जननशांत्यादयः - सिनीवालीकुहूजननशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तस्यास्तु फलादिनिर्णयः सिंध्वादिग्रंथांतरे द्रष्टव्यः तत्रादौ गोमुखप्रसवशांतिं कृत्वा सिनीवालीकुहूशांतिं कुर्यात् ॥ अथ प्रयोगः - यजमानः आचम्य पावित्रपाणिर्देशकालौ स्मृत्वा ममास्य बालकस्य सिनीवालीजननसूचितसर्वारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं सग्रहां सिनीवालीजननशांतिं करिष्ये । ( कुह्वां जनने तु कुहूजननशांतिं कारष्ये ) इति संकल्प्य तदादौ गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तान्याचार्यादिवरणांतानि कुर्यात् । तत आचार्यो देशकालौ निर्दिश्य अस्मिन्नमुकशांतिकर्माणि यजमानेन वृतोऽहमाचार्यकर्म करिष्ये इति संकल्प्य सर्षपविकिरणादिभूप्रादेशकरणांतं कुर्यात् । तत आग्नेयीं दिशमारभ्य विदिक्षु चतुरः कुंभान् मध्ये शतच्छिद्रं कुंभ च विधिना कृष्णचतुर्दशीशांतिवत्संस्थाप्य चतुर्षु पंचगव्यं पंचमे शतच्छिद्रे सप्तमृत्पंचपल्लवपंचरत्नपंचधान्यसुवर्णानि क्रमेण तत्तन्मंत्रैः प्रक्षिप्य पंचसु कलशेषु पूर्णपात्राणि निधाय शतच्छिद्रे पूर्णपात्रोपरि यथाशक्ति हैमीं रुद्रप्रतिमां संस्थाप्य तद्दक्षिणतः इंद्रप्रतिमां उत्तरतश्च पितृप्रतिमां स्थापयेत् । तत्र मंत्राः - सितांशुकः श्वेतरुचिश्चतुर्भुजो वृषस्थितो यो विबुधार्चितः सदा । त्रिशूलखट्वावरदाभयायुधो नमोऽस्तु रुद्राय शिवाय तस्मै । रुद्राय नमः रुद्रमावाहयामि ॥ तद्दक्षिणे - इंद्रश्चतुर्भुजो वज्रांकुशपाशवरायुधः । रक्तवर्णो गजारुढस्तस्मै नित्यं नमो नमः ॥ इंद्राय० इंद्रमावा० पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्ट्यक्षसूत्रकरका भयाढ्यास्तान्नमाम्यहम् ॥ पितृभ्यो न० पितृनावा० ॥ इत्यावाह्य षोडशोपचारैः पूजयेत् । तत आग्नेयादिषु चतुर्षु कुंभेषु वरुणमावाह्य पूजयेत् । ततो यजमानो दशदानानि कुर्यात् । तानि च - गोभूतिलहिरण्याज्यं वासो धान्यं गुडं तथा । रौप्यं लवणमित्याहुर्दशदानानि पंडिताः ॥ देशकालौ स्मृत्वा मामास्य शिशोः सिनीवालीजननशांत्यंगत्वेन गवादिदानानि करिष्ये इति - संकल्प्य गवामंगेषु तिष्ठंति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिहलोके परत्र च ॥ इति मंत्रेण गां दद्यात् १ ॥ शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् । सुवेषधारिवस्त्र त्वमतः शांतिं प्रयच्छ मे । इति वस्त्रम् २ । हिरण्यगर्भगर्भस्थमिति हिरण्यम् ३ । सर्वसस्याश्रया भूमिर्वराहेण समुद्धृता । अनंतसस्यफलदा ह्यतः शांतिं प्रयच्छ मे । इति भूमिम् ४ । ततो दशदानानि कुर्यात् । महर्षेर्गोत्रसंभूताः कश्यपस्य तिलाः स्मृताः । तस्मादेषां प्रदानेन मम पापं व्यपोहतु । इति तिलान् ५ । कामधेनुसमुद्भूतं सर्वक्रतुषु संस्थितम् । देवानामाज्यमाहार अतः शांतिं प्रयच्छ मे । इत्याज्यम् ६ । सर्वदेवमयं धान्यं सर्वोत्पत्तिकरं महत् । प्राणिनां जीवनोपायमतः शांतिं प्रयच्छ मे । इति धान्यम् ७ । यथा देवेषु विश्वात्मा प्रवरश्च जनार्दनः । वेदानां सामवेदस्तु महादेवस्तु योगिनाम् ॥ प्रणवः सर्वमंत्राणां नारीणां पार्वती यथा । तथा रसानां प्रवरः सदैवेक्षुरसो मतः । मम तस्मात्परां लक्ष्मीं ददस्व गुड सर्वदा । इति गुडम् ८ । प्रीतिर्यतः पितृणां च विष्णुशंकरयोः सदा ॥ शिवनेत्रोद्भवं यस्मादतः शांतिं प्रयच्छ मे । इति रुप्यम् ९ । यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना ॥ शंभोः प्रीतिकरं नित्यमतः शांति प्रयच्छ मे । इति लवणम् १० । इति दशदानानि ॥ क्षीरजातास्तथा शंखाः क्षीरादमृतसंभवः । क्षीरात्क्षीरोदवत्कीर्तिः क्षीरे प्राणस्य संभवः । इति क्षीरम् १ । पूर्वोक्तमंत्राभ्यां पुनराज्यं गुडं च दत्त्वा कांस्यपात्रस्थिताज्ये ‘ आज्यं तेजः समुद्दिष्टं आज्यं पापहरं परम् । आज्यं सुराणामाहार आज्ये यज्ञाः प्रतिष्ठिताः ॥ इति मंत्रेण सकुटुंबो यजमानः स्वस्वरुपं वीक्ष्य विप्रायाज्यपात्रं दद्यात् । तत आचार्यः अद्येत्यादि० सिनीवाली ( कुहू ) जननशांतिहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य वरदनामाग्निं प्रतिष्ठाप्य ग्रहानावाह्य संपूज्यान्वादध्यातू । समिदद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे सिनीवाली ( कुहू ) जननशांतिहोमे देवतापरिग्रहार्थमित्यादिचक्षुषी आज्येनेत्यंतमुक्त्वा । अत्र प्रधानं - आदित्यादिनवग्रहान् प्रत्येकं प्रतिद्रव्यं यथालाभमर्कादिसमित्तंडुलाज्याहुतिभिरष्टाष्टसंख्याभिः अधिदेवताः प्रत्यधिदेवताश्च प्रत्येकं प्रतिद्रव्यं चतुश्चतुः संख्याभिः पूर्वोक्तद्रव्याहुतिभिः, क्रतुसाद्गुण्यदेवताः क्रतुसंरक्षकदेवताश्च प्रत्येकं प्रतिद्रव्यं द्वाभ्यां द्वाभ्यां पूर्वोक्तद्रव्याहुतिभ्यां, ( यद्वा अधिदेवताः प्रत्यधिदेवताः क्रतुसाद्गुण्यदेवताः क्रतुसंरक्षकदेवताश्च एकैकया पूर्वोक्तद्रव्याहुत्या ) यक्ष्ये । पुनरत्र प्रधानंरुद्रं अश्वत्थप्लक्षपलाशखदिरसमिदाज्यतंदुलतिलसहितमाषयुतसर्षपद्रव्यैः प्रतिद्रव्यं अष्टोत्तरशतसंख्याहुतिभिरष्टाविंशतिसंख्याहुतिभिर्वा, इंद्रं पितृंश्च प्रत्येकं प्रतिद्रव्यं तैरेव द्रव्यैरष्टाविंशतिसंख्याहुतिभिः अष्टसंख्याभिर्वा, प्रजापतिं अष्टाविंशतिसंख्याभिस्तिलाहुतिभिर्यक्ष्ये । शेषेण स्विष्टकृतमित्यादिपर्युक्षणांतं कृत्वा पात्रासादने तंडुलस्थालीतिलमाषयुतसर्षपस्थालीप्रोक्षण्य इत्यादि आज्यभागांतं कृत्वा यजमानेन द्रव्यत्यागे कृते यथान्वाधानं स्थापनमंत्रैर्होमं कृत्वा स्विष्टकृदादि बलिदानांतं कृत्वा पूर्णाहुतिं हुत्वा शतच्छिद्रकलशगतैश्चतुः कलशोदकैर्ग्रहकलशोदकेन च यजमानमभिषिंचेत् । ततो यजमानः अद्येस्यादि स्मृत्वा कृतस्य सिनीवाली ( कुहू ) जननकर्मणः सांगतासिद्ध्यर्थं अग्निपूजनं देवतापूजनं आचार्यादिपूजनं च करिष्ये इति संकल्प्य अग्न्यादीन् संपूज्य आचार्याय गां गोनिष्क्रयीभूतं द्रव्यं वा दत्त्वा ऋत्विग्भ्यो दक्षिणां दत्त्वा देवतानामुत्तरपूजां विधाय यांतु देवेति विसृज्य पीठदानं कृत्वा श्रेयोग्रहणं ( पृ. १२ ) कृत्वा अग्निं विसृज्य आमान्नदानादिभिर्ब्राह्मणान् संतर्प्य यस्य स्मृत्येति कर्मेश्वरार्पणं कृत्वा‍ऽऽशिषो गृह्णीयात् । एवमेव कुहूजननशांतिः कार्या ॥ इति सिनीवालीकुहूजननशांतिः ॥   

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP