सप्तमप्रपाठकः - प्रथमोऽर्द्धः

यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.


अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
मूनुं सत्यस्य सत्पतिं ॥१४८९॥
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
यत्राभि संनवामहे ॥१४९०॥
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
यत्सीमुपह्वरे विदत्॥१४९१॥
आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत ।
उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥१४९२॥
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥१४९३॥
प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत ।
इन्द्रमभि जायमानं समस्वरन्॥१४९४॥
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
दिवो न वारं सविता व्यूर्णुते ॥१४९५॥
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
यूथे न निष्ठा वृषभो वि राजसि ॥१४९६॥
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं ।
अग्ने देवेषु प्र वोचः ॥१४९७॥
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
सद्यो दाशुषे क्षरसि ॥१४९८॥
आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
शिक्षा वस्वो अन्तमस्य ॥१४९९॥
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।
अहं सूर्य इवाजनि ॥१५००॥
अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् ।
येनेन्द्रः शुष्ममिद्दधे ॥१५०१॥
ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
ममेद्वर्धस्व सुष्टुतः ॥१५०२॥
अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत ।
ये देवत्रा य आयुषु तेभिर्नो महया गिरः ॥१५०३॥
प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः ।
तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥१५०४॥
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
त्वं नो देवतातये रायो दानाय चोदय ॥१५०५॥
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन्दधुः ।
स त्वं नो वीर वीर्याय चोदय ॥१५०६॥
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितं ।
शर्याभिर्न भरमाणो गभस्त्योः ॥१५०७॥
अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः ।
सदासरो वाजमच्छा सनिष्यदत्॥१५०८॥
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
प्र राधांसि चोदयते महित्वना ॥१५०९॥
उपो हरीणां पतिं राधः पृञ्चन्तमब्रवं ।
नूनं श्रुधि स्तुवतो अश्व्यस्य ॥१५१०॥
न ह्याङ्३ग पुरा च न जज्ञे वीरतरस्त्वत् ।
न की राया नैवथा न भन्दना ॥१५११॥
नदं व ओदतीनां नदं योयुवतीनां ।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥१५१२॥
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचं ।
उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥१५१३॥
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥१५१४॥
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥१५१५॥
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥१५१६॥
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना ।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥१५१७॥
अग्न आयूंषि पवसे आसुवोर्जमिषं च नः ।
आरे बाधस्व दुच्छुनां ॥१५१८॥
अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तमीमहे महागयं ॥१५१९॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यं ।
दधद्रयिं मयि योषं ॥१५२०॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
आ देवान्वक्षि यक्षि च ॥१५२१॥
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशं ।
देवां आ वीतये वह ॥१५२२॥
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि ।
अग्ने बृहन्तमध्वरे ॥१५२३॥
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
विश्वासु धीषु वन्द्य ॥१५२४॥
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यं ।
विश्वासु पृत्सु दुष्टरं ॥१५२५॥
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसं ।
मार्डीकं धेहि जीवसे ॥१५२६॥
अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।
तेन जेष्म धनंधनं ॥१५२७॥
यया गा आकरामहै सेनयाग्ने तवोत्या ।
तां नो हिन्व मघत्तये ॥१५२८॥
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनं ।
अङ्धि खं वर्त्तया पविं ॥१५२९॥
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि ।
दधज्ज्योतिर्जनेभ्यः ॥१५३०॥
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
बोधा स्तोत्रे वयो दधत्॥१५३१॥
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।
अपां रेतांसि जिन्वति ॥१५३२॥
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः ।
स्तोता स्यां तव शर्मणि ॥१५३३॥
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
तव ज्योतींष्यर्चयः ॥१५३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP