अधिकरणम् ६ - अध्यायः ४

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


वर्तमानं निष्पीडितार्थं उत्सृजन्ती पूर्वसंसृष्टेन सह सन्दध्यात् ॥१॥

स चेदवसितार्थो वित्तवान्सानुरागश्च ततः सन्धेयः ॥२॥

अन्यत्र गतस्तर्कयितव्यः । स कार्ययुक्त्या षड्विधः ॥३॥

इतः स्वयं अपसृतस्ततोऽपि स्वयं एवापसृतः [१] ॥४॥

इतस्ततश्च निष्कासितापसृतः [२ ।] ॥५॥

इतः स्वयं अपसृतस्ततो निष्कासितापसृतः [३] ॥६॥

इतः स्वयं अपसृतस्तत्र स्थितः [४] ॥७॥

इतो निष्कासितापसृतस्ततः स्वयं अपसृतः [५] ॥८॥

इतो निष्कासितापसृतस्तत्र स्थितः [६] ॥९॥

इतस्ततश्च स्वयं एवापसृत्योपजपति चेदुभयोर्गुणानपेक्षी चलबुद्धिरःसन्धेयः [१] ॥१०॥

इतस्ततश्च निष्कासितापसृतः स्थिरबुद्धिः । स चेदन्यतो बहु लभमानया निष्कासितः स्यात्सःसारोऽपि तया रोषितो ममाःमर्षाद्बहु दास्यतीति संधेयः [२अ] ॥११॥

निःसारतया कदर्यतया वा त्यक्तो न श्रेयान्[२ब्] ॥१२॥

इतः स्वयं अपसृतस्ततो निष्कासितापसृतो यद्यतिरिक्तं आदौ च दद्यात्ततः प्रतिग्राह्यः [३] ॥१३॥

इतः स्वयं अपसृत्य तत्र स्थित उपजपंस्तर्कयितव्यः ॥१४॥

विशेषार्थी चागतस्ततो विशेषं अःपस्यन्नागन्तुकामो मयि मां जिज्ञासितुकामः सा आगत्य सानुरागत्वाद्दास्यति । तस्यां वा दोषान्दृष्ट्वा मयि भूयिष्ठान्गुणानधुना पश्यति स गुणदर्शी भूयिष्ठं दस्याति [४अ] ॥१५॥

बालो वा नैकत्रदृष्टिरतिसंधानप्रधानो वा हरिद्रारागो वा यत्किंचनकारी वेत्यवेत्य संदध्यान्न वा [४ब्] ॥१६॥

इतो निष्कासितापसृतस्ततः स्वयं उपसृत उपजपंस्तर्कयितव्यः ॥१७॥

अनुरागादागन्तुकामः स बहु दास्यति । मम गुणैर्भावितो योऽन्यस्यां न रमते [५अ] ॥१८॥

पूर्वं अःयोगेन वा मया निष्कासितः स मां शीलयित्वा वैरं निर्यातयितुकामो धनं अभियोगाद्वा मयास्यापहृतं तद्विश्वास्य प्रतीपं आदातुकामो निर्वेष्टुकामो वा मां वर्तमानाद्भेदयित्वा त्यक्तुकाम इत्यःकल्याणबुद्धिरःसन्धेयः [५ब्] ॥१९॥

अन्यथाबुद्धिः कालेन लम्भयितव्यः [५च्] ॥२०॥

इतो निष्कासितस्तत्र स्थित उपजपन्नेतेन व्याख्यातः [६] ॥२१॥

तेषूपजपत्स्वन्यत्र स्थितः स्वयं उपजपेत् ॥२२॥

व्यालीकार्थं निष्कासितो मयासावन्यत्र गतो यत्नादानेतव्यः ॥२३॥

इतः प्रवृत्तसंभाषो वा ततो भेदं अवाप्स्यति ॥२४॥

तदर्थाभिघातं करिष्यति ॥२५॥

अर्थागमकाले वास्य । स्थानवृद्धिरस्य जाता । लब्धं अनेनाधिकरणम् । दारैर्वियुक्तः पारतन्त्र्याद्व्यावृत्तः । पित्रा भ्रात्रा वा विभक्तः ॥२६॥

अनेन वा प्रतिबद्धं अनेन सन्धिं कृत्वा नायकं धनिनं अवाप्स्यामि ॥२७॥

विमानिता वा भार्यया तं एव तस्यां विक्रमयिष्यामि ॥२८॥

अस्य वा मित्रं मद्द्वेषिणींसःपत्नीं कामयते तदमुना भेदयिष्यामि ॥२९॥

चलचित्ततया वा लाघवं एनं आपादयिष्यामीति ॥३०॥

तस्य पीठमर्दादयो मातुर्दौःशील्येन नायिकायाः सत्यप्यनुरागे विवशायाः पूर्वं निष्कासनं वर्णयेयुः ॥३१॥

वर्तमानेन चाःकामायाः संसर्गं विद्वेषं च ॥३२॥

तस्याश्च साभिज्ञानैः पूर्वानुरागैरेनं प्रत्यापयेयुः ॥३३॥

अभिज्ञानं च तकृतोपकारसंबद्धं स्याद् ॥३४॥

५६ इति विशीर्णप्रतिसंधानम्((१७२)) ।

अःपूर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान् । स हि विदितशीलो दृष्टरागश्च सूपचारो भवतीत्याचार्याः ॥३५॥

पूर्वसंसृष्टः सर्वतो निष्पीडितार्थत्वान्नात्यःअर्थं अर्थदो दुःखं च पुनर्विश्वासयितुम् । अःपूर्वस्तु सुखेनानुरज्यत इति वात्स्यायनः ॥३६॥

तथापि पुरुषप्रकृतितो विशेषः ॥३७॥

भवन्ति चात्र श्लोकाः ॥३८॥

वन्यां भेदयितुं गम्यादन्यतो गम्यं एव वा । स्थितस्य चोपघातार्थं पुनः संधानं इष्यते ॥३८॥

व्बिभेत्यन्यस्य संयोगाद्व्यालीकानि च नेक्षते । अतिःसक्तः पुमान्यत्र बयाद्बहु ददाति च ॥३९॥

वःसक्तं अभिनन्देत सक्तं परिभवेत्तथा । अन्यदूतानुपाते च यः स्यादतिःविशारदः ॥४०॥

व्तत्रोपयायिनं पूर्वं नारी कालेन योजयेत् । भवेच्चाःच्छिन्नसंधाना न च सक्तं परित्यजेत् ॥४१॥

व्सक्तं तु वशिनं नारी संभाव्याप्यन्यतो व्रजेत् । ततश्चार्थं उपादाय सक्तं एवानुरञ्जयेत् ॥४२॥

वायतिं प्रसमीक्ष्यादौ लाभं प्रीतिं च पुष्कलाम् । सौहृदं प्रतिसंदध्याद्विशीर्णं स्त्री विचक्षणा((१७३)) ॥४३॥

इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे विशीर्णप्रतिसंधानं चतुर्थोऽध्यायः ॥पञ्चमोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP