संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः| याजुषज्योतिषम् ज्योतिष शास्त्रः भृगुसूत्रम् बृहद्यात्रा वराहमिहीरस्य बृहत्संहिताः वराहमिहीरस्य बृहज्जातकः दैवज्ञ वल्लभा ग्रहलाघवः जातकपारिजात कर्मविपाकसंहिता मानसागरी बृहत्पाराशरहोराशास्त्रम् फलदीपिकाः सूर्यसिद्धान्त श्रीवृद्धयवनजातक विवाहपटलम् आर्चज्योतिषम् याजुषज्योतिषम् याजुषज्योतिषम् सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopejyotishaज्योतिषयाजुषज्योतिषशास्त्र याजुषज्योतिषम् Translation - भाषांतर पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् | दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥१॥ ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः | विप्राणां सम्मतं लोके यज्ञकालार्थ सिद्धये ॥२॥ वेद हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः | तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥३॥ यथा शिखा मयूराणां नागानां मणयो यथा | तद्वद्वेदाङ्गशास्त्राणां ज्यौतिषं मूर्धानि स्थितम् ॥४॥ ये बृहस्पतिना भुक्ता मीनात्प्रभृति राशयः | ते हृताः पञ्चभिर्भूता यः शेषः स परिग्रहः ॥०॥ माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः | युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥५॥ स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ | स्यात्तदादियुगं माघस्तपः शुक्लोऽयनं ह्युदक् ॥६॥ प्रपद्यते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् | सार्पार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा ॥७॥ धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ | दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥८॥ प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम् | चतुर्थं दशमं चैव द्विर्युग्मं बहुलेप्यृतौ ॥९॥ वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् | धाता कश्चायनाद्याः स्युरर्धपञ्चमभस्त्वृतुः ॥१०॥ एकान्तरेऽह्नि मासे च पूर्वान् कृत्वादिमुत्तरः | अर्धयोः पञ्चवर्षाणामृदु पञ्चदशाष्टमौ ॥११॥ द्युहेयं पर्व चेत्पादे पादस्त्रिंशत्तु सैकिका | भागात्मनापवृज्यांशान् निर्दिशेदधिको यदि ॥१२॥ निरेकं द्वादशाभ्यस्तं द्विगुणं गतसञ्ज्ञिकम् | षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥१३॥ स्युः पादोऽर्धन्त्रिपाद्याया त्रिद्वयेकऽह्नः कृतस्थितिम् | साम्येन्दोस्तृणोऽन्ये तु पर्वकाः पञ्च सम्मिताः ॥१४॥ भांशाः स्युरष्टकाः कार्याः पक्षद्वादशकोद्गताः | एकादशगुणश्चोनः शुक्लेऽर्धं चैन्दवा यदि ॥१५॥ नवकैरुद्गतोंशः स्यादूनः सप्तगुणो भवेत् | आवापस्त्वयुजेऽर्धं स्यात्पौलस्ये.आस्तङ्गतेऽपरम् ॥१६॥ जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्व सूत्तरे | भादानं स्याच्चतुर्दश्यां काष्ठानां देविना कलाः ॥१७॥ जौ द्रा गः खे श्वे ही रो षा श्चिन्मूषक्ण्यः सूमाधाणः | रे मृ घाः स्वापोजः कृष्यो ह ज्येष्ठा इत्यृक्षा लिङ्गैः ॥१८॥ कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः | उनस्थाने त्रिसप्तति मुद्ववपेदूनसम्भवे ॥१९॥ तिथिमेकादशाभ्यस्तां पर्वभांशसमन्विताम् | विभज्य भसमूहेन तिथिनक्षत्रमादिशेत् ॥२०॥ याः पर्वाभादानकलास्तासु सप्तगुणां तिथिम् | युक्त्या तासां विजानीयात् तिथिभादानिकाः कलाः ॥२१॥ अतीतपर्वभागेभ्यः शोधयेद् द्विगुणां तिथिम् | तेषु मण्डलभागेषु तिथिनिष्ठाङ्गतो रविः ॥२२॥ विषुवन्तं द्विरभ्यस्तं रूपोनं षड्गुणीकृतम् | पक्षा यदर्धं पक्षाणां तिथिः स विषुवान् स्मृतः ॥२३॥ पलानि पञ्चाशदपां धृतानि तदाढकं द्रोणमतः प्रमेयम् | त्रिभिर्विहीनं कुड्वैस्तु कार्यं तन्नाडिकायास्तु भवेत् प्रमाणम् ॥२४॥ एकादशभिरभ्यस्य पर्वाणि नवभिस्तिथिम् | युगलब्धं सपर्व स्याद् वर्तमानार्कभं क्रमात् ॥२५॥ सूर्यर्क्षभागान् नवभिर्विभज्य शेषान् द्विरभ्यस्य दिनोपभुक्तिः | तिथेर्युता भुक्तिदिनेषु कालो योगो दिनैकादशकेन् तद्भम् ॥२६॥ त्र्यंशो भशेषो दिवसांशभागश्चतुर्दशस्याप्यपनीय भिन्नम् | भार्धेऽधिके चाधिगते परोंऽशोद्वावुत्तमे तन्नवकैरवेत्य ॥२७॥ त्रिंशत्यह्नां सषट्षष्टिरब्दः षट् चर्तवोऽयने | मासा द्वादश सौर्याः स्युरेतत् पञ्चगुणं युगम् ॥२८॥ उदयावासवस्य स्युर्दिनराशि सपञ्चकः | ऋषेर्द्विषष्टिहीनः स्याद् विंशत्या चैकयास्तृणाम् ॥२९॥ पञ्चत्रिंशं शतं पौष्णम् एकोनमयनोन्यृषेः | पर्वणां स्याच्चतुष्पादी काष्ठानां चैव ताः कलाः ॥३०॥ सावनेन्दुस्तृमासानां षष्टिः सैकद्विसप्तिका | द्युस्त्रिंशत् सावनः सार्धः सौरस्तृणां स पर्ययः ॥३१॥ अग्निः प्रजापतिः सोमो रुद्रोदितिबृहस्पती | सर्पाश्च पितरश्चैव भगश्चैवार्यमापि च ॥३२॥ सविता त्वष्टाथ वायुश्चेन्द्राग्नी मित्र एव च | इन्द्रो निॠतिरापो वै विश्वेदेवास्तथैव च ॥३३॥ विष्णुर्वसवो वरुणोओऽजेकपात् तथैव च | अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥३४॥ नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि | यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥३५॥ उग्राण्यार्द्रा च चित्रा च विशाखा श्रवणोश्वयुक् | क्रूरणि तु मघास्वाती ज्येष्टा मूलं यमस्य च ॥३६॥ द्यूनं द्विषष्टिभागेन ज्ञे (हे)यं सौरं सपार्वणम् | यत्कृतावुपजायेते मध्येऽन्ते चाधिमासकौ ॥३७॥ कला दश सविंशा स्याद् द्वे मुहुर्तस्य नाडिके | द्युस्त्रिंशत् तत्कलानां तु षट्शती त्र्यधिका भवेत् ॥३८॥ ससप्तमं भयुक् सोमः सूर्यो द्यूनि त्रयोदश | नवमानि तु पञ्चाह्नः काष्ठा पञ्चाक्षरा भवेत् ॥३९॥ यदुत्तरस्यायनतो गतं स्याच् छेषं तथा दक्षिणतोऽयनस्य | तदेकषष्ट्याद्विगुणं विभक्तं सद्वादशं स्याद् दिवसप्रमाणम् ॥४०॥ यदर्धं दिनभागानां सदा पर्वणि पर्वणि | ॠतुशेषं तु तद् विद्यात् सङ्ख्याय सह सर्वणाम् ॥४१॥ इत्युपायसमुद्देशो भूयोप्यह्नः प्रकल्पयेत् | ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना ॥४२॥ इत्येतन्मासवर्षाणां मुहूर्तोदयपर्वणाम् | दिनर्त्वयनमासाङ्गं व्याख्यानं लगधोऽब्रवीत् ॥००॥ सोमसूर्यस्तृचरितं विद्वान् वेदविदश्नुते | सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिम् ॥४३॥ ॥इति याजुषज्योतिषं समाप्तम् ॥ N/A References : N/A Last Updated : January 24, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP