संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|प्रायश्चित्ताध्यायः| आपद्धर्मप्रकरणम् प्रायश्चित्ताध्यायः आशौचप्रकरणम् आपद्धर्मप्रकरणम् वानप्रस्थधर्मप्रकरणम् यतिधर्मप्रकरणम् प्रायश्चित्तप्रकरणम् रहस्यप्रायश्चित्तम् प्रायश्चित्ताध्यायः - आपद्धर्मप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः आपद्धर्मप्रकरणम् Translation - भाषांतर क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ।निस्तीर्य तां अथात्मानं पावयित्वा न्यसेत्पथि ॥३.३५॥ फलोपलक्षौमसोम मनुष्यापूपवीरुधः ।तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् ॥३.३६॥ शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।मृच्चर्मपुष्पकुतप केशतक्रविषक्षितिः ॥३.३७॥ कौशेयनीललवण मांसैकशफसीसकान् ।शकार्द्रौषधिपिण्याक पशुगन्धांस्तथैव च ॥३.३८॥ वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥३.३९॥ लाक्षालवणमांसानि पतनीयानि विक्रये ।पायो दधि च मद्यं च हीनवर्णकराणि तु ॥३.४०॥ आपद्गतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः ।न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥३.४१॥ कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः ।सेवानूपं नृपो भैक्षं आपत्तौ जीवनानि तु ॥३.४२॥ बुभुक्षितस्त्र्यहं स्थित्वा धान्यं अब्राह्मणाद्हरेत् ।प्रतिगृह्य तदाख्येयं अभियुक्तेन धर्मतः ॥३.४३॥ तस्य वृत्तं कुलं शीलं श्रुतं अध्ययनं तपः ।ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥३.४४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP