वैशाखमास: - वैशाखस्नानम्‌

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


तत्रादौ वैशाखस्नानम्‌ । तत्प्रारम्भकालश्चैत्रशुक्लैकादश्यां पौणमास्यां  मेषसङ्क्रमणे वा । तत्रादौ सङ्कल्पमन्त्र:वैशाखं सकलं मासं मेषसङ्क्रमणे रवे: । प्रात: सनियम: स्नास्ये प्रीयतां मधुसूदन: ॥ मधुहन्तु: प्रसादेन ब्राह्मणानामनुग्रहात्‌ । निर्विघ्नमस्तु मे पुण्यं वैशाखस्नानमन्वहम्‌ ॥ माधवे मेषगे भानौ मुरारे मधुसूदन । प्रात: स्नानेन मे नाथ फलदो भव पापहम्‌ ॥ अयं मन्त्र: प्रथमदिन एव । देशकालौ स्मृत्वा ममानेकजन्मार्जितसमस्तपापक्षयपूर्वकश्रीमधुसूदनदेवताप्री० अमुकतीर्थे स्नानम० । अशक्त्तं प्रतिदिनत्रयं स्नानम्‌ । तत्र प्रथमदिनेऽयं मन्त्र:त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम्‌ । प्रात: सनियम: स्नास्ये प्रीयतां मधुसूदन: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP