अधिकरणम् ६ - अध्यायः १

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


वेश्यानां पुरुषाधिगमे रतिर्वृत्तिश्च सर्गात् ॥१॥

रतितः प्रवर्तनं स्वाभाविकं कृत्रिमं अर्थार्थम् ॥२॥

तदपि स्वाभाविकवद्रूपयेत् ॥३॥

कामपरासु हि पुंसां विश्वासयोगात् ॥४॥

अःलुब्धतां च ख्यापयेत्तस्य निदर्शनार्थम् ॥५॥

न चानःउपायेनार्थान्साधयेदायतिसंरक्षणार्थम् ॥६॥

नित्यं अलङ्कारयोगिनी राजमार्गावलोकिनी दृश्यमाना न चातिवृत्ता तिष्ठेत् । पण्यसः धर्मत्वात् ॥७॥

यैर्नायकं आवर्जयेदन्याभ्यश्चावच्छिन्द्यादात्मनश्चानःअर्थं प्रतिकुर्यादर्थं च साधयेन्न च गम्यैः परिभूयेत तान्सहायान्कुर्यात् ॥८॥

ते त्वारक्षकपुरुषा धर्माधिकरणस्था((१६१)) दैवज्ञा विक्रान्ताः शूराः समानविद्याः कलाग्राहिणः पीठमर्दवीटविदूषकमालाकारगान्धिकशौण्डिकरजकनापित भिक्षुकास्तेच ते च कार्ययोगात् ॥९॥

केवलार्थास्त्वमी गम्याः ण् स्वतन्त्रः पूर्वे वयसि वर्तमानो वित्तवानःपरोक्षवृत्तिरधिकरणवानःकृच्छ्राधिगतवित्तः । संघर्षवान्सन्ततायः सुभगमानी श्लाघनकः पण्डकश्((१६२)) च पुंशब्दार्थी । समानस्पर्धी स्वभावतस्त्यागी । राजनि महामात्रे वा सिद्धो दैवप्रमाणो वित्तावमानी गुरूणां शासनातिगः सःजातानां लक्ष्यभूतः सःवित्त एकपुत्रो लिङ्गी प्रच्छन्नकामः शूरो वैद्यश्चेति ॥१०॥

प्रीतियशोऽर्थास्तु गुणतोऽधिगम्याः ॥११॥

महाकुलीनो विद्वान्सर्वसमयज्ञः कविराख्यानकुशलो वाग्मी प्रगल्भो विविधशिल्प ज्ञो वृद्धदर्शी स्थूललक्षो महोत्साहो दृढभक्तिरनःअसूयकस्त्यागी मित्रवत्सलो घटागोष्ठीप्रेक्षणकसमाजसमस्याक्रीडनशीलो नीरुजोऽःव्यङ्गशरीरः प्राणवानःमद्यपो वृषो मैत्रः स्त्रीणां प्रनेता लालयिता च । न चासां वशगः स्वतन्त्र वृत्तिरःनिष्ठुरोऽनःईर्ष्यालुरनःअवशङ्की चेति नायकगुणाः ॥१२॥

नायिकायाः पुना रूपयौवनलक्षणमाधुर्ययोगिनी गुणेष्वनुरक्ता न तथार्थेषु प्रीतिसंयोगशीला स्थिरमतिरेकजातीया विशेषार्थिनी नित्यं अःकदर्यवृत्तिर्गोष्ठीकलाप्रिया चेति नायिकागुणाः ॥१३॥

नायिका पुनर्बुद्धिशीलाचार आर्जवं कृतज्ञता दीर्घदूरदर्शित्वं अःविसंवादिता देशकालज्ञता नागरकता दैन्यातिहासपैशुन्यपरिवादक्रोधलोभस्तम्भचापल वर्जनं पूर्वाभिभाषिता कामसूत्रकौशलं तदङ्गविद्यासु चेति साधारणगुणाः ॥१४॥

गुणविपर्यये दोषाः ॥१५॥

क्षयी रोगी कृमिशक्र्द्वायसास्यः प्रियकलत्रः परुषवाक्कदर्यो निर्घृणो गुरुजनपरित्यक्तः स्तेनो दम्भशीलो मूलकर्मणि प्रसक्तो मानापमानयोरनःअपेक्षी द्वेष्यैरप्यर्थहार्यो विलज्ज इत्यःगम्याः ॥१६॥

रागो भयं अर्थः संघर्षो वैरनिर्यातनं जिज्ञासा पक्षः खेदो धर्मो यशोऽनुकम्पा सुहृद्वाक्यं ह्रीः प्रियसादृश्यं धन्यता रागापनयः साजात्यं साहवेश्यं सातत्यं आयतिश्च गमनकारणानि भवन्तीत्याचार्याः ॥१७॥

अर्थोऽनःअर्थप्रतीघातः प्रीतिश्चेति वात्स्यायनः ॥१८॥

अर्थस्तु प्रीत्या न बाधितः । अस्य प्राधान्यात् ॥१९॥

भयादिषु तु गुरुलाघवं परीक्ष्यं ॥२०॥

५०इति सहायगम्यागम्य[गमन]कारणचिन्ता((१६३)) ।

(प्रकरण)५१

उपमन्त्रितापि गम्येन सहसा न प्रतिजानीयात् । पुरुषाणां सुःलभावमानित्वात् ॥२१॥

भावजिज्ञासार्थं परिचारकमुखान्संवाहकगायनवैहासिकान्गम्ये तद्भक्तान्वा प्रणिदध्यात् ॥२२॥

तदःभावे पीठमर्दादीन् । तेभ्यो नायकस्य शौचाःशौचं रागापरागौ सक्ताःसक्ततां दानाःदाने च विद्यात् ॥२३॥

संभावितेन च सह विटपुरोगां प्रीतिं योजयेत् ॥२४॥

लावककुक्कुटमेषयुद्धशुकशारिकाप्रलापनप्रेक्षणककलाव्यपदेशेन पीठमर्दो नायकं तस्या उदवसितं आनयेत् ॥२५॥

तां वा तस्य ॥२६॥

आगतस्य प्रीतिकौतुकजननं किं चिद्द्रव्यजातं स्वयं इदं अःसाधारणोपभोग्यं इति प्रीतिदायं दद्यात् ॥२७॥

यत्र च रमते तया गोष्ठ्यैनं उपचारैश्च रञ्जयेत् ॥२८॥

गते च सःपरिहासप्रलापां सोपायनां परिचारिकां अभीक्ष्णं प्रेषयेत्६ ।१ ।३० सःपीठमर्दायाश्च कारणापदेशेन स्वयं गमनं ॥२९॥
५१इति गम्योपावर्तनम्((१६४)) ।

भवन्ति चात्र श्लोकाः ॥३१॥

व्ताम्बूलानि स्रजश्चैव संस्कृतं चानुलेपनम् । आगतस्याहरेत्प्रीत्या कलागोष्ठीश्च योजयेत् ॥३१॥

व्द्रव्याणि प्रणये दद्यात्कुर्याच्च परिवर्तनम् । संप्रयोगस्य चाकूतं निजेनैव प्रयोजयेत् ॥३२॥

व्प्रीतिदायैरुपन्यासैरुपचारैश्च केवलैः । गम्येन सह संसृष्टा रञ्जयेत्तं ततः परम्((१६५)) ॥३३॥

इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे सहायगम्याःगम्यचिन्ता गमनकारणं गम्योपावर्तनं प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP