संस्कृत सूची|शास्त्रः|आयुर्वेदः|भावमिश्रः भावप्रकाशः| कर्पूरादिवर्ग भावमिश्रः भावप्रकाशः अरीतक्यादिवर्ग कर्पूरादिवर्ग ङुडूच्यादिवर्ग भावमिश्रः भावप्रकाशः - कर्पूरादिवर्ग आयुर्वेदातील एक महान ग्रंथ Tags : Vedआयुर्वेदभावप्रकाश कर्पूरादिवर्ग Translation - भाषांतर पुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः -घनसारश्चन्द्रसंज्ञो हिमनामापि स स्मृतः -- १कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः -सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः -- २तृष्णास्यवैरस्यमेदोदौर्गन्ध्यनाशनः -कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः -पक्वात्कर्पूरतः प्राहुरपक्वं गुणवत्तरं -- ३चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः -कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः -- ४मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् -कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता -- ५कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक् -काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता -- ६कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् -काश्मीरदेशसम्भूता कस्तूरी ह्यधमा मता -- ७कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः -कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत् -- ८लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः -चक्षुष्या छेदिनी श्लेष्मतृष्णावस्त्यास्यरोगहृत् -- ९गन्धमार्जारवीर्यं तु वीर्यकृत्कफवातहृत् -कण्डूकुष्ठहरं नेत्र्यं सुगन्धं स्वेदगन्धनुत् -- १०श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः -गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः -- ११स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितं -ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठं उच्यते -- १२चन्दनं शीतलं रूक्षं तिक्तं आह्लादनं लघु -श्रमशोषविषश्लेष्मतृष्णापित्तास्रदाहनुत् -- १३कालीयकं तु कालीयं पीताभं हरिचन्दनं -- १४हरिप्रियं कालसारं तथा कालानुसार्यकं -कालीयकं रक्तगुणं विशेषाद्व्यङ्गनाशनं -- १५रक्तचन्दनं आख्यातं रक्ताङ्गं क्षुद्रचन्दनं -तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतं -- १६रक्तं शीतं गुरु स्वादु छर्दितृष्णास्रपित्तहृत् -तिक्तं नेत्राहतं वृष्यं ज्वरव्रणविषापहं -- १७पतंगं रक्तसारं च सुरङ्गं रञ्जनं तथा -पट्टरञ्जकमाख्यातं पत्तूरं च कुचन्दनं -- १८पतंगं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् -हरिचन्दनवद्वेद्यं विशेषाद्दाहनाशनं -- १९चन्दनानि तु सर्वाणि सदृशानि रसादिभिः -गन्धेन तु विशेषोऽस्ति पूर्वः श्रेष्ठतमो गुणैः -- २०अगुरु प्रवरं लोहं राजार्हं योगजं तथा -वंशिकं कृमिजं वापि कृमिजग्धं अनार्यकं -- २१अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णं च पित्तलं -लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् -- २२कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति -अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः -- २३देवदारु स्मृतं दारुभद्रं दार्विन्द्रदारु च -मस्तदारु द्रुकिलिमं किलिमं सुरभूरुहः -- २४देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च -विबन्धाध्मानशोथामतन्द्राहिक्काज्वरास्रजित् -प्रमेहपीनसश्लेष्मकासकण्डूसमीरनुत् -- २५सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः -सरलो मधुरस्तिक्तः कटुपाकरसो लघुः -- २६स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः -कफानिलस्वेददाहकासमूर्छाव्रणापहः -- २७कालानुसार्यं तगरं कुटिलं नहुषं नतं -अपरं पिण्डतगरं दण्डहस्ती च बर्हिणं -- २८तगरद्वयमुष्णं स्यात्स्वादु स्निग्धं लघु स्मृतं -विषापस्मारशूलाक्षिरोगदोषत्रयापहं -- २९पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतं -पद्मकं तुवरं तिक्तं शीतलं वातलं लघु -- ३०वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तनुत् -गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत् -- ३१गुग्गुलुर्देवधूपश्च जटायुः कौशिकः पुरः -कुम्भोलूखलकं क्लीबे महिषाक्षः पलंकषः -- ३२महिषाक्षो महानीलः कुमुदः पद्म इत्यपि -हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः -- ३३भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः -महानीलस्तु विज्ञेयः स्वनामसमलक्षणः -- ३४कुमुदः कुमुदाभः स्यात्पद्मो माणिक्यसंनिभः -हिरण्याक्षस्तु हेमाभः पञ्चानां लिङ्गमीरितं -- ३५महिषाक्षो महानीलो गजेन्द्राणां हितावुभौ -हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ -- ३६विशेषेण मनुष्याणां कनकः परिकीर्तितः -कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि -- ३७गुग्गुलुर्विशदस्तिक्तो वीर्योष्णः पित्तलः सरः -कषायः कटुकः पाके कटू रूक्षो लघुः परः -- ३८भग्नसंधानकृद्वृष्यः सूक्ष्मः स्वर्यो रसायनः -दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः -- ३९मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान् -पिटिकाग्रन्थिशोफार्शोगण्डमालाकृमीञ् जयेत् -- ४०माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा -तिक्तत्वात्कफजित्तेन गुग्गुलुः सर्वदोषहा -- ४१स नवो बृंहणो वृष्यः पुराणस्त्वतिलेखनः -- ४२स्निग्धः काञ्चनसंकाशः पक्वजम्बूफलोपमः -नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः -- ४३शुष्को दुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः -पुराणः स तु विज्ञेयो गुग्गुलुर्वीर्यवर्जितः -- ४४अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपं -मद्यं रोषं त्यजेत्सम्यग्गुणार्थी पुरसेवकः -- ४५श्रीवासः सरलस्रावः श्रीवेष्टो वृक्षधूपकः -श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः -- ४६पित्तलो वातमूर्धाक्षिस्वरोगकफापहः -रक्षोघ्नः स्वेददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् -- ४७रालस्तु शालनिर्यासस्तथा सर्जरसः स्मृतः -देवधूपो यक्षधूपस्तथा सर्वरसश्च सः -- ४८रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत् -दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः -ग्रहभग्नाग्निदग्धांश्च शूलातीसारनाशनः -- ४९कुन्दुरुस्तु मुकुन्दः स्यात्सुगन्धः कुन्द इत्यपि -- ५०कुन्दुरुर्मधुरस्तिक्तस्तीक्ष्णस्त्वच्यः कटुर्हरेत् -ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान् -- ५१सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः -कपितैलं च संख्यातस्तथा च कपिनामकः -- ५२सिह्लकः कटुकः स्वादुः स्निग्धोष्णः शुक्रकान्तिकृत् -वृष्यः कण्ठ्यः स्वेदकुष्ठज्वरदाहग्रहापहः -- ५३जातीफलं जातिकोशं मालतीफलमित्यपि -जातीफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु -कटुकं दीपनं ग्राहि स्वर्यं श्लेष्मानिलापहं -- ५४निहन्ति मुखवैरस्यं मलदौर्गन्ध्यकृष्णताः -कृमिकासवमिश्वासशोषपीनसहृद्रुजः -- ५५जातीफलस्य त्वक्प्रोक्ता जातीपत्त्री भिषग्वरैः -- ५६जातीपत्त्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत् -कफकासवमिश्वासतृष्णाकृमिविषापहा -- ५७लवंगं देवकुसुमं श्रीसंज्ञं श्रीप्रसूनकं -लवंगं कटुकं तिक्तं लघु नेत्रहितं हिमं -- ५८दीपनं पाचनं रुच्यं कफपित्तास्रनाशकृत् -तृष्णां छर्दिं तथाध्मानं शूलमाशु विनाशयेत् -कासं श्वासं च हिक्कां च क्षयं क्षपयति ध्रुवं -- ५९एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च -- ६०भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः -स्थूलैला कटुका पाके रसे चानलकृल्लघुः -- ६१रूक्षोष्णा श्लेष्मपित्तास्रकण्डूश्वासतृषापहा -हृल्लासविषबस्त्यास्यशिरोरुग्वमिकासनुत् -- ६२सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी द्राविडी त्रुटिः -एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत् -रसे तु कटुका शीता लघ्वी वातहरी मता -- ६३त्वक्पत्त्रं च वराङ्गं स्यद्भृङ्गं चोचं तथोत्कटं -त्वचं लघूष्णं कटुकं स्वादु तिक्तं च रूक्षकं -- ६४पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनं -हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृत् -- ६५त्वक्स्वाद्वी तु तनुत्वक्स्यात्तथा दारुसिता मता -- ६६उक्ता दारुसिता स्वाद्वी तिक्ता चानिलपित्तहृत् -सुरभिः शुक्रला वर्ण्या मुखशोषतृषापहा -- ६७पत्त्रकं तमालपत्त्रं च तथा स्यात्पत्त्रनामकं -पत्त्रकं मधुरं किंचित्तीक्ष्णोष्णं पिच्छिलं लघु -निहन्ति कफवातार्शोहृल्लासारुचिपीनसान् -- ६८नागपुष्पः स्मृतो नागः केसरो नागकेसरः -चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः -- ६९नागपुष्पं कषायोष्णं रूक्षं लघ्वामपावनं -- ७०ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनं -दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहं -- ७१त्वगेलापत्त्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकं -नागकेसरसंयुक्तं चातुर्जातकं उच्यते -- ७२तद्द्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् -लघु पित्ताग्निकृद्वर्ण्यं कफवातविषापहं -- ७३कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरं -संकोचं पिशुनं धीरं वाह्लीकं शोणिताभिधं -- ७४काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धि तत् -सूक्ष्मकेसरं आरक्तं पद्मगन्धि तदुत्तमं -- ७५वाह्लीकदेशसंजातं कुङ्कुमं पाण्डुरं स्मृतं -केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेसरं -- ७६कुङ्कुमं पारसीकं तन्मधुगन्धि तदीरितं -ईषत्पाण्डुरवर्णं तदधमं स्थूलकेसरं -- ७७कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित् -तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषत्रयापहं -- ७८गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना -गोरोचना हिमा तिक्ता वर्ण्या मङ्गलकान्तिदा -विषालक्ष्मीग्रहोन्मादगर्भस्रावक्षतास्रहृत् -- ७९नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकं -- ८०नखं स्वल्पं नखी प्रोक्ता हनुहट्टविलासिनी -नखद्रव्यं ग्रहश्लेष्मावातास्रज्वरकुष्ठहृत् -- ८१लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहं -अलक्ष्मीमुखदौर्गन्ध्यहृत्पाकरसयोः कटु -- ८२बालं ह्रीवेरबर्हिष्ठोदीच्यं केशाम्बुनाम च -बालकं शीतलं रूक्षं लघु दीपनपाचनं -हृल्लासारुचिवीसर्पहृद्रोगामातिसारजित् -- ८३स्याद्वीरणं वीरतरुर्वीरं च बहुमूलकं -वीरणं पाचनं शीतं वान्तिहृल्लघु तिक्तकं -- ८४स्तम्भनं ज्वरनुद्भ्रान्तिमदजित्कफपित्तहृत् -तृष्णास्रविषवीसर्पकृच्छ्रदाहव्रणापहं -- ८५वीरणस्य तु मूलं स्यादुशीरं नलदं च तत् -अमृणालं च सेव्यं च समगन्धिकं इत्यपि -- ८६उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकं -- ८७मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत् -तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहं -- ८८जटामांसी भूतजटा जटिला च तपस्विनी -मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा -स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत् -- ८९शैलेयं तु शिलापुष्पं वृद्धं कालानुसार्यकं -- ९०शैलेयं शीतलं हृद्यं कफपित्तहरं लघु -कण्डूकुष्ठाश्मरीदाहविषहृद्गुदरक्तहृत् -- ९१मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकं -कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः -- ९२भद्रमुस्तं च गुन्द्रा च तथा नागरमुस्तकः -मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनं -- ९३कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् -अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते -तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकं -- ९४कर्चूरो वेधमुख्यश्च द्राविडः कल्पकः शटी -कर्चूरो दीपनो रुच्यः कटुकस्तिक्त एव च -- ९५सुगन्धिः कटुपाकः स्यात्कुष्ठार्शोव्रणकासनुत् -उष्णो लघुर्हरेच्छ्वासं गुल्मवातकफक्रिमीन् -- ९६मुरा गन्धकुटी दैत्या सुरभिः शालपर्णिका -- ९७मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिलापहा -ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी -- ९८शठी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका -गान्धारिका गन्धवधूर्वधूः पलाशिका -- ९९भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः -तिक्ता तीक्ष्णा च कटुकानुष्णास्यमलनाशिनी -शोथकासव्रणश्वासशूलसिध्मग्रहापहा -- १००प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया -- १०१गुन्द्रा गन्धफला श्यामा विष्वक्सेनाङ्गनाप्रिया -प्रियङ्गुः शीतला तिक्ता तुवरानिलपित्तहृत् -- १०२रक्तातियोगदौर्गन्ध्यस्वेददाहज्वरापहा -गुल्मतृड्विषमोहघ्नी तद्वद्गन्धप्रियङ्गुका -- १०३तत्फलं मधु रूक्षं कषायं शीतलं गुरु -विबन्धाध्मानबलकृत्संग्राहि कफपित्तजित् -- १०४रेणुका राजपुत्री च नन्दिनी कपिला द्विजा -भस्मगन्धा पाण्डुपुत्री स्मृता कौन्ती हरेणुका -- १०५रेणुका कटुका पाके तिक्तानुष्णा कटुर्लघुः -पित्तला दीपनी मेध्या पाचिनी गर्भपातिनी -बलासवातकृच्चैव तृट्कण्डूविषदाहनुत् -- १०६ग्रन्थिपर्णं ग्रन्थिकं च काकपुच्छं च गुच्छकं -नीलपुष्पं सुगन्धं च कथितं तैलपर्णकं -- १०७ग्रन्थिपर्णं तिक्ततीक्ष्णं कटूष्णं दीपनं लघु -कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनं -- १०८स्थौणेयकं बर्हिबर्हं शुकबर्हं च कुक्कुरं -शीर्णरोमशुकं चापि शुकपुष्पं शुकच्छदं -- १०९स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत् -- ११०मेधाशुक्रकरं रुच्यं रक्षोघ्नं ज्वरजन्तुजित् -हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान् -- १११निशाचरो धनहरः कितवो गणहासः -चोरकः शङ्कितश्चण्डो दुष्पत्त्रः क्षेमको रिपुः -रोचको मधुरस्तिकः कटुः पाके कटुर्लघुः -- ११२तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान् -रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् -- ११३तालीशं उक्तं पत्त्राढ्यं धात्रीपत्त्रं च तत्स्मृतं -तालीशं लघु तीक्ष्णोष्णं श्वासकासकफानिलान् -निहन्त्यरुचिगुल्मामवह्निमान्द्यक्षयामयान् -- ११४कङ्कोलं कोलं प्रोक्तं चाथ कोशफलं स्मृतं -- ११५कङ्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदं -आस्यदौर्गन्ध्यहृद्रोगकफवातामयान्ध्यहृत् -- ११६स्निग्धोष्णा कफहृत्तिक्ता सुगन्धा गन्धकोकिला -गन्धकोकिलया तुल्या विज्ञेया गन्धमालती -- ११७लामज्जकं सुनालं स्यादमृणालं लवं लघु -इष्टकापथकं सव्यं नलदं च विदातकं -- ११८लामज्जकं हिमं तिक्तं लघु दोषत्रयास्रजित् -त्वगामयस्वेदकृच्छ्रदाहपित्तास्ररोगनुत् -- ११९एलवालुकं ऐलेयं सुगन्धि हरिवालुकं -ऐलवालुकं एलालु कपित्थं पत्त्रं ईरितं -- १२०एलालु कटुकं पाके कषायं शीतलं लघु -हन्ति कण्डूव्रणच्छर्दितृट्कासारुचिहृद्रुजः -बलासविषपित्तास्रकुष्ठमूत्रगदक्रिमीन् -- १२१कुटन्नटं दासपुरं बालेयं परिपेलवं -प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च -- १२२मुस्तावत्पेलवपुटं शुकाभं स्याद्वितुन्नकं -- १२३वितुन्नकं हिमं तिक्तं कषायं कटु कान्तिदं -कफपित्तास्रवीसर्पकुष्ठकण्डूविषप्रणुत् -- १२४स्पृक्कासृग्ब्राह्मणो देवो मरुन्माला लता लघुः -समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि -- १२५स्पृक्का स्वाद्वी हिमा वृष्या तिक्ता निखिलदोषनुत् -कुष्ठकण्डूविषस्वेददाहाश्रीज्वररक्तहृत् -- १२६पर्पटी रञ्जनी कृष्णा जतुका जननी जनी -जतुकृष्णाग्निसंस्पर्शा जतुकृच्चक्रवर्तिनी -- १२७पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः -विषव्रणहरा कण्डूकफपित्तास्रकुष्ठनुत् -- १२८नलिका विद्रुमलता कपोतचरणा नटी -धमन्यञ्जनकेशी च निर्मेध्या सुषिरा नली -- १२९नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् -कृच्छ्राश्मवाततृष्णास्रकुष्ठकण्डूज्वरापहा -- १३०प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकं -पौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमं -चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत् -- १३१ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP