अनन्वय अलंकारः - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


चावयविनो निरुपमतया प्रतीयमानस्यानुपमेयत्वात्पूर्वोदाहरणतुल्यमेवैतत्‍ । क्कचिदवयवयोरुपमाप्यवयविगतनिरुपमत्वव्यञ्जिकेति स्थिते सामान्यस्य श्रीकृष्णागमनजन्यप्रीते: सैव सदृशीति मध्ये स्वसादृश्यप्रत्ययकल्पनं पुनर्न सह्लदयह्लदयमारोढुमीष्टे । रत्नाकरोक्तस्यैवानन्वयप्रकारस्यात्र व्यड्रयतेत्यपि न युक्तम्‍, तस्य प्रागेव दूषितत्वात्‍ प्रकृतेऽवाच्यत्वात्‍, स्वयमनन्वय-प्रकरणे तस्य प्रतिपादनविरहाच्च ।
इदं पुनरनन्वयध्वन्युदाहरणम्‍-
“ पृष्टा: खलु परपुष्टा: परितो दृष्टाश्च विटपिन: सर्वे । भेदेन भुवि न पेदे साधर्म्यं ते रसाल मधुपेन ॥”

अत्र भेदेनेत्युक्त्याऽभेदे सादृश्यमनन्वयात्मकं तु पेदे इति ध्वन्यते ।

यथा वा-

‘ नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तु: सुरधुनि कपर्दोऽधिरुरुहे । कया वा श्रीभर्तु: पदकमलमक्षालि सलिलै-स्तुलालेशो यस्यां तव जननि दीयेत कविभि: ॥’

अत्र कया वा त्वदितरया श्रीभर्तु: पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्तव तुलालेशोऽपि दीयेतेत्यर्थेन त्वयि पुन: सलिलक्षालितश्रीरमण-चरणायां तव तुला दीयेतैवेत्यर्थो‍ऽनन्वयात्मा श्रीगड्रागतनिरुपमत्वपर्यव-सायी इतरपदमहिम्रा व्यज्यते ॥

इति रसगंगाधरेऽनन्वयप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP