जननशांत्यादयः - गोमुखप्रसवशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्रादौ जननशांत्यादयः ।
॥ श्रीगणेशाय नमः ॥ ॥ इदानीं जन्मनक्षत्रतिथिदोषादिशांतयः । तत्प्रयोगा मयोच्यंते मूलग्रंथानुसारतः ॥ मात्ररिष्टे पित्ररिष्टे सुतारिष्टे तथैव च । प्रायश्चित्तं तदा कुर्यात्तत्तद्दोषस्य शांतये ॥ पूषाश्विनौ गुरौ सार्पमघाचित्रेंद्रमूलभे । एषु ऋक्षेषु जातस्य कुर्याद्गोजननं बुधः ॥
गोमुखप्रसवशांतिः
कर्ताऽऽचम्य शांतिपाठपठनपूर्वक देवब्राह्मणमित्रादीन्नत्वा संप्रार्थ्य च देशकालौ संकीर्त्य ममास्य  बालकस्यामुकनक्षत्रोत्पत्तिसूचितसर्वारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं गोमुखप्रसवशांतिं करिष्ये तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं आचार्यवरणं च करिष्ये इति संकल्प्य गणपतिं संपूज्य आचार्यं वृणुयात् । तत आचार्यः - देशकालौ स्मृत्वा ‘ अस्मिन् गोमुखप्रसवशांत्याख्ये कर्मणि यजमानेन वृतोऽहं आचार्यकर्म करिष्ये ’ इति संकल्प्य यदत्रसंस्थितमित्यादिमंत्राभ्यां सर्षपविकिरणं कृत्वा - शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः कविः शुचिर्गंगा कुर्वंत्वेते शुचि स्थलम् ॥ इति पंचगव्येन प्रोक्ष्य अपवित्रः पवित्रो वेति शुद्धोदकेन प्रोक्ष्य - एनोमुचंतार्क्ष्यमरिष्टनेमिं दैत्यघ्नमात्रेयमृभुक्षमित्रम् । कल्याणरुपं शरणं प्रपद्येऽभयं शिवं स्वस्ति स नस्तनोतु ॥ इति पठित्वा देवा आयांतु यातुधाना अपयांतु विष्णो देवयजनं रक्षस्व भूमौ प्रादेशं कुर्यात् । ततः श्वेतपंकजे यथाशक्ति व्रीहीन् निक्षिप्य तेषु शूर्पं निधाय शूर्पे रक्तवस्त्रं प्रसार्य तत्र तिलान् विकीर्य तत्र प्राड्मुखं शिशुं अवाक्पादं निधाय सूत्रेण शूर्पं वेष्टयित्वा शिशुसमीपे गोमुखमानीय प्रसवं भावयित्वा - विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरुपदैत्यांतं नमामि पुरुषोत्तमम् ॥ इति मंत्रेण मीलितपंचगव्येन शिशुं स्नापयित्वा ‘ गवामंगेषु तिष्ठंति भुवनानि चतुदर्श । यस्मात्तस्माच्छिवं मे स्यादिहलोके परत्र च ॥ इति मंत्रेण गोवामांगे सर्वांगेषु वा स्पृशेत् । ततः ‘ विष्णुं जिष्णुं ’ इति मंत्रेण आचार्यः शिशुमादाय मात्रे दद्यात् ततः माता पित्रे पिता मात्रे च दत्त्वा वस्त्रं प्रसार्य पुत्रमीक्षेत् । तत आचार्यः शिशुं पंचगव्येन ‘ अपवित्रः पवित्रो वा ’ इति मंत्रेणाभिषिंचेत् । ततः पिता - यस्मात्त्वमधिजातोसि ह्रदाघंगाच्छिशो मम । तस्मादात्मासि पुत्राख्यो भवायुष्माञ्छरच्छतम् ॥ इति मंत्रेण शिशुं मूर्धनि त्रिरवघ्राय मात्रे दत्त्वा पुण्याहं वाचयेदेवं - अस्य शिशोः गोमुखप्रसवशांत्याख्यकर्मणः पुण्याहं भवंतो ब्रुवंतु इत्यारभ्य श्रीरस्त्वित्यंतं पठित्वा इत्युक्त्वा विप्रान् वाचयेत्र यद्वा विधिवत्स्वस्तिवाचनं कुर्यात् । ततो गां आचार्याय अन्यस्मै दरिद्राय ब्राह्मणाय वा दत्त्वा ‘ ग्रहप्रीत्यर्थं गोवस्त्रस्वर्णधान्यदानानि करिष्ये ’ इति संकल्प्य तानि दत्त्वा यथाशक्ति भूयसीं दक्षिणां दद्यात् । तत आचार्यः अद्येत्यादि० गोमुखप्रसवशांतिहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य वरदनामानमग्निं प्रतिष्ठाप्य केवलान्नवग्रहान् स्थापयित्वाऽन्वादध्यात् । समिदद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे गोमुखप्रसव शांतिहोमे देवतापरिग्रहार्थमित्यादिक्षुषी आज्येनेत्यंतमुक्त्वा । अत्र प्रधानम् अपः द्वात्रिंशत्संख्याभिर्मीलितदधि मध्वाज्याहुतिभिः, विष्णुं अष्टसंख्याकाभिर्मीलितदधिमध्वाज्याहुतिभिः, यक्ष्माणं अष्टचत्वारिंशत्संख्याभिर्मीलित० नवग्रहान् प्रत्येकं मीलितदधिमध्वाज्यद्रव्येण एकैकयाहुत्या यक्ष्ये । शेषेण स्विष्टकृतमित्यादिपर्युक्षणांतं कृत्वा पात्रासादने दधिमध्वाज्यस्थालीप्रोक्षण्यावित्याद्याज्यभागांतं कृत्वा अग्नेरीशान्यां विधिवत्कलशं संस्थाप्य तत्र पूर्णपात्रोपरि विष्णुवरुणप्रतिमे स्थापयेत् । अद्येत्यादिपूर्वो० गोमुखप्रसवशांत्यंगभूतं
देवतास्थापनं करिष्ये । कौमोदकीपद्मशंखचक्रोपेतं चतुर्भुजम् । नमामि विष्णुं देवेशं कृष्णं गरुडवाहनम् । भो विष्णो इहागच्छेह तिष्ठ पूजां गृहाण वरदो भव विष्णवे नमः विष्णुं आवाहयामि ॥ तदुत्तरे - पाशहस्तं च वरुणं यादसां पतिमीश्वरम् । आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यताम् । वरुणेहागच्छेह० वरुणाय नमः वरुणमा० इत्यावाह्य ‘ विष्णुवरुणाभ्यां नमः ध्यायामि ’ इति षोडशोपचारैः संपूज्य कुंभं स्पृष्ट्वा इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ॥ इति मंत्रं अष्टोत्तरशतमष्टाविंशतिर्वा जपेत् ततो मीलितदधिमध्वाज्यहोमं कुर्यात् तदादौ यजमानस्त्यागं कुर्यात् । होममंत्राः स्त्रीरुपाः पाशकलशहस्ता मकरवाहनाः । श्वेता मौक्तिकभूषाढ्या आपस्ताभ्यो नमो नमः । अद्भ्यो नमः अद्भ्य इदं न मम इत्यपां ३२ आहुतयः ॥ विष्णु जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरुप दैत्यांतं नमामि पुरुषोत्तमम् ॥ विष्णवे नमः इति विष्णोः ॥ भो यक्ष्मघ्न महाभाग देवेंद्र सुरपूजित । दुर्योगजन्मसंभूतमरिष्टं हर ते नमः । यक्ष्महणे नमः० ॥ ततो नवग्रहान् हुत्वा स्विष्टकृदादिहोमशेषं समाप्य देवतानामुत्तरपूजां कृत्वा कलशोदकेन यजमानाभिषेकं कुर्यात् । ततो यजमान अद्येत्यादि० कृतस्य गोमुखप्रसवशांतिकर्मणः सांगतासिद्ध्यर्थं अग्निदेवताचार्यादीनां पूजां करिष्ये इति संकल्प्य अग्निं संपूज्य विभूतिं धृत्वा देवतापूजां कृत्वा आचार्यं संपूज्य तस्मै कृष्णां गां दद्यात् । तदभावे यथाशक्तिगोनिष्क्रयीभूतं द्रव्यं दत्त्वा श्रेयोग्रहणं कृत्वा यथाशक्ति भूयसीं दक्षिणां दत्त्वा यथाशक्तिब्राह्मणेभ्य आमान्नानि दत्त्वा यस्य स्मृत्येति कर्मेश्वरार्पणं कुर्यात् ॥ ॥ ॥ इति कृत्यदिवाकरे मध्यमांशौ गोमुखप्रसवशांतिप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP