संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|प्रायश्चित्ताध्यायः| वानप्रस्थधर्मप्रकरणम् प्रायश्चित्ताध्यायः आशौचप्रकरणम् आपद्धर्मप्रकरणम् वानप्रस्थधर्मप्रकरणम् यतिधर्मप्रकरणम् प्रायश्चित्तप्रकरणम् रहस्यप्रायश्चित्तम् प्रायश्चित्ताध्यायः - वानप्रस्थधर्मप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः वानप्रस्थधर्मप्रकरणम् Translation - भाषांतर सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् ।वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥३.४५॥ अफालकृष्तेनाग्नींश्च पितॄन्देवातिथीनपि ।भृत्यांश्च तर्पयेत्श्मश्रु जटालोमभृदात्मवान् ॥३.४६॥ अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।अर्थस्य संचयं कुर्यात्कृतं आश्वयुजे त्यजेत् ॥३.४७॥ दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ।स्वाध्यायवान्दानशीलः सर्वसत्त्वहिते रतः ॥३.४८॥ दन्तोलूखलिकः काल पक्वाशी वाश्मकुट्टकः ।श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात्तथा क्रियाः ॥३.४९॥ चान्द्रायणैर्नयेत्कालं कृच्छ्रैर्वा वर्तयेत्सदा ।पक्षे गते वाप्यश्नीयान्मासे वाहनि वा गते ॥३.५०॥ स्वप्याद्भूमौ शुची रात्रौ दिवा संप्रपदैर्नयेत् ।स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥३.५१॥ ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।आर्द्रवासास्तु हेमन्ते शक्त्या वापि तपश्चरेत् ॥३.५२॥ यः कण्टकैर्वितुदति चन्दनैर्यश्च लिंपति ।अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥३.५३॥ अग्नीन्वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः ।वानप्रस्थगृहेष्वेव यात्रार्थं भैक्षं आचरेत् ॥३.५४॥ ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः ।वायुभक्षः प्रागुदीचीं गच्छेद्वावर्ष्मसंक्षयात् ॥३.५५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP