संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः| महानाम्न्यार्चिकः पूर्वार्चिकः छन्द आर्चिकः - प्रथमप्रपाठकः छन्द आर्चिकः - द्वितीयप्रपाठकः छन्द आर्चिकः - तृतीयप्रपाठकः छन्द आर्चिकः - चतुर्थप्रपाठकः छन्द आर्चिकः - पञ्चमप्रपाठकः छन्द आर्चिकः - षष्ठप्रपाठकः अथारण्यार्चिकः महानाम्न्यार्चिकः पूर्वार्चिकः - महानाम्न्यार्चिकः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद महानाम्न्यार्चिकः Translation - भाषांतर विदा मघवन्विदा गातुमनुशंसिषो दिशः ।शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥६४१॥आभिष्ट्वमभिष्टिभिः स्वाऽ३र्न्नांशुः ।प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे ॥६४२॥एवा हि शक्रो राये वाजाय वज्रिवः ।शविष्ठ वज्रिन्नृञ्जसे मंहिष्ठ वज्रिन्नृञ्जस ।आ याहि पिब मत्स्व ॥६४३॥विदा राये सुवीर्यं भवो वाजानां पतिर्वशां अनु ।मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणां ॥६४४॥यो मंहिष्ठो मघोनामंशुर्न्न शोचिः ।चिकित्वो अभि नो नयेंद्रो विदे तमु स्तुहि ॥६४५॥ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितं ।स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥६४६॥इन्द्रं धनस्य सातये हवामहे जेतारमपराजितं ।स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ॥६४७॥पूर्वस्य यत्ते अद्रिवोंऽशुर्मदाय ।सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते ।वशी हि शक्रो नूनं तन्नव्यं संन्यसे ॥६४८॥प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै । शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः ॥६४९॥एवाह्योऽ३ऽ३ऽ३वा । एवा ह्यग्ने । एवाहीन्द्र ।एवा हि पूषन् । एवा हि देवाः ॐ एवाहि देवाः ॥६५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP