संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पाञ्चरात्रागमः|प्रथमपरिच्छेदः| नवमोऽध्यायः प्रथमपरिच्छेदः प्रथमोध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - नवमोऽध्यायः 'पाञ्चरात्रागमः' एक उत्कृष्ट रचना. Tags : pancharatraपाञ्चरात्रागमःसंस्कृत नवमोऽध्यायः Translation - भाषांतर ॥ श्रीभगवानुवाच ॥भूम्यावरणमध्ये तु ब्रह्माण्डोत्पादनोचितम् ।योजनानां पञ्चविंशत्कोटिद्विगुणसम्मितम् ॥देशमुर्वरितं चक्रे भगवान् देशकालवित् ।असंसृष्टानि तत्वानि ब्रह्माण्डोर्ध्वगतानि च ॥अण्डं तदन्तर्निखिळं संसृष्टं परिकीर्तितम् ।विज्ञाननामको विष्णुः अहङ्कारस्य रक्षकः ॥.मनो हृषीकामात्रासु तत्तन्नामा रमापतिः ।आकाशवायुतेजस्तु प्राणनामाखिलेश्वरः ॥ अन्ननामा पृथिव्यां सः जलावरणगोपि च ।विशेषपृथिवी चाण्डद्विगुणावृत्तिरूपिका ॥ अबग्नीरनभोहङ्कृन्महत्तत्व गुणा इमे । सत्वाद्यावृत्तयोण्डोर्ध्वं स्थिताः क्ष्मावरणाः क्रमात् ॥दशोत्तराः प्रविज्ञेया तमसो द्विगुणं रजः ।रजसो द्विगुणं सत्वं ततो न प्राकृतं क्वचित् ॥पश्चादूर्ध्वप्रदेशे तु अनिरुद्धात्मको हरिः ।तस्माद्धशाधिकतनुः सोप्यावरणरूपकः ॥ततो दशाधिकौ प्रद्युम्नसङ्कर्षणनामकौ ।वासुदेवस्तदूर्ध्वस्थस्तद्धशांशाधिको मतः ॥ततोप्यनन्तगुणिकाऽनन्तानन्त प्रदेशके ।लक्ष्मीनारायणौ व्याप्तौ मर्यादा न तयोः क्वचित् ॥श्रीर्देशकालतोनन्तागुणानन्ता न हि क्वचित् ।अनिरुद्धात् प्रथमतो ऋजुभिस्त्वपरोक्षिभिः ॥सह पूर्वोक्तकालेन जातौ द्वौ भार्ययायुतौ ।त्रिरूपकौ ब्रह्मवायू त्रिगुणावृत्तिगौ क्रमत् ॥तेषां सत्वाद्या वृत्तयः स्थूलदेहाः प्रकीर्तिताः ।ततोनिरूद्धसूक्ष्मदेहाज्जातौ विधीरणौ ॥स ऋजूकौ चतुर्वारं महत्तत्वगतौ मतौ ।तेषां महत्तत्वमेव स्थूलदेहं वदन्ति हि ॥तत स्त्रिरूपौ स ऋजू तौ द्वौ शान्तीशजौ क्रमात् ।त्रिविधाहङ्कृतिगतौ स भार्यौ स ऋजू उभौ ॥एकविंशद्वारजातौ मनस्तत्वादितत्वगौ ।अपरोक्षिणाम् ऋजूनां च शतस्याण्डाद्बहिर्जनिः ॥एवं रुद्रादि तत्वेशाः स्वसंख्या नियमोचिताः ।अण्डाद्बहिः सृष्टियोग्याः दृष्टेशाः नेतरे क्वचित् ॥एवं त्रिरूपतो जाताः प्राक्शान्तीशेन कालतः ।सूक्ष्मेण ऋजुजन्मानन्तरं शेषादयस्त्रयः ॥षण्णीलाद्याः कालयोगात् सापर्ण्याद्याः क्रमेण तु ।अजेशाजेरशेष्यैस्तु अजेराभ्यां स्त्रिभिः स्त्रिभिः ॥ रूपैरहङ्कारतत्वात्मकस्थूलशरीरिणः ।बभूवुरितरेषां तु पदयोग्यापरोक्षिणः ॥ते तथैव महत्तत्वाद्येकविंशति तत्वके ।तावद्रूपैस्सूक्ष्मतत्वाजातौ प्रागनिरूद्धतः ॥मन आदीनि तत्वानि स्थूलदेहानि भेजिरे ।इन्द्रादि पुष्करान्ताश्च सूक्ष्मतत्वानिरुद्धजाः ॥एकविंशद्वारतस्ते आसन् चित्तादि तत्वगाः ।तानि स्थूलादि तत्वानि तेषाम् आसन् क्रमेण हि ॥प्राक्शान्तीशोत्थितेन्द्राद्याः मनस्थूलशरीरिणः ।द्वित्र्यब्दिपञ्चषड्वारं जाताः श्रोत्रादितत्वगाः ॥सप्ताषटनवदिग्रुद्रवारजाताः क्रमेण तु ।इन्द्रादयः पुष्करान्ताः वागादि स्थूलदेहकाः ॥ततश्च पञ्चवारोत्थाः प्राक्शान्तीशेन कालयोगतः ।शब्दादि स्थूलदेहेताः ततो जातास्तु द्वादिगाः ॥अत्रोक्तानां सुराणान्तु यादृशस्थूलदेहतः ।भावीनां च पदस्थानां तद्वशे स्थितिरिष्यते ॥अनिरुद्धः सूक्ष्मकर्ता प्रागेषामुचितस्थळम् ।प्राप्यैव सृष्टिमकरोद्धेशकालार्थतत्ववित् ॥सर्वतत्वस्थितानान्तु ऋजूनां सूक्ष्मदेहगाः ।सत्वाणवो दशगुणाधिका यान्ति च सर्वशः ॥रजस्तमोणवः पादमात्रतो यान्ति चोन्नतिम् ।बहुवारजातरुद्रेन्द्रादि सूक्ष्मशरीरगाः ॥सत्वाणवस्समाश्चोपाश्चोपचितास्तथा ।रजस्तमोणवो रुद्रशक्रादिसुरसूक्ष्मगाः ॥द्वित्र्यब्धिपञ्चषट्सप्ताष्ट धर्मशिवार्ककैः ।भागतोविंशदन्तैर्वृद्धिं यास्यन्ति वै क्रमात् ॥तेनैव तत्कारणेन पूर्वपूर्वोक्त कारणैः ।उत्तरोत्तररूपेषु बुद्धिमान्द्यादि चेष्यते ॥महदादिषु चाण्डोर्ध्वं दैत्यावेशादि नेष्यते ।यथा सूक्ष्मशरीरेषु अभिवृद्धं रजस्तमः ॥भवत्तेषां तथा प्रोक्तं स्थूलदेहेष्वपि स्फुटम् ।रजस्तमोणवो व्यक्तिं यास्यन्त्येव ततः क्रमात् ॥तत्वानि पूर्वरूपाणि सन्त्यनन्तानि तानि तु ।ऋजवः सर्वतत्वेषु प्रतिभातपरावराः ॥सभार्या नीचोच्चसर्वतत्वेषु संस्थिताः ।रजस्तमोणूपचयाधिक्याद्बुद्धिविपर्ययम् ॥नैव यास्यन्ति ते सर्वे हरेः प्रियतमास्सदा ।ब्रह्मासरस्वतीविष्णोः सर्वाङ्गैः सम्भवन्ति हि ॥वामनाड्युत्थितौ शेषविपौ विष्णोः शिवस्तथा ।नीलाद्यावारुणी पूर्वाः इन्द्रकामौ मनोभवौ ॥सभार्यौ च गुरुर्बुद्धेः मनुराद्योह्युपस्थतः । दक्षोङ्गुष्टात् कामपुत्रः मनवः कामपूर्वकाः ॥मरुतः श्वासतः सूर्यः चक्षुषः चन्द्रमा श्रुतेः ।धर्मो हृदः सभार्यश्च वरुणो रसनोत्थितः ॥भृगुस्त्वचोग्निर्मुखतः जातान् मेढ्रान् मनुर्गतेः । विश्वामित्रमरीच्याद्याः मित्रोपानाच्चनैरुतः ॥ स्कन्दाद्भवगणपतिः शम्भुजयन्तौ नाभिपादयोः ।नासत्यौ नासिकाभ्यन्तु विश्वक्सेनो मुखादभूत् ॥.पद्भ्यान्तु ऋभवः कण्ठाद्धिग्देवास्तु कर्मजाः ।रुद्राः कपोलाल्ललाटाच्च वसवत्स्विच्छया विभोः ॥आदित्यास्तु प्रकाशोत्था दन्तपङ्क्तिस्थिता अपि । सनकाद्या मनोजाता जयाद्यानाभि पार्श्वतः ॥गङ्गादि नद्यो नाडिभ्यः पादाङ्गुष्टादिभिः प्रभोः ।अनुक्ततात्विकास्सर्वे कटाक्षोत्था बुधामताः ॥शनिः शरीरतः पुष्कराद्या कर्मेन्द्रियोद्भवाः ।अनुक्तदेवताभार्याः भर्तृभिः सहसम्भवाः ॥एते ह्यशेषतत्वेषु तत्वस्थित हरीरयोः । प्रोक्त्यैरङ्गैः क्रमाज्जातः वसन्ति ह्यभिमानिनः ॥सृष्टावेवं बहिश्चाण्डान् मुक्तावेवं हरेर्वशः ।जातौ जातौ हि यस्तस्मात् कामस्तुद्गतिस्सुतः ॥चण्डो जयाद्या द्वारस्थाः शशाङ्को धनपस्तथा ।गन्धर्वपतयस्सर्वे जातिष्वपि च तात्विकाः ॥पुष्करोच्चा बुधोच्चास्तु अनुक्तास्ते प्रकीर्तिताःएवं शेषस्य भागोत्था बहिरण्डात्समस्तशः ।नवकोट्यो हि देवानां सत्वतत्वाभिमानिनः ॥अजो विपस्ततो नीलाद्विषट्कविपवल्लभा ।तत इन्द्रश्शशी तस्मात् प्राणाद्या मारुतोखिलाः ॥इन्द्राद्दक्षस्ततो देवर्षयो वै नारदादयः ।इन्द्राद्गुरुस्ततो सूर्यः जयौ विघ्नप्रभुस्ततः ॥अभवंश्च स्मृतासूर्यादग्निरग्नेस्तु रुद्रकाः ।आदित्यावसवो विश्वाप्याश्वनौ रक्षसाधिपः ॥पर्जन्य बुधशन्याद्याः पुष्करान्ताः समुत्थिताः ।वसन्ति सर्वतत्वेषु गरुत्मान् मार्गदेवताः ॥उत्तमानां च गुरवः नीचा उत्तमसेवकाः ।॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे नवमोऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP