संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|प्रायश्चित्ताध्यायः| रहस्यप्रायश्चित्तम् प्रायश्चित्ताध्यायः आशौचप्रकरणम् आपद्धर्मप्रकरणम् वानप्रस्थधर्मप्रकरणम् यतिधर्मप्रकरणम् प्रायश्चित्तप्रकरणम् रहस्यप्रायश्चित्तम् प्रायश्चित्ताध्यायः - रहस्यप्रायश्चित्तम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः रहस्यप्रायश्चित्तम् Translation - भाषांतर अनभिख्यातदोषस्तु रहस्यं व्रतं आचरेत् ॥३.३००॥ त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् ।अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् ॥३.३०१॥ लोमभ्यः स्वाहेत्यथ वा दिवसं मारुताशनः ।जले स्थित्वाभिजुहुयाच्चत्वारिंशद्घृताहुतीः ॥३.३०२॥ त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्घृतं शुचिः ।ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ॥३.३०३॥ सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः ।गौर्देया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी ॥३.३०४॥ प्राणायामशतं कार्यं सर्वपापापनुत्तये ।उपपातकजातानां अनादिष्टस्य चैव हि ॥३.३०५॥ ओंकाराभिष्टुतं सोम सलिलं पावनं पिबेत् ।कृत्वा हि रेतोविण्मूत्र प्राशनं तु द्विजोत्तमः ॥३.३०६॥ निशायां वा दिवा वापि यदज्ञानकृतं भवेत् ।त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥३.३०७॥ शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः ।सर्वपापहरा ह्येते रुद्रैकादशिनी तथा ॥३.३०८॥ यत्र यत्र च संकीर्णं आत्मानं मन्यते द्विजः ।तत्र तत्र तिलैर्होमो गायत्र्या वाचनं तथा ॥३.३०९॥ वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् ।न स्पृशन्तीह पापानि महापातकजान्यपि ॥३.३१०॥ वायुभक्षो दिवा तिष्ठन्रात्रिं नीत्वाप्सु सूर्यदृक् ।जप्त्वा सहस्रं गायत्र्याः शुध्येद्ब्रह्मवधादृते ॥३.३११॥ ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यं अकल्कता ।अहिंसा स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ॥३.३१२॥ स्नानं मौनोपवासेज्या स्वाध्यायोपस्थनिग्रहाः ।नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥३.३१३॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत् ॥३.३१४॥ पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥३.३१५॥ पर्णोदुम्बरराजीव बिल्वपत्रकुशोदकैः ।प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥३.३१६॥ तप्तक्षीरघृताम्बूनां एकैकं प्रत्यहं पिबेत् ।एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥३.३१७॥ एकभक्तेन नक्तेन तथैवायाचितेन च ।उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥३.३१८॥ यथाकथंचित्त्रिगुणः प्राजापत्योऽयं उच्यते ।अयं एवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः ॥३.३१९॥ कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ।द्वादशाहोपवासेन पराकः परिकीर्तितः ॥३.३२०॥ पिण्याकाचामतक्राम्बु सक्तूनां प्रतिवासरम् ।एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयं उच्यते ॥३.३२१॥ एषां त्रिरात्रं अभ्यासादेकैकस्य यथाक्रमम् ।तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥३.३२२॥ तिथिवृद्ध्या चरेत्पिण्डान्शुक्ले शिख्यण्डसम्मितान् ।एकैकं ह्रासयेत्कृष्ने पिण्डं चान्द्रायणं चरन् ॥३.३२३॥ यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् ।मासेनैवोपभुञ्जीत चान्द्रायणं अथापरम् ॥३.३२४॥ कुर्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा ।पवित्राणि जपेत्पिण्डान्गायत्र्या चाभिमन्त्रयेत् ॥३.३२५॥ अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन च ।धर्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलोकताम् ॥३.३२६॥ कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियं आप्नुयात् ।यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥३.३२७॥ श्रुत्वैतानृषयो धर्मान्याज्ञवल्क्येन भाषितान् ।इदं ऊचुर्महात्मानं योगीन्द्रं अमितौजसम् ॥३.३२८॥ य इदं धारयिष्यन्ति धर्मशास्त्रं अतन्द्रिताः ।इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥३.३२९॥ विद्यार्थी प्राप्नुयाद्विद्यां धनकामो धनं तथा ।आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥३.३३०॥ श्लोकत्रयं अपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति ।पितॄणां तस्य तृप्तिः स्यादक्षय्या नात्र संशयः ॥३.३३१॥ ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।वैश्यश्च धान्यधनवानस्य शास्त्रस्य धारणात् ॥३.३३२॥ य इदं श्रावयेद्विद्वान्द्विजान्पर्वसु पर्वसु ।अश्वमेधफलं तस्य तद्भवाननुमन्यताम् ॥३.३३३॥ श्रुत्वैतद्याज्ञवक्ल्योऽपि प्रीतात्मा मुनिभाषितम् ।एवं अस्त्विति होवाच नमस्कृत्य स्वयंभुवे ॥३.३३४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP