अनन्वय अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


द्वितीयसद्दशव्यवच्छेदफलकघर्णनविषयीभूतं यदेकोपमानोपमेयकं साद्दश्यं तदनन्वय: ॥

स च कस्याप्युपस्कारत्वेऽलंकार: । अन्यथा तु शुद्ध: । ‘ लोहितपीतै: कुसुमैरावृतमाभाति भूभृत: शिखरम्‍ । दावज्वलनज्वालै: कदाचिदाकीर्णमिव समये ॥’

अत्र लेहितपीतकुसुमावृतं भूभृत: शिखरं स्वेनैव कस्मिश्चित्समये दावज्वालाकीर्णेनोपमीयते, इति तत्सादृश्यवारणाय भूतान्तम्‍ ।
इदं वा प्रत्युदाहरणम्‍ -

‘ नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहद्वयं मुरारे: । अभिनवस रदीर्घिकाप्रवाहप्रकारपरीतमिव स्फुटं चकासे ॥’
अत्रापि नखकिरणपरम्पराभिरामं हरे: पदाम्बुजं स्वात्मनैव सुरदीर्घि-काप्रवाहप्रकारपरीतेनोपमीयते । संप्रति सुरदीर्धिकाप्रवाहेण भगवत्पादा-

म्बुरुहस्य संबन्धाभावात्सुरनिम्नगोत्पत्तिकालावच्छिन्नस्य तस्योपमानताव-गमायाभिनवेति प्रवाहविशेषणम्‍ । नह्यत्र सादृश्यवर्णनस्य फलं द्वितीय-सब्रह्मचारिव्यवच्छेद:, तस्याप्रतिपत्ते: ।

‘ स्तनाभोगे पतन्भाति कपोलात्कुटिलो‌ऽलक: । सुधांशुबिम्बतो मेरौ लम्बमान इवोरग: ॥ ’

इति कल्पितोपमानिकायामुपमायामतिप्रसड्रवारणायैकोपमानोपमेयक-मिति । अत्रासत उपमानस्य कल्पनया सदुपमानं नास्तीति द्वितीयसदृश-व्यवच्छेदस्यास्ति प्रतीति: ।

उदाहरणममृत ( पीयूष ) लहर्याख्ये मदीये गड्रास्तवे-

‘ कृतक्षुद्राघौघानथ सपदि संतप्रमनस: समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहा: ।
अपि प्रायश्वित्तप्रसरणपथातीतचरिता-न्नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥’

यथा वा-
‘ इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि । परमार्थतो विचारे देवी गड्रा तु गड्रेव ॥’

पूर्वपद्ये वाच्योऽनुगामी धर्म: । इह तु व्यड्रय इति विशेष: । तुशब्दो‍ऽयं तीर्थान्तरेभ्यो वैलक्षण्यं प्रतिपादयंस्तत्प्रयोजकं भगवद्वासुदेवा-त्मकत्वं धर्मं श्रीगड्रायां व्यनक्ति । उभयत्रापि श्रीगड्राविषयकरत्युपस्कार-कत्वादलंकारोऽयम्‍ । बिमप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति । तस्मिंश्व

सति किंचिद्धर्मावच्छिन्नेन स्वेन सादृश्यस्य धर्मान्तरावच्छिन्ने स्वस्मिन्नन्वये बाधकाभावात्सदृशान्तरव्यवच्छेदाप्रतिपत्तेश्वानन्वय एव न स्यात्‍ ।

स च पूर्णो लुप्तश्वेति तावव्द्दिविध: । पूर्णस्तूपमावत्षड्विधोऽपि संभवति ।

यथा-

‘ गड्रा ह्लद्या यथा गड्रा, गड्रा गड्रेव पावनी । हरिणा सद्दशो बन्धुर्हरितुल्य: परो हरि: ॥ गुरवद्‍गुरुराराध्यो गुरुवद्नौरवं गुरो: ॥ ’

लुप्तेष्वपि धर्मलुप्त: पञ्चविधो‍ऽपि संभवति, प्रागुक्ते सार्धपद्मे धर्म-वाचकपदमपहाय पदान्तरदाने । तथा वाचकलुप्त:-

‘ रामायमाण: श्रीराम: सीता सीतामनोहरा । ममान्त:करणे नित्यं विहरेतां जगद्‍गुरू ॥’

इत्यत्र क्यड्‍समासयो: ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP