संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः| विवाहपटलम् ज्योतिष शास्त्रः भृगुसूत्रम् बृहद्यात्रा वराहमिहीरस्य बृहत्संहिताः वराहमिहीरस्य बृहज्जातकः दैवज्ञ वल्लभा ग्रहलाघवः जातकपारिजात कर्मविपाकसंहिता मानसागरी बृहत्पाराशरहोराशास्त्रम् फलदीपिकाः सूर्यसिद्धान्त श्रीवृद्धयवनजातक विवाहपटलम् आर्चज्योतिषम् याजुषज्योतिषम् वराहमिहिर - विवाहपटलम् विवाहपटलम् ग्रथात वराहमिहिरने अतिशय समर्पकपणे विवाहासंबंध विचार मांडले आहेत. Tags : astrologyhoroscopevarahamihirज्योतिषवराहमिहिरविवाहपटलम्शास्त्रसाहित्य विवाहपटलम् Translation - भाषांतर १-१ - अज्ञातमध्यान्तसमुद्भवाय सर्वात्मने सर्वगताय तस्मै ।१-२ - प्रणम्य देवाय मनोभवाय खलीकृतं येन जगत्समग्रम् ॥२-१ - प्रजापतिर्मन्मथ एव यस्मात्कामाद्विना न प्रभवः प्रजानाम् ।२-२ - महत्सु सूक्ष्मेषु च सोऽस्ति देवः सर्वात्मकः सर्वगतश्च यस्मात् ॥३-१ - यस्मात्परन्नापरं अस्ति किञ्चित्सौक्ष्म्यान्महत्वाच्च यतश्च नान्यत् ।३-२ - तेनेदं एकेन मनोभवेन व्याप्तं जगच्छाऋङ्गभृतेव सर्वम् ॥४-१ - अगम्यगामी भगवान्प्रजेशः श्रोणीसहस्राङ्कतनुश्च शक्रः ।४-२ - चतुर्मुखो येन कृतश्च शम्भु समन्मथो मङ्गलं आदधातु ॥५-१ - भगवानपि शार्ङ्गरथाङ्गधरो भगवत्(त्)वं अवाप यतः ।५-२ - बहवोऽस्य भगा इति तेन कृतं भगवानिति नाम जगत्प्रथितम् ॥६-१ - सीतावियोगेन बहुनि दुःखान्याप्तानि रामेण सलक्ष्मणेन ।६-२ - तानीह संस्मृत्य कलौ सहस्राण्यष्टौ तथाष्टौ च विवाहितानि ॥७-१ - दुर्भगास्तनयवर्जिताश्च या निःस्वसन्ति वनिताः पतिव्रता ।७-२ - ताः कुदैवविनिपातयन्त्रिता नान्यजन्मजनितैः सुदुस्कृतैः ॥८-१ - सुरभिकुसुमगन्धैस्तर्पयित्वा द्विजेद्रान्शुभतिथिदिवसर्क्षे दैववित्संप्रदिष्टे ।८-२ - उभयकुलविशुद्धे ज्ञातशीले सुरूपे प्रथमवयसि दद्यात्कन्यकां यौवनस्थे ॥९-१ - पुष्ये दिवसेऽथवा क्षणे वैवाह्येषु च भेषु कारयेत् ।९-२ - घटकारमृदा सुलक्षणां इन्द्राणीं कुशलेन शिल्पिना ॥१०-१ - कुसुम्भरक्ताम्बरभूषणोज्ज्वलाः साध्व्यः सुरूपाः सुभगाः कुलोद्भवाः ।१०-२ - नदीं नयेयुः सरोऽथवा तटं कन्यां अलङ्कृत्य सहेन्द्र जायया ॥११-१ - सूर्पेणदिक्षु प्रमदा बलिं ता दत्वा सकालीयकगन्धदिग्धाम् ।११-२ - कुसुम्भरक्ताम्बरवेष्टिताङ्गीं शचीसकाशं प्रमदा नयेयुः ॥१२-१ - दध्योदनेन हविषा मधुना च कन्या संपूज्य शक्रदयितां च सलोहस्ता ।१२-२ - तूष्णीं प्रणम्य शिरसा गृहं एव यायाद्देवीं प्रगृह्य मुदिता नियतैश्च केशैः ॥१३-१ - गृहे स्तितां [ऊ. स्थितां] तां पुरुहूतपत्नीं प्राङ्मध्यास्तमयेषु कन्या ।१३-२ - स्रग्गन्धधूपैः प्रतिपूजणेच्[ऊ. प्रतिपूजयेच्] च पाणीग्रहं यावदुपागतेति ॥१४-१ - रत्नानीन्दुकरः स्रजः शुभगता हर्म्योत्पलान्यासवः१४-२ - तांबूलं प्रवराम्बराणि रुचिरं गीतं विभूत्यश्चया ।१४-३ - यस्मान्न स्त्रियं अन्तरेण हि नृणां सर्वाण्यभिप्रीतये१४-४ - तस्माद्वच्मि तदाप्तियोग्यसमयो धर्मार्थकामाय च ॥१४ए ।.उक्तं जन्मनि यत्तदेव भविता यद्यङ्गनानां फलम् ।१४फ़् ।.व्यर्थो न त्वयं आदरं परिणये तत्काललग्नादिगः ॥१५-१ - अज्ञातं प्रथमं प्रधानं अपरं तद्व्यञ्जकं योषिताम् ।१५-२ - उद्वाहे नियति नयत्यतिबलाद्वेलासमायुक्फलैः ॥१६-१ - वात्स्यो वर्षं अनोजं इच्छति तथा एभ्यो जनश्चोत्तरं१६-२ - स्त्रीणां मानं [ऊ. नामम्] ऋतुं विहाय मुनयो माण्डव्यशिष्या जगुः ।१६-३ - चैत्रं प्रोज्झ्य पराशारो कथयते दुर्भाग्यदं योषितां१६-४ - आषाढादिचतुष्टयेन शुभदं कैश्चित्प्रदिष्टं द्विजैः ॥१७-१ - श्रेष्ठं पक्षं उषन्ति शुक्लं असितस्याद्यं त्रिभागं तथा ।१७-२ - रिक्तां प्रोज्झ्य तिथिं तथा त्वयनयोः सन्धिं च शेषाः शुभाः ॥१८-१ - आग्नेयग्रहवासरेषु कलहः प्रीतिस्तु सत्सूत्तमान्[ऊ. सत्सूत्तमा] ।१८-२ - कैश्चित्स्थर्यं उषन्ति सौरदिवसे चान्द्रे समापत्निकम् ॥१९-१ - मृगशिरसि मघायां हस्तमित्रोत्तरासु स्वसननिरृतिपूषाधातृदेवेषु चोढा ।१९-२ - बहुसुतशुख [ऊ. सुख]दासीवित्तसौभाग्ययुक्ता जनयति परितोषं कन्यका बान्धवानाम् ॥२०-१ - आर्द्राद्ये भचतुष्टये विधवता साग्नेययाम्ये स्मृता ।२०-२ - शेषेष्वक्षयदोषशोकमरणं व्याध्याद्यनिष्टं बहुः ॥२१-१ - प्रीतिर्जन्मसु तारकासु परतः सञ्ज्ञानुरूपं फलम् ।२१-२ - चन्द्रे चोपचयाऽऽद्यसप्तमगते सौभाग्यसौख्याप्तयः ॥२२-१ - नक्षत्रतुल्यं फलं आह गर्गः क्षेणेषु नक्षत्रपसञ्ज्ञितेषु२२-२ - हारीतबभ्रू द्विजदेवलश्च विष्टि विनाऽन्यत्करणं प्रशस्तम् ॥२३-१ - तिथिदिनकरणर्क्षलग्नवीर्यं परिचयं आह पराशरः क्रमेण ।२३-२ - तिथिरिति बलबान्वदन्ति गर्गाः करणबलाद्दिवसोऽपि भागुरिश्च ।२३एफ़् ।.दिनकरणबलाद्भृगुर्भवीर्यं बलं उदयस्य जगाद जीवशर्मा ॥२४-१ - करणभतिथयोऽर्धभुक्तभोगाः स्वफलकरा न भवन्ति तत्र साम्ये ।२४-२ - करणतिथिवासरोदयानां चरणविवृत्थिरनुक्रमात्फलानाम् ॥२५-१ - षट्काष्टके मरणवैरवियोगदोषा द्विर्द्वादशे निधनताऽप्रजाता त्रिकोणे ।२५-२ - प्रीतिः परा निगदिता समसप्तकेषु शेषेष्वनेकविधसौख्यसुतार्थसंपत् ॥२६-१ - षट्काष्टकेऽपि भवनाधिपं एव भाव२६-२ - एकाधिपत्यं अवलोक्य च वश्यराशिम् ।२६-३ - कार्यो विवाहसमयः शुभकृत्सदुक्तः२६-४ - स्तारा [ऊ. तारा] भवेद्यदि परस्परतोऽनुकूला ॥२७-१ - दारिद्रयं [ऊ. दारिद्र्यं] रविणा कुजेन मरणं सौम्येन नस्युः प्रजाः२७-२ - दौर्भाग्यं गुरुणा सितेन सहिते चन्द्रेण सापत्निका ।२७-३ - प्रव्रज्यार्कसुतेन सेन्दुजगुरौ वाञ्छन्ति केचित्छुभम्२७-४ - व्याध्यैर्मृत्युरणंग्रहैर्[ऊ. असङ्ग्रहैर्] बहुविधा दीक्षा प्रवासाः शुभैः ॥२८-१ - क्रिये कुमारेष्वनुरक्तचित्ता विहीनवित्ता गवि गोव्रता च ।२८-२ - कुलद्वयानन्दकरी तृतीये कुलीरलग्ने कुलटा नृशंसा ॥२९-१ - हरौ प्रसूता सकृदाश्रिता पितुः पतिप्रियाऽति श्वशुरस्य षष्ठभे ।२९-२ - तुलादिमानार्थवती तुलाधरे तथालिनि क्रन्दति नित्यं अस्थिरा ॥३०-१ - धनुषि कुलटा तत्पूर्वार्द्धे सतीत्यपरे जगुः ।३०-२ - मृगझषघटेष्वन्याशक्ता जरां उपगच्छति ॥३१-१ - द्विपदभवनप्रापी योऽंशः स शुभोऽन्यगृहोदये ।३१-२ - द्विपदभवनेष्वप्यन्यांशा न भवन्ति शुभावहा ॥३२-१ - भानुर्मृत्युर्न बहुधनतां भर्तृदायादवित्तं [ऊ. वित्तं] बन्धुध्वंसं तनयविरहं भर्तृवृद्धिं परां च ।३२-२ - वैधव्यं स्यान्[ऊ. प्राक्] न लघुमरणं धर्महानिं विशीलं लाभानेकान्व्ययं अपि ददात्युद्गमर्क्षात्क्रमेण ॥३३-१ - शशिन्यश्वा सार्था तदनु शुभता बान्धवहिता विपुत्रा बन्ध्यार्ता भवति ससपत्ना ऽऽशुनिधना ।३३-२ - जनित्री कन्यानां अथ विहतकर्माऽतिधनिनी व्ययाशक्तेत्येके जगुरशुभदा बन्धुषु जले ॥३४-१ - मृत्युर्नैःस्वं सार्थता बन्धुवैरं न स्युः पुत्रा भर्तृवृद्धिं कुमैत्रीम् ।३४-२ - रक्तस्रावो नानुकुल्ये च भर्तुः क्रव्याच्छैल्यं स्वाप्तिनाशं च भौमे ॥३५-१ - भर्तृव्रता सुगृहिणी पतिपक्षपूज्या बन्ध्वर्चिता बहुसुता विजितारिपक्षा ।३५-२ - बन्ध्या व्यसुर्नियमदानकृशाङ्गवित्ता मायावती धनवती व्ययनीय सौम्ये ॥३६-१ - पत्युः प्रियाऽति धनिनी मुदिता धन्याढ्या पुत्रान्विता हतपरा न समेति भर्ता ।३६-२ - क्षीणायुषा शुभरता शुभसिद्धकार्या स्वायान्विता तदुभयोपकृता च जीवे ॥३७-१ - प्रिया पत्युर्लुब्धा पतिसहजशक्ता कुलहिता३७-२ - सुपुत्रा वैराढ्या तदनु कुलटा क्षिप्रनिधना ।३७-३ - रता नित्यं धर्मे बहुकुशलकर्मण्यभिरता३७-४ - भवत्यायप्राया क्षपितविभवा चेति भृगुणा ॥३८-१ - पुंश्चल्यस्वा बहुधनवती स्वल्पदुग्धार्कपुत्रे३८-२ - हृद्रोगाऽऽर्ता विनिहतपरा गर्भविस्रावशीला ॥३८-३ - रोगान्मुक्ता स्खलितनियमा पापशीलाऽतिवित्ता३८-४ - पानैरर्थान्नयति विलयं प्राविलग्नात्क्रमेण ॥३९-१ - सौम्या व्ययास्तनिधनं त्र्यरिभं च शुक्रे हित्वा स्थितस्त्रिधनलाभगतः शशाङ्कः ।३९-२ - पापा त्रिषड्निधनलाभगता विवाहे हित्वाऽष्टमं क्षितिजं इष्टफलानि दद्युः ॥४०-१ - सुतहिबुकवियद्विलग्नधर्मेष्वमरगुरुर्यदि दानवार्चितो वा ।४०-२ - यदशुभं उपयाति तच्छुभत्वं शुभं अपि वृद्धिं उपैति तत्प्रभावात् ॥४१-१ - अनिष्टस्थानसंस्थोऽपि प्रशस्तफलदः शशिः ।४१-२ - सौम्यभागेऽधिमित्रण बलिना चेन्निरीक्ष्तः ॥४२-१ - नरग्रहबले स्त्रीणां पुमान्भवति बल्लभः ।४२-२ - विपरीतेऽङ्गना भर्तुरर्थादन्यत्प्रकल्पयेत् ॥४३-१ - शुक्रसूर्यास्तपतिषु शत्रुभे वा तदंशके ।४३-२ - विरोधमूढा यात्याशु श्वस्रुश्वसुरभर्तृषु ॥४४-१ - विलग्नांशः स्वनाथेन यद्युद्वाहे न दृश्यते ।४४-२ - पुंविनाशस्ततोऽस्तांशे यद्येवं योषितस्तथा ॥४५-१ - गुरुसितयोरुच्चगयोरेकतमे वा विलग्नगे कन्या ।४५-२ - राज्ञि भवत्यसंशयं एव गुरुसौम्ययोश्चोढा ॥४६-१ - स्वजामित्रोदये लग्ने शुभे कार्या चतुर्थिका ।४६-२ - स्ववर्णसदृशा जारास्त्र्याद्यैरेकर्क्षसंस्थितैः ॥४७-१ - चरभवनगतं विहाय सत्यः शशिनं उवाच शुभप्रदं विवाहे ।४७-२ - मुनिवचनविरोधि तच्च सूत्रे न तु कथिते पवनर्क्षवैश्वदेवे ॥४८-१ - राश्युद्गमद्वादशराशिचक्रे युक्ता विवाहा मुनिभिः प्रदिष्टा ।४८-२ - नामानि चक्रे ग्रहयोगलग्ने श्रीदेवकीर्तिः शृणु तस्य चऽऽर्या ॥४९-१ - नन्दो भद्रो जीवो जीमूतः स्थावरो जयो विजयः ।४९-२ - व्यालो रसातलमुखः क्षयस्तमोऽन्त्यो विवाहगणः ॥५०-१ - सौम्ये विलग्ने नन्दः शुक्रे भद्रस्तथा गुरौ जीवः ।५०-२ - आद्यन्तौ जीमूतः स्थावर इति मध्यमान्त्याभ्याम् ॥५१-१ - सौम्यैरथ तैर्वा रविभौमशनैश्चरैः क्रमशः ।५१-२ - सौम्यैः ज्ञेया सौम्या क्रूराः क्रुरैः समाख्याता ॥५२-१ - दिनकरयोगाद्व्यालो भौमेन रसातलः क्षयः शनिना ।५२-२ - तमसा तमो निरुक्तोऽथान्त्ये केतो कृतान्तश्च ॥५३-१ - त्रिषु नन्दादिषु राज्ञी चतुर्षु चातः परं महादेवी ।५३-२ - व्यालाद्येषु च पञ्चषु विधवाः शोच्या दरिद्राश्च ॥५४-१ - अनधिकृतः शुभकृत्स्यादेते चन्द्रोऽन्यथाऽधिकृतः ।५४-२ - तस्मात्विवाहसमये न केन चित्सङ्गतः शशी धन्यः ॥५५-१ - सप्त ते शशियोगा सौम्या सह सर्वकर्मसिद्धिकराः ।५५-२ - अशुभफलदास्तु पापैः पत्युद्वहने विवर्ज्यास्ते ॥५५-३ - तस्मादेतान्योगान्मतिमां सञ्चिव्त्य सर्वकार्येषु ।५६-१ - ऊढा नन्दे कन्या देवीशब्दं समाप्नुयादचिरात् ॥५६-२ - भवति नरेन्द्रजननी भर्तुः प्राणैः प्रिया चैव ।५७-१ - भद्रे पाणिग्रहणे यदि नाम कुमारिका समुपयाति ॥५७-२ - सा त्वरितान्नृपशब्दं करोति भार्तुः कुलस्यापि ।५८-१ - परिणीता जीवाख्ये कन्या विजयाय कीर्त्यते भर्तुः ॥५८-२ - प्राप्नोति सा त्रिवर्गं कुलद्वयं चापि नन्दयति ।५९-१ - जीमूते परिणीता विपुलान्भोगान्महाफलान्भुक्त्वा ॥५९-२ - दृष्द्वा च नप्तृतनयान्सहभर्ता देवत्वम् ।६०-१ - स्थावरयोगे कन्या पाणिग्रहं एत्य विपुलं ऐश्वर्यम् ॥६०-२ - भर्तुर्निधानलाभान्प्राप्य कुलस्योन्नतिं कुरुते ।६१-१ - पाणिग्रहं एत्य जये जघन्यकुलजापि भर्तुरैश्वर्यम् ॥६१-२ - आवहति सदा कन्या निषेव्यमाना सपत्नीभिः ।६२-१ - विजयां प्राप्योद्वाहं प्राप्नोति सुतान्यशोऽर्थलाभं च ॥६२-२ - वंशस्य च प्रतिष्ठां परतो मरणाच्च सुरलोकम् ।६३-१ - व्याले व्यालाकारा पाणिग्रहं एति कन्यका दैवात् ॥६३-२ - दारिद्र्यामययुक्ता नैकस्मिन्पुंसि सा रमते ।६४-१ - पातालनामनि गता पाणिग्रहणे च पञ्चमान्मासात् ॥६४-२ - सा प्राप्य दोषं अतुलं परः प्राणान्परित्यजति ।६५-१ - क्षयं आसाद्योद्वाहं कन्या पक्षद्वयात्पतिं हत्वा ॥६५-२ - नीचेन तु सह भर्त्रा क्षपयति जाराग्निना गोत्रम् ।६६-१ - पाणिग्रहस्तमसि चेल्लक्षणगुणवित्ततोऽपि सम्पन्ना ॥६६-२ - सप्तति रात्रात्क्षपयति यद्यपि जाता सुरेन्द्रेण ।६७-१ - यदि खलु कृतान्तयोगे परिणयं आयति कन्यका दैवात् ॥६७-२ - सा श्वसुरबन्धुवर्गं क्षपयत्यचिरेण कालेन ।६८-१ - आत्मोपेक्षकपोषकवधका इति राशयोऽर्थतोऽभिहितः ॥६८-२ - एभ्यः शुभं अशुभं वा निर्देश्या जन्मलग्नाभ्याम् ।६९-१ - आत्मेति जन्मलग्नं पञ्चम नवमं च कीर्तितं तस्मात् ॥६९-२ - द्विषट्कदशमभवनं उपेक्षकाख्यं विनिर्दिष्टम् ॥७०-१ - दुश्चिक्यं जामित्रं चैकादशकं च पोषकं ज्ञेयम् ॥७०-२ - द्वादशनिधनचतुर्थं वधकाख्यं शास्त्रनिर्दिष्टम् ।७१-१ - हित्वा शशाङ्कं यदि सप्त सौम्यैः पञ्चाशुभैः किं कथिता न सप्ता ॥७१-२ - द्वित्र्यादियोगान्परिहृत्य कस्मान्नोक्तं शतं त्रिघनं विलग्ने ।७२-१ - देशाचारस्तावदादौ विचिन्त्यो देशे देशे या स्थिति सैव कार्या ॥७२-२ - लोकद्विष्टां पण्डिता वर्जयन्ति दैवज्ञोऽपि लोकमार्गेण यायात् ।७३-१ - बृहस्पतौ गोचरशोभनस्थे विवाहं इच्छन्ति च दक्षिणात्याः ।७३-२ - रवौ शुभस्थे च वदन्ति गौडा न गोचरो मालवके प्रमाणम् ॥७४-१ - हरौ प्रसुप्ते न च दक्षिणायने न चैत्रमासे न च पुष्यसंज्ञिते ।७४-२ - तिथौ च रिक्ते शशिनि क्षयङ्गते रवीन्दुभौमार्किदिनेषु चाशुभम् ॥७५-१ - व्यतिपातहतं दिनत्रयं व्यतिपातेन समं च वैधृतिम् ॥७५-२ - तदपि स्फुटपातदर्शने द्विगुणं यदि वा न निश्चितम् ।७६-१ - व्यतिपातव्याघातः षष्ठे दशमे च वैधृतं धिष्ण्ये ॥७६-२ - विक्षोभणगण्डान्तावतिधृतिसंख्ये च व्याघातः ।७७-१ - तदिदं व्यतिपातं च कथयन्ति उत्तरदिक्स्थिताजनाः ॥७७-२ - व्यतिपातवदाकुलस्थितं बहुसिद्धान्तविशेषकारणे ।७८-१ - तथोत्तराः साकलसन्निकृष्टा माण्डव्यमातीयतुसार्द्धकेषु ॥७८-२ - खशेषु हूणेषु न बाह्लिकेषु वा न, काणदेशेषु न गोपभोजाः ।७९-१ - एकादशोक्तानि शुभानि भानि शेषाण्यनिष्टानि विवाहकाले ॥७९-२ - तत्राग्नि तारा शशिवीर्ययुक्ता त्रिंशन्मुहूर्ताश्च विचिन्तनीयाः ।८०-१ - तुलाधरस्त्रीमिथुनाद्विवाह लग्ने स्थिता पापफला न चान्ये ॥८०-२ - त्रिंशांशकद्वादशभागभेदैर्द्रेष्काणहोराप्रमुखैर्विचिन्त्यः ।८१-१ - मासे नाष्टाउ विष्टिदुष्टानि भानि तत्राप्येके रात्रिं आहुर्दिनं च ॥८१-२ - तिथ्यर्द्धेऽन्त्ये प्राप्तिनाशौ च विष्टे चान्द्रं मानं विष्टिहेतु न शेषम् ।८२-१ - प्राच्याः प्रायोः न्यूनवर्णाः सगोपाः संध्याकालं प्राहुरिष्टं न शेषम् ॥८२-२ - यावच्छान्तं गोरजो नाभ्युपेति तावत्तेषां चित्तशुद्धिर्विवाहे ।८३-१ - गोपैर्यष्टयाहतानां खुरपुटदलिता या तु धूलिर्दिनान्ते८३-२ - सोद्वाहे सुन्दरीणां विपुलधनसुताश्चायुरारोग्यसंपत् ॥८३-३ - तस्मिन्काले न च र्क्षं न च तिथिकरणं नैव लग्नं न योगः८३-४ - ख्यातः पुंसां सुखार्थं शमयति दुरितानि उत्थितं गोरजस्तु ।८४-१ - कुलस्य देशस्य च चित्तवृत्तिर्न खण्डनिया विदुषा कदाचित् ॥८४-२ - दोसः प्रतिस्यायकृतोऽपि योऽत्र संभाव्यते ज्यौतिषिकस्य सोऽज्ञैः ।८५-१ - शास्त्रशरीरं अबुध्वा बहुधा जल्पन्ति यद्यपि नानुमतम् ॥८५-२ - काणानां विषयगतः प्राज्ञो निमिलयेन्नेत्रम् ।८६-१ - एवं विवाहसमये गमने प्रवेशे कार्येषु मङ्गलयुतेष्वथवा परेषु ॥८६-२ - दोषं कुशिक्षितकुदैवविदो वदन्ति रागेण वा पटुधियो नमोऽस्तु तेभ्यः ।८७-१ - गोचरशुद्धाविन्दुं कन्याया यत्नतः शुभं वीक्ष्य ॥८७-२ - तिग्मकिरणश्च पुंसः शेषैरवर्णैरपि विवाहः ।८८-१ - न सकलगुणसंपल्लभ्यतेऽल्पैरहोभिर्बहुतरगुणयोगं योजयेत्मङ्गलेषु ॥८८-२ - प्रभवति न हि दोषो भूरिभावे गुणानां सलिललव इवाग्नेः संप्रदीप्तेन्धनस्य ।८९-१ - गुणशतं अपि दोषः कश्चिदेकोऽपि वृद्धः क्षपयति यदि नान्यत्तद्विरोधिगुणोऽस्ति ।८९-२ - घटं अपि परिपूर्णं पञ्चगव्यस्य शक्त्या मलिनयति सुराया बिन्दुरेकोऽपि सर्वम् ॥९०-१ - कृतकौतुकमङ्गलो वरो मधुपर्काद्यशनादनन्तरम् ॥९०-२ - ज्वलिताग्निसमक्षमङ्गलं यदवाप्नोति शुभाशुभं च तम् ॥९१-१ - चक्रे वराहमिहिरः प्रणिपत्य साधून्सम्यक्विवाहपटलं पृथुतां विहाय ।९१-२ - पूर्वं च यद्युवतिजन्मविधौ मयोक्तं संचिन्त्य तच्च सदसत्परिकल्पनीयम् ॥ N/A References : विवाहपटलम् Last Updated : November 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP