अनन्वय अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


द्वितीयो यथा-
‘ एतावति प्रपञ्चे सुन्दरमहिलासहस्त्रभरितेऽपि । अनुहरति सुभग तस्या वामार्धं दक्षिणार्धस्य ॥ ’

तृतीयो यथा-
‘ गन्धेन सिन्धुरधुरंधरवक्त्र मैत्री-मैरावणप्रभृतयोऽपि न शिक्षितास्ते ।

तत्त्वं कथं त्रिनयनाचलरन्नभिति-स्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥’

एषूपमानान्तरविरहस्त्रिष्वपि भेदेषु गम्यते । इत्यनन्वयस्त्रिविध: । ”
इति रत्नाकरेणोक्तम्‍ । तन्न । उपमानान्तरविरहप्रतीतिमात्रादेवानन्वयत्वे ‘ स्तनाभोगे पतन्भाति-’ इत्यत्रोपदर्शिताया: कल्पितोपमाया अपि तथात्वा-पत्ते: । यद्यर्थातिशयोक्तावतिप्रसक्तेश्व । तादृशप्रतीतिफलकैकोपमानोप-मयकसादृश्यस्य तत्त्वे पुन: कथं नाम वामार्धदक्षिणार्धयोर्भिन्नयो: सादृश्ये तद्भेदत्वोपन्यास: । न च स तदेकदेशस्तत्प्रतिबिम्बश्चेत्येतदन्यतमप्रतियोगि-कसादृश्यमनन्वय: इति क्कातिव्याप्तिर्वेति वाच्यम्‍ । नास्त्यन्वयोऽस्योति योगार्थविरहेण तदेकदेशसादृश्यस्यानन्वयपदार्थत्वासंभवात्‍ । अपि चा-

नन्वये ‘ गगनं गगनाकारम्‍ ’ इत्यादाबुपमेयस्यैवोपमानत्वेनोपन्यासादुपमे-यातिरिक्तोपमानविरहप्रतीतिद्वारा निरुपमत्वमुपमेयगतं सिद्धयति । अत्र च वामार्धस्योपमेयस्य दक्षिणार्धरूपोपमानकथनेन निरूपमत्वं विरुद्धमेव । कान्तागतनिरुपमत्वप्रत्ययस्तु नानन्वयस्य फलं भवितुमर्हति, तस्या अनु-पमेयत्वात्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP