं तु पुण्डरीकाक्ष: ’ इति कयाचिव्द्यञ्जितमिति । तत्रापह्लुतेर्द्वो भागौ-उपमेयनिषेध: उपमानारोपश्चेति । तयोस्तावदुपमा-

नारोपभाग: पुण्डरीकाक्षोऽयमित्याकारश्चक्तसुपर्णलेखनेनाभिव्यड्‍ क्तु शक्य:, चक्तसुपर्णयोस्तत्संबन्धित्वात्‍ । न तु नायं साधारण: पुरुष इत्युपमेय-निषेधभागोऽपि, व्यञ्जकस्यारोपमात्रव्यञ्जनसमर्थस्य तादृशनिषेधव्यञ्जने सामर्थ्याभावात्‍ । नाप्यनुभवसिद्ध: स:, येन तव्द्यञ्जनायोपायो गवेष्येत । नापि गवेष्यमाणोऽपि तव्द्यञ्जनोपाय: शब्दोऽर्थो वा उपलभ्यते, येना-नुभवकलहोऽपि स्यात्‍ । न च साधारणपुरुषनिषेधमन्तरेण पुण्डरीकाक्ष-तादात्म्यारोपो दुर्घट इति सोऽपि व्यजयते इति वाच्यम्‍, रूपकोच्छेदा-पत्ते: । मुखं चन्द्र: इत्यादौ मुखनिषेधनमन्तरेण चन्द्रत्वं दुरारोपमित्यस्यापि सुवचत्वात्‍ । तत्रापि मुखनिषेधावगमे जितमपह्लुत्या ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP