प्रथमपरिच्छेदः - पञ्चमोऽध्यायः

'पाञ्चरात्रागमः' एक उत्कृष्ट रचना.


॥ श्रीहंस उवाच ॥
ज्ञानेन्द्रियाणि पञ्चानि पञ्चकर्मेन्द्रियाणि च ।
रजोभागगतान्येषु श्रोत्रमाद्यं विशिष्यते ॥
श्रावणास्याद्यभक्तेस्तु साधकत्वाद्गुणाधिकम् ।
त्वक्चर्मगोळके सर्वदेहगे समु(पाश्रिता)पस्थिता ॥
कुष्ठभङुरपामाद्याः त्वक्दोषाः परिकीर्तिताः ।
अव्यक्तादि स्पर्शदोषशून्याः शीतोष्णपूर्वकाः ॥
 स्पर्शास्तद्विषयाः प्रोक्ताः वायुतेजोम्बुभूमयः ।
पदार्थाः केचनगुणाः सत्वगिन्द्रियगोचराः ॥
त्वक्स्पर्शौ प्रकृतिस्थौ द्वौ नित्यौ स्थूलावनित्यकौ ।
तज्जन्यौ प्राकृतौ वायुसंश्रयौ नश्वरौ मतौ ॥
इन्द्रियाणान्तु विषयाः गुणामात्राः प्रकीर्तिताः ।
ज्ञानात्मकानां ते सर्वे द्विविधाः परिकीर्तिताः ॥
विष्णुवैष्णवसेवायै अनुकूलाश्शुभा मताः ।
अशुभाः प्रतिकूलाश्च पुनस्ते त्रिविधा मताः ॥
मुक्तियोग्याश्रिता नित्याः नित्यसृतिषु मध्यमाः ।
तमोयोग्याश्रिता नीचास्तत्तद्योग्यसुसाधनैः ॥
नीचमध्योत्तमस्थानप्रापकाः क्रमयोगतः ।
जीवस्वरूपभूतानि मनोमात्रेन्द्रियाणि च ॥
तत्स्वरूपाणि नित्यानि उत्तमेषु शुभान्यपि ।
उत्तमा मुक्तियोग्यास्तु नित्यबद्धास्तु मध्यमाः ॥
अधमास्तु तमोयोग्याः मनोमात्रादयस्तथा ।
स्वारूपिकाश्चलिङ्गस्थाः अनित्याः स्थूलदेहगाः ॥
विष्णोरमायाब्रह्मादि मुक्तानां क्रमयोगतः ।
मनोमात्रेन्द्रियज्ञानसुखधैर्यबलादयः ॥
स्वरूपाण्येवविष्णोस्तु नित्यव्याप्तानि कृत्स्नशः ।
स्वतन्त्राणि स्वतन्त्रस्य पुरुषस्य महात्मनः ॥
स्वस्वरूपस्थितौ यस्य ज्ञानेकर्मण्यपि स्फुटम् ।
सर्वस्वरूपचेष्टासु परापेक्षा न यस्य हि ॥
स स्वन्तन्त्र इति प्रोक्तः स विष्णुर्नेतरः क्वचित् ।
अव्यक्ततत्कार्यमय देहशून्यारमापि हि ॥
तच्चित्तेन्द्रियमात्रास्तु नित्या व्याप्ता स्वरूपका ।
विष्ण्वैकवशगास्तस्याः हर्यपेक्षासदस्ति हि ॥
परापेक्षयुतत्वात्सा अस्वतन्त्रा प्रकीर्तिता ।
ब्रह्मादिमुक्तामुक्तानाम् अस्वतन्त्र्यमनादितः ॥
सिद्धमेव स्वरूपे च ज्ञाने कर्मण्यपि स्फुटम् ।
नीचानीचस्वरूपाणाम् उत्तमोत्तमचेतसाम् ॥
प्रसादतः प्रवृत्तिर्हि ज्ञानभक्त्यादि चाखिलम् ।
ज्ञानाज्ञानतमोमोक्षाः नित्यानित्यजडस्य च ॥
नोत्पत्तिनाशौ जीवानां त्रिविधानां समस्तशः ।
स्वरूपदुःखद्वेषेर्ष्या चिन्तासन्तापपूर्वकाः ॥
न मुक्तानां देहयोगो यावत्तेषां भयादिकम् ।
भयादीनि च योग्येभ्यः उत्तमेष्वल्पमेव च ॥
ज्ञानं मुक्तिरयोग्यस्य न च स्वप्नेपि दृश्यते ।
स्वरूपाज्ञानतमसी योग्यानां न कदाचन ॥
सृष्टिं स्थितिं संहृतिं च नियतिं जगतोस्य तु ।
ज्ञानाज्ञाने तमोमोक्षौ विष्णुनैव विदो विदुः ॥
ब्रह्मादीनां स्वरूपन्तु अत्यन्ताणुतमं मतम् ।
तदिन्द्रियाणि सूक्ष्माणि सूक्ष्माण्येव स्थिराणि तु ॥
चक्षुर्गोलकगं नेत्रं रूपग्राह्यमतीन्द्रियम् ।
नित्यमव्यक्तगं स्थूलमनित्यं जन्यमक्षि च ॥
स्वरूपनेत्रकलितं नित्यानित्ये अक्षिणी उभे ।
ज्ञानप्रदे साक्षिसंज्ञे सर्वस्वारूपकेन्द्रियम् ॥
उक्तानां वक्ष्यमाणानाम् इन्द्रियाणां समग्रशः ।
स्वारूपेन्द्रियसाहाय्यं विना शक्तिर्नविद्यते ॥
वृद्धिं हानिं च लभते गुणैर्दोषैः स्वरूपतः ।
साक्षीन्द्रियन्तु योग्यानां स्वोत्तमद्रोहतां विना ॥
तत्रापीषत्कुतश्चित्तु तत्सर्वं कुण्ठितं भवेत् ।
पटलं कामिला काचः प्रतिदीधिति सङ्गतिः ॥
नेत्ररोगं व्रणाद्याश्च पैत्यप्रतिहतास्तथा ।
अक्षिभ्रमणशैत्याद्याः नेत्रदोषाः प्रकीर्तिताः ॥
आरस्थत्वं दूरगत्वं सौक्ष्मं च व्यवधानतः ।
स्थितिः समानाभिघातः अर्थदोषाः प्रकीर्तिताः ॥
निर्दोषविषया ये च निर्दोषेक्षणगोचराः ।
शुक्लं रक्तं श्वेतपीतहरितादीनि कृत्स्नशः ॥
चित्रादीनि स्वरूपाणि चक्षुषो विषयाणि च ।
उद्भूतरूपसंयुक्ताः तेजोवार्भूमयात्मका ॥
चक्षुषो विषयाः प्रोक्ताः केचित्सूर्योदयोऽमराः ।
जिह्वा गोळकगं प्राहुः रसनेन्द्रियमुत्तमम् ॥
अतीन्द्रियमरुच्याद्यास्तद्धोषास्फोटकादयः ।
कषायश्च कटुस्तिक्तः लवणो मधुराम्लकौ ॥
तथा चित्ररसश्चेति रसनेन्द्रियगोचराः ।
दोषहीनस्य च रसज्ञानं जनयति स्फुटम् ॥
ज्ञानं जनयति क्षिप्रं प्राकृतंप्रकृतिस्थितम् ।
दुष्टा पर्युषिता यामहीना पूतियुता रसाः ॥
सदोषा रससम्बन्धे रसना ज्ञानदा न हि ।
भूमयाम्मया अर्थाः रसनेन्द्रियगोचराः ॥
घ्राणगोळकगं प्रोक्तं नासिकेन्द्रियमूर्जितम् ।
पीनसाद्याः घ्राणदोषाः गन्धग्राहेन्द्रियं मतम् ॥
व्यामिश्राद्याः दोषभागाः गन्धदोषाः प्रकीर्तिताः ।
वक्त्रगोळकगं प्रोक्तं वागिन्द्रियमतीन्द्रियम् ॥
नित्यानित्यवचांस्तस्य सत्यासत्यवचांसि च ।
वचांसि युक्तायुक्तानि गीर्वाणप्राकृतानि च ॥
मूकत्वादि महादोषहीनवाग्गोचराणि च ।
गद्गदत्वाऽस्पष्टताद्याः वाग्दोषाः परिकीर्तिताः ॥
हस्तगोळकगं प्राहुः पाणीन्द्रियमतीन्द्रियम् ।
व्यङ्गुलत्वादयस्तस्य दोषाः निर्दोषामिन्द्रियम् ॥
गृह्णातीह परत्रापि यद्धितः स्वात्मनः सदा ।
भूमयारत्नहेमाद्या बह्वर्था विषयामताः ॥
अश्मयाश्च तथाभावाः हस्तयोर्विषयामताः ।
कण्टकोच्छिष्टपाषाणवृश्चिकाद्या अनिष्टदाः ॥
हेया अर्थाश्च हस्ताभ्यां परित्याज्याः सदा मताः ।
सानिष्टदं हितकरं हस्तयोर्हितदं मतम् ॥
अङ्घ्रिगोळकगं प्राहुः पादेन्द्रियमलं बुधाः ।
पङ्गुत्वाद्याः अङ्घ्रिदोषाः निर्दोषगतिसाधनम् ॥
स्वारूपिगं प्रकृतिगं प्राकृतं त्रिविधं मतम् ।
येनेन्द्रियेण यत्कर्मक्रियते साधुभिस्सदा ॥
तत्तस्य विषयः प्रोक्तः तन्नामेन्द्रिय गोचरम् ।
पक्वापक्वं च भुक्तं च वातं जीर्णं च कुक्षिगम् ॥
कालेन विपरीतन्तु शकृदित्युच्यते बुधैः ।
तादृगर्थोत्सर्गसंज्ञो पायोर्विषयमीरितम् ॥
भगन्धरादयो मूलव्रणाद्याः पायुसंस्थिताः ।
दोषाः निरोधातिसाराः पायोर्न यदि कार्यकृत् ॥
स्त्रीपुंसोर्भगमेढ्रादि गोळकस्थं ह्यतीन्द्रियम् ।
उपस्थशिश्नसंज्ञे द्वे इन्द्रिये दोषवर्जिते ॥
रत्युत्सृतौ प्रभवतः असृक्शुक्लाश्रयौ मतौ ।
मेहव्रणाद्याः तद्धोषाः निर्दोषं स्वार्थसाधकम् ॥
प्रकृतं प्राकृतं चैव स्वरूपेन्द्रिय संयुतम् ।
अर्थक्रियाकारि तद्धि नान्यथा भवति ध्रुवम् ॥
ज्ञानेन्द्रियाणि पञ्चापि पञ्चकर्मेन्द्रियाणि च ।
रजः परिच्छेदगानि भिन्नशक्तियुतानि च ॥
ज्ञानेन्द्रियाणां विषयाः क्रमाच्छब्दादयोमताः ।
शब्दस्पर्शारूपरसगन्धास्ते च गुणामताः ॥
मात्रातमः परिच्छेद पञ्चभूतान्तरामताः ।
भूतानि मात्रा गर्भेषु लीनाहुर्मनीषिणः ॥
भावरूपाज्ञानगतं पञ्चकं गुणगर्भकम् ।
मात्रासु लीनभूतेषु संस्थितं भावपञ्चकम् ॥
तमोमोहमहामोहतामिश्रान्धतामिस्रकाः ।
तमः शब्दगतं प्राहुः मोहः स्पर्शगतो मतः ॥
महामोहो रूपगतः तामिश्रो रसगोमतः ।
गन्धे अन्धतामिस्राख्यस्त एते भावरूपकाः ॥
एतानि प्रकृतिस्थानि नित्याण्यणुतराणि च ।
स्थूलानि भूतव्यक्तानि अनित्यान्यामनन्ति हि ॥
जीवस्वरूपं नैवते तद्विभिन्नं लिङ्गदेहगम् ।
जीवस्वरूपविज्ञानाच्छादकं परिकीर्तितम् ॥
तत्साधनाद्व्यञ्जमानस्वरूपज्ञानबाधकम् ।
तमः स्वरूपज्ञानस्य विपरीतप्रवर्तकम् ॥
यो मोहः स उपदेशेपि महामोहोऽनिवर्तयेत् ।
विद्वेषकारणं प्राहुः तामिश्रमुपदेष्टृषु ॥
कुयुक्तिभिः क्वागम्यैश्च गाढाज्ञानैकसाधनम् ।
अन्धतामिश्रसंज्ञाख्यम् अनाद्यज्ञानमीरितम् ॥
अनादिकालमारभ्यानन्तानन्ताणुमात्रकाः ।
केशाद्यायुततुल्याल्पस्वरूपाह्यात्मगोचराः ॥
तत्तत्स्वरूपकाकार हरिणाबिम्बरूपिणा ।
रक्षिताः प्रलये सृष्टा नित्यं तदनपायिना ॥
एतत्कल्पादिभावीनां तत्तकल्पेषु वै क्रमात् ।
सृज्याः विलक्षणास्तुल्याः अतुल्यास्त्रिविधात्मकाः ॥
जीवाः अनादितः सर्वेप्यस्वतन्त्रा रमावशाः ।
प्रकृत्यात्मकलिङ्गेन बद्धाः श्रीहरिकुक्षिगाः ॥
लये सृष्टौ हरिस्सृष्टाः अण्डाद्बहिरथान्तरे ।
सात्विकानीचमध्याश्च अन्तः सृज्या अतात्विकाः ॥
निरंशामर्त्यगन्धर्वपूर्वाः सर्वे तृणान्तिकाः ।
योग्या नित्यसृतिस्थाश्च तमो योग्याश्च कृत्स्नशः ॥
सर्वेपि लिङ्गसम्बद्धा ये ते जीवा न चान्यथा ।
तेपि पूर्वानन्तकाल्पेष्वेवं स्वोचित साधनैः ॥
मुक्ताः मध्यास्तमः‡ प्राप्ताः सन्ति श्रीहरिगर्भगाः ।
नैषां क्वापि क्वचित्पूर्तिर्भविता नियमाद्धरेः ॥
॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चमोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP