संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|प्रथमप्रपाठकः| द्वितीयोऽर्द्धः प्रथमप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः प्रथमप्रपाठकः - द्वितीयोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद द्वितीयोऽर्द्धः Translation - भाषांतर पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।विश्वासाहं शत्क्रतुं मंहिष्ठं चर्षणीनां ॥७१३॥पुरुहूतं पुरुष्टुतं गाथान्या३ं सनश्रुतं ।इन्द्र इति ब्रवीतन ॥७१४॥इन्द्र इन्नो महोनां दाता वाजानां नृतुः ।महां अभिज्ञ्वा यमत्॥७१५॥प्र व इन्द्राय मादनं हर्यश्वाय गायत ।सखायः सोमपाव्ने ॥७१६॥शंसेदुक्थं सुदानव उत द्युक्षं यथ नरः ।चकृमा सत्यराधसे ॥७१७॥त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो ।त्वं हिरण्ययुर्वसो ॥७१८॥वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।कण्वा उक्थेभिर्जरन्ते ॥७१९॥न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ ।तवेदु स्तोमैश्चिकेत ॥७२०॥इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।यन्ति प्रमादमतन्द्राः ॥७२१॥इन्द्राय मद्व्ने सुतं परि ष्टोभन्तु नो गिरः ।अर्कमर्च्चन्तु कारवः ॥७२२॥यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः ।इन्द्रं सुते हवामहे ॥७२३॥त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।तमिद्वर्धन्तु नो गिरः ॥७२४॥अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।एहीमस्य द्रवा पिब ॥७२५॥शाचिगो शाचिपूजनायं रणाय ते सुतः ।आखण्डल प्र हूयसे ॥७२६॥यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः ।न्यस्मिं दध्र आ मनः ॥७२७॥आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।महाहस्ति दक्षिणेन ॥७२८॥विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघं ।तुविमात्रमवोभिः ॥७२९॥न हि त्वा शूर देवा न मर्तासो दित्सन्तं ।भीमं न गां वारयन्ते ॥७३०॥अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।तृम्पा व्यश्नुही मदं ॥७३१॥मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।मा कीं ब्रह्मद्विषं वनः ॥७३२॥इह त्वा गोपरीणसं महे मन्दन्तु राधसे ।सरो गौरो यथा पिब ॥७३३॥इदं वसो सुतमन्धः पिबा सुपूर्णमुदरं ।अनाभयिन्ररिमा ते ॥७३४॥नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः ।अश्वो न निक्तो नदीषु ॥७३५॥तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।इन्द्र त्वास्मिंत्सधमादे ॥७३६॥इदं ह्यन्वोजसा सुतं राधानां पते ।पिबा त्वा३स्य गिर्वणः ॥७३७॥यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वं ।स त्वा ममत्तु सोम्यं ॥७३८॥प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।प्र बाहू शूर राधसा ॥७३९॥आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।सखाय स्तोमवाहसः ॥७४०॥पुरूतमं पुरूणामीशानं वार्याणां ।इन्द्रं सोमे सचा सुते ॥७४१॥स घा नो योग आ भुवत्स राये स पुरन्ध्या ।गमद्वाजेभिरा स नः ॥७४२॥योगेयोगे तवस्तरं वाजेवाजे हवामहे ।सखाय इन्द्रमूतये ॥७४३॥अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरं ।यं ते पूर्वं पिता हुवे ॥७४४॥आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।वाजेभिरुप नो हवं ॥७४५॥इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यं ।विदे वृधस्य दक्षस्य महां हि षः ॥७४६॥स प्रथमे व्योमनि देवानां सदने वृधः ।सुपारः सुश्रवस्तमः समप्सुजित्॥७४७॥तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणं ।भवा नः सुम्ने अन्तमः सखा वृधे ॥७४८॥एना वो अग्निं नमसोर्जो नपातमा हुवे ।प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतं ॥७४९॥स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः ।सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानां ॥७५०॥प्रत्यु अदर्श्यायत्यू छन्ती दुहिता दिवः ।अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी ॥७५१॥उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् ।तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥७५२॥इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना ।अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥७५३॥युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते ।अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥७५४॥अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।पयः सहस्रसामृषिं ॥७५५॥अयं सूर्य इवोपदृगयं सरांसि धावति ।सप्त प्रवत आ दिवं ॥७५६॥अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।सोमो देवो न सूर्यः ॥७५७॥एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।हरिः पवित्रे अर्षति ॥७५८॥एष प्रत्नेन मन्मना देवो देवेभ्यस्परि ।कविर्विप्रेण वावृधे ॥७५९॥दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे ।क्रन्दं देवां अजीजनः ॥७६०॥उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे ।पवमान विदा रयिं ॥७६१॥उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।इन्दुं देवा अयासिषुः ॥७६२॥उपास्मै गायता नरः पवमानायेन्दवे ।अभि देवां इयक्षते ॥७६३॥प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः ।वनानि महिषा इव ॥७६४॥अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया ।वाजं गोमन्तमक्षरन्॥७६५॥सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः ।सोमा अर्षन्तु विष्णवे ॥७६६॥प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतं ॥७६७॥आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः ।तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥७६८॥प्र सोमासो मदच्युतः श्रवसे नो मघोनां ।सुता विदथे अक्रमुः ॥७६९॥आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिं ।अत्यो न गोभिरज्यते ॥७७०॥आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।इन्दुमिन्द्राय पीतये ॥७७१॥अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः ।मधोर्धारा असृक्षत ॥७७२॥पवते हर्यतो हरिरति ह्वरांसि रंह्या ।अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥७७३॥प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः ।अप श्वानमराधसं हता मखं न भृगवः ॥७७४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP