संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|तृतीयप्रपाठकः| प्रथमोऽर्द्धः तृतीयप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः तृतीयप्रपाठकः - प्रथमोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद प्रथमोऽर्द्धः Translation - भाषांतर प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि ।प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥८८६॥उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः ।यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति ॥८८७॥विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः ।व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि ॥८८८॥पवमानो अजीजनद्दिवश्चित्रं न तन्यतुं ।ज्योतिर्वैश्वानरं बृहत्॥८८९॥पवमान रसस्तव मदो राजन्नदुच्छुनः ।वि वारमव्यमर्षति ॥८९०॥पवमानस्य ते रसो दक्षो वि राजति द्युमान् ।ज्योतिर्विश्वं स्वर्दृशे ॥८९१॥प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः ।घ्नन्तः कृष्णामप त्वचं ॥८९२॥सुवितस्य मनामहेऽति सेतुं दुराय्यं ।साह्याम दस्युमव्रतं ॥८९३॥शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः ।चरन्ति विद्युतो दिवि ॥८९४॥आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् ।अश्ववत्सोम वीरवत्॥८९५॥पवस्व विश्वचर्षण आ मही रोदसी पृण ।उषाः सूर्यो न रश्मिभिः ॥८९६॥परि नः शर्मयन्त्या धारया सोम विश्वतः ।सरा रसेव विष्टपं ॥८९७॥आशुरर्ष बृहन्मते परि प्रियेण धाम्ना ।यत्र देवा इति ब्रुवन्॥८९८॥परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः ।वृष्टिं दिवः परि स्रव ॥८९९॥अयं स यो दिवस्परि रघुयामा पवित्र आ ।सिन्धोरूर्मा व्यक्षरत्॥९००॥सुत एति पवित्र आ त्विषिं दधान ओजसा ।विचक्षाणो विरोचयन्॥९०१॥आविवासन्परावतो अथो अर्वावतः सुतः ।इन्द्राय सिच्यते मधु ॥९०२॥समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः ।इन्दुमिन्द्राय पीतये ॥९०३॥हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिं ।महामिन्दुं महीयुवः ॥९०४॥पवमान रुचारुचा देवो देवेभ्यः सुतः ।विश्वा वसून्या विश ॥९०५॥आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।इषे पवस्व संयतं ॥९०६॥जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे ।घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः ॥९०७॥त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने ।स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः ॥९०८॥यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते ।इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥९०९॥अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।ममेदिह श्रुतं हवं ॥९१०॥राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे ।सहस्रस्थूण आशाते ॥९११॥ता सम्राजा घृतासुती आदित्या दानुनस्पती ।सचेते अनवह्वरं ॥९१२॥इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।जघान नवतीर्नव ॥९१३॥इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितं ।तद्विदच्छर्यणावति ॥९१४॥अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं ।इत्था चन्द्रमसो गृहे ॥९१५॥इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।अभ्राद्वृष्टिरिवाजनि ॥९१६॥शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः ।ईशाना पिप्यतं धियः ॥९१७॥मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।मा नो रीरधतं निदे ॥९१८॥पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।मरुद्भ्यो वायवे मदः ॥९१९॥सं देवैः शोभते वृषा कविर्योनावधि प्रियः ।पवमानो अदाभ्यः ॥९२०॥पवमान धिया हितो३ऽभि योनिं कनिक्रदत् ।धर्मणा वायुमारुहः ॥९२१॥तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि ॥९२२॥तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि ।घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥९२३॥पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।शुम्भन्ति विप्रं धीतिभिः ॥९२४॥आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतं ।ध्रुवे सदसि सीदतु ॥९२५॥नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः ।आ पवस्व सहस्रिणं ॥९२६॥पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः ।सोतुर्बाहुभ्यां सुयतो नार्वा ॥९२७॥यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।स त्वामिन्द्र प्रभूवसो ममत्तु ॥९२८॥बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिं ।इमा ब्रह्म सधमादे जुषस्व ॥९२९॥विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनं ॥९३०॥नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे ।सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥९३१॥समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये ।स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ॥९३२॥यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥९३३॥इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि ।हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः ॥९३४॥परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।स्वानैर्याति कविक्रतुः ॥९३५॥स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् ।महान्मही ऋतावृधा ॥९३६॥प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः ।वीत्यर्ष पनिष्टये ॥९३७॥त्वं ह्या३ंङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।अमृतत्वाय घोषयन्॥९३८॥येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत ॥९३९॥सोमः पुनान ऊर्मिणाव्यं वारं वि धावति ।अग्रे वाचः पवमानः कनिक्रदत्॥९४०॥धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविं ।अभि त्रिपृष्ठं मतयः समस्वरन्॥९४१॥असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः ।पुनानो वाचं जनयन्नसिष्यदत्॥९४२॥सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥९४३॥ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणां ।श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्॥९४४॥प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः ।अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन्॥९४५॥अग्निं वो वृधन्तमध्वराणां पुरूतमं ।अच्छा नप्त्रे सहस्वते ॥९४६॥अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या ।अस्य क्रत्वा यशस्वतः ॥९४७॥अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते ।आ वाजैरुप नो गमत्॥९४८इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदं ।शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥९४९॥न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे ।न किष्ट्वानु मज्मना न किः स्वश्व आनशे ॥९५०॥इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥९५१॥इन्द्र जुषस्व प्र वहा याहि शूर हरिह ।पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय ॥९५२॥इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न ।अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः ॥९५३॥इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न ।बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य ॥९५४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP