संस्कृत सूची|शास्त्रः|आयुर्वेदः|भावमिश्रः भावप्रकाशः| अरीतक्यादिवर्ग भावमिश्रः भावप्रकाशः अरीतक्यादिवर्ग कर्पूरादिवर्ग ङुडूच्यादिवर्ग भावमिश्रः भावप्रकाशः - अरीतक्यादिवर्ग आयुर्वेदातील एक महान ग्रंथ Tags : Vedआयुर्वेदभावप्रकाश अरीतक्यादिवर्ग Translation - भाषांतर दक्षं प्रजापतिं वस्थं अश्विनौ वाक्यं ऊचतुः -कुतो हरीतकी जाता तस्यास्तु कति जातयः -- १रसाः कति समाख्याताः कति चोपरसाः स्मृताः -नामानि कति चोक्तानि किंवा तासां च लक्षणं -- २के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते -केन द्रव्येण संयुक्ता कांश्च रोगान्व्यपोहति -- ३प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि -अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् -- ४पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतं -ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी -- ५हरीतक्यभया पथ्या कायस्था पूतनामृता -हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा -- ६वयःस्था विजया चापि जीवन्ती रोहिणीति च -- ७विजया रोहिणी चैव पूतना चामृताभया -जीवन्ती चेतकी चेति पथ्यायाः सप्त जातयः -- ८विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी निगदिता जाता प्रतिष्ठानके -चम्पायां अमृताभया च जनिता देशे सुराष्ट्राह्वये जीवन्तीति हरीतकी निगदिता सप्त प्रभेदा बुधैः -- ९अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता -पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता -- १०पञ्चरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी -त्रिरेखा चेतकी ज्ञेया सप्तानां इयमाकृतिः -- ११विजया सर्वरोगेषु रोहिणी व्रणरोहिणी -प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता -- १२अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहृत् -चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् -- १३चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः -षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता -- १४काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् -काचित्स्पर्शेन दृष्ट्यान्या चतुर्धा भेदयेच्छिवा -- १५चेतकीपादपच्छायामुपसर्पन्ति ये नराः -भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः -- १६चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः -तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः -- १७नृपाणां सुकुमाराणां कृशानां भेषजद्विषां -चेतकी परमा शस्ता हिता सुखविरेचनी -- १८सप्तानां अपि जातीनां प्रधाना विजया स्मृता -सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते -- १९हरीतकी पञ्चरसालवणा तुवरा परं -रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी -- २०चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी -श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन् -- २१वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् -गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् -- २२कामलां शूलमानाहं प्लीहानं च यकृत्तथा -अश्मरीं मूत्रकृच्छ्रं च मूत्राघातं च नाशयेत् -- २३स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा -कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा -- २४पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा -- २५प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते -हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना -- २६कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः -यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा -- २७पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः -वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः -स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याम्भसि -निमज्जेत्सा प्रशस्ता च कथितातिगुणप्रदा -- २८नवादिगुणयुक्तत्वं तथैकत्र द्विकर्षता -हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते -- २९चर्विता वर्धयत्यग्निं पेषिता मलशोधिनी -स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् -- ३०उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानां -विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात्सह भोजनेन -- ३१अन्नपानकृतान्दोषान्वातपित्तकफोद्भवान् -हरीतकी हरत्याशु भुक्तस्योपरि योजिता -- ३२लवणेन कफं हन्ति पित्तं हन्ति सशर्करा -घृतेन वातजान्रोगान्सर्वरोगान्गुडान्विता -- ३३सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् -वर्षादिष्वभया प्राश्या रसायनगुणैषिणा -- ३४अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च -पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् -- ३५विभीतकस्त्रिलिङ्गः स्यादक्षः कर्षफलस्तु सः -कलिद्रुमो भूतवासस्तथा कलियुगालयः -- ३६विभीतकं स्वादुपाकं कषायं कफपित्तनुत् -उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनं -- ३७रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनं -विभीतमज्जा तृट्छर्दिकफवातहरो लघुः -कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणः -- ३८त्रिष्वामलकमाख्यातं धात्री तिष्यफलामृता -- ३९हरीतकीसमं धात्रीफलं किंतु विशेषतः -रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनं -- ४०हन्ति वातं तदम्लत्वात्पित्तं माधुर्यशैत्यतः -कफं रूक्षकषायत्वात्फलं धात्र्यास्त्रिदोषजित् -- ४१यस्य यस्य फलस्येह वीर्यं भवति यादृशं -तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् -- ४२पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफलासमैः -फलत्रिकं च त्रिफला सा वरा च प्रकीर्तिता -- ४३त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा -चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी -- ४४शुण्ठी विश्वा च विश्वं च नागरं विश्वभेषजं -ऊषणं कटुभद्रं च शृङ्गवेरं महौषधं -- ४५शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः -स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् -- ४६वृष्या स्वर्या वमिश्वासशूलकासहृदामयान् -हन्ति श्लीपदशोथार्शऽनाहोदरमारुतान् -- ४७आग्नेयगुणभूयिष्ठात्तोयांशपरिशोषि यत् -संगृह्णाति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा -- ४८विबन्धभेदिनी या तु सा कथं ग्राहिणी भवेत् -शक्तिविबन्धभेदे स्याद्यतो न मलपातने -- ४९आर्द्रकं शृङ्गवेरं स्यात्कटुभद्रं तथार्द्रिका -आर्द्रिका भेदिनी गुर्वी तीक्ष्णोष्णा दीपनी मता -- ५०कटुका मधुरा पाके रूक्षा वातकफापहा -ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः -- ५१भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणं -अग्निसंदीपनं रुच्यं जिह्वाकण्ठविशोधनं -- ५२कुष्ठषाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे -दाहे निदाघशरदोर्नैव पूजितं आर्द्रकं -- ५३पिप्पली मागधी कृष्णा वैदेही चपला कणा -उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्णतण्डुला -- ५४पिप्पली दीपनी वृष्या स्वादुपाका रसायनी -अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लघुः -- ५५पिप्पली रेचनी हन्ति श्वासकासोदरज्वरान् -कुष्ठप्रमेहगुल्मार्शःप्लीहशूलाममारुतान् -- ५६आर्द्रा कफप्रदा स्निग्धा शीतला मधुरा गुरुः -पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिणी -- ५७पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी -श्वासकासज्वरहरा वृष्या मेध्याग्निवर्धिनी -- ५८जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली -कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् -द्विगुणः पिप्पलीचूर्णाद्गुडोऽत्र भिषजां मतः -- ५९मरिचं वेल्लजं कृष्णमूषणं धर्मपत्तनं -- ६०मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित् -उष्णं पित्तकरं रूक्षं श्वासशूलकृमीन्हरेत् -- ६१तदार्द्रं मधुरं पाके नात्युष्णं कटुकं गुरु -किंचित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलं -- ६२विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते -कटुत्रिकं तु त्रिकटु त्र्यूषणं व्योष उच्यते -- ६३त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् -गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् -- ६४ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः -दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु -- ६५रूक्षं पित्तकरं भेदि कफवातोदरापहं -आनाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहं -- ६६त्र्यूषणं सकणामूलं कथितं चतुरूषणं -व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे -- ६७भवेच्चव्यं तु चविका कथिता सा तथोषणा -कणामूलगुणं चव्यं विशेषाद्गुदजापहं -- ६८चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली -कपिवल्ली कोलवल्ली श्रेयसी वशिरश्च सा -- ६९गजकृष्णा कटुर्वातश्लेष्महृद्वह्निवर्धिनी -उष्णा निहन्त्यतीसारं श्वासकण्ठामयक्रिमीन् -- ७०चित्रकोऽनलनामा च पीठो व्यालस्तथोषणः -चित्रकः कटुकः पाके वह्निकृत्पाचनो लघुः -- ७१रूक्षोष्णो ग्रहणीकुष्ठशोथार्शःकृमिकासनुत् -वातश्लेष्महरो ग्राही वातघ्नः श्लेष्मपित्तहृत् -- ७२पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः -पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते -- ७३पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतं -तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् -गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनं -- ७४पञ्चकोलं समरिचं षडूषणमुदाहृतं -पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहं -- ७५यवानिकोग्रगन्धा च ब्रह्मदर्भाजमोदिका -- ७६सैवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया -यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः -- ७७दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् -वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत् -- ७८अजमोदा खराश्वा च मायूरी दीप्यकस्तथा -तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका -- ७९अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत् -उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः -नेत्रामयकृमिच्छर्दिहिक्कावस्तिरुजो हरेत् -- ८०पारसीकयवानी तु यवानीसदृशी गुणैः -विशेषात्पाचनी रुच्या ग्राहिणी मादिनी गुरुः -- ८१जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः -- ८२कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः -कालाजाजी तु सुषवी कालिका चोपकालिका -- ८३पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका -उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि -- ८४जीरकत्रितयं रूक्षं कटूष्णं दीपनं लघु -संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् -- ८५ज्वरघ्नं पावनं वृष्यं बल्यं रुच्यं कफापहं -चक्षुष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत् -- ८६धान्यकं धानकं धान्यं धाना धानेयकं तथा -कुनटी धेनुका छत्त्रा कुस्तुम्बुरु वितुन्नकं -- ८७धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु -तिक्तं कटूष्णवीर्यं च दीपनं पाचनं स्मृतं -- ८८ज्वरघ्नं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत् -तृष्णादाहवमिश्वासकासकार्श्यक्रिमिप्रणुत् -आर्द्रं तु तद्गुणं स्वादु विशेषात्पित्तनाशनं -- ८९शतपुष्पा शताह्वा च मधुरा कारवी मिसिः -अतिलम्बी सितच्छत्त्रा संहितछत्त्रिकापि च -- ९०छत्त्रा शालेयशालीनौ मिश्रेया मधुरा मिसिः -शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः -- ९१उष्णा ज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत् -मिश्रेया तद्गुणा प्रोक्ता विशेषाद्योनिशूलनुत् -- ९२अग्निमान्द्यहरी हृद्या बद्धविट्कृमिशुक्रहृत् -रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान्हरेत् -- ९३मेथिका मेथिनी मेथी दीपनी बहुपत्त्रिका -बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा -- ९४वल्लरी चक्रिका मन्था मिश्रपुष्पा च कैरवी -कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा -- ९५मेथिका वातशमनी श्लेष्मघ्नी ज्वरनाशिनी -ततः स्वल्पगुणा वन्या वाजिनां सा तु पूजिता -- ९६चन्द्रिका चर्महन्त्री च पशुमेहनकारिका -नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा -- ९७चन्द्रशूरं हितं हिक्कावातश्लेष्मातिसारिणां -असृग्वातगदद्वेषि बलपुष्टिविवर्धनं -- ९८मेथिका चन्द्रशूरश्च कालाजाजी यवानिका -एतच्चतुष्टयं युक्तं चतुर्बीजं इति स्मृतं -- ९९तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयं -अजीर्णं शूलमाध्मानं पार्श्वशूलं कटिव्यथां -- १००सहस्रवेधि जतुकं वाह्लीकं हिङ्गु रामठं -- १०१हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासनुत् -शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्धनं -- १०२वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका -क्षुद्रपत्त्री च मङ्गल्या जटिलोग्रा च लोमशा -- १०३वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत् -विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी -अपस्मारकफोन्मादभूतजन्त्वनिलान्हरेत् -- १०४पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा -हैमवत्युदिता तद्वद्वातं हन्ति विशेषतः -- १०५सुगन्धाप्युग्रगन्धा च विशेषात्कफकासनुत् -सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी -- १०६स्थूलग्रन्थिः सुगन्धा स्यात्ततो हीनगुणा स्मृता -- १०७द्वीपान्तरवचा किंचित्तिक्तोष्णा वह्निदीप्तिकृत् -विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी -- १०८वातव्याधीनपस्मारमुन्मादं तनुवेदनां -व्यपोहति विशेषेण फिरङ्गामयनाशिनी -- १०९हवुषा वपुषा विस्रा पराश्वत्थफला मता -मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी -- ११०हवुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः -पित्तोदरसमीरार्शोग्रहणीगुल्मशूलहृत् -पराप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपि -- १११पुंसि क्लीबे विडङ्गः स्यात्कृमिघ्नो जन्तुनाशनः -तण्डुलाश्च तथा वेल्लं अमोघा चित्रतण्डुला -- ११२विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु -शूलाध्मानोदरश्लेष्मकृमिवातविबन्धनुत् -- ११३तुम्बुरुः सौरभः सौरो वनजः सानुजोऽन्धकः -- ११४तुम्बुरु प्रथितं तिक्तं कटुपाकेऽपि तत्कटु -रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लघु विदाहि च -- ११५वातश्लेष्माक्षिकर्णौष्ठशिरारुग्गुरुताकृमीन् -कुष्ठशूलारुचिश्वासप्लीहकृच्छ्राणि नाशयेत् -- ११६स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा -त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी -- ११७वंशजा बृंहणी वृष्या बल्या स्वाद्वी च शीतला -तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः -हरेत्कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित् -- ११८समुद्रफेनः फेनश्च डिण्डीरोऽब्धिकफस्तथा -- ११९समुद्रफेनश्चक्षुष्यो लेखनः शीतलश्च सः -कषायो विषपित्तघ्नः कर्णरुक्कफहृत्सरः -- १२०जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके -अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः -- १२१अष्टवर्गो हिमः स्वादुर्बृंहणः शुक्रलो गुरुः -भग्नसंधानकृत्कामबलासबलवर्धनः -वातपित्तास्रतृड्दाहज्वरमेहक्षयप्रणुत् -- १२२जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ -रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्त्रकौ -- १२३जीवकः कूर्चकाकार ऋषभो वृषशृङ्गवत् -जीवको मधुरः शृङ्गो ह्रस्वाङ्गः कूर्चशीर्षकः -- १२४ऋषभो वृषभो धीरो विषाणी द्राक्ष इत्यपि -जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ -- १२५मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ -- १२६महामेदाभिधः कन्दो मोरङ्गादौ प्रजायते -महामेदा खनीमेदा स्यादित्युक्तं मुनीश्वरैः -- १२७शुक्लार्द्रकनिभः कन्दो लताजातः सुपाण्डुरः -महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते -- १२८शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत् -यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः -- १२९शल्यपर्णी मणिच्छिद्रा मेदा मेदोभवाध्वरा -महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः -- १३०मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफावहं -बृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत् -- १३१जायते क्षीरकाकोली महामेदोद्भवस्थले -- १३२यत्र स्यात्क्षीरकाकोली काकोली अत्र जायते -पीवरीसदृशः कन्दः सक्षीरः प्रियगन्धवान् -- १३३स प्रोक्तः क्षीरकाकोली काकोलीलिङ्गमुच्यते -यथा स्यात्क्षीरकाकोली काकोल्यपि तथा भवेत् -- १३४एषा किंचिद्भवेत्कृष्णा भेदोऽयं उभयोरपि -काकोली वायसोली च वीरा कायस्थिका तथा -- १३५सा शुक्ला क्षीरकाकोली वयःस्था क्षीरवल्लिका -कथिता क्षीरिणी धीरा क्षीरशुक्ला पयस्विनी -- १३६काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु -बृंहणं वातदाहास्रपित्तशोषज्वरापहं -- १३७ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशलेऽचले -श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः -- १३८स एव ऋद्धिर्वृद्धिश्च भेदं अप्येतयोर्ब्रुवे -तूलग्रन्थिसमा ऋद्धिर्वामावर्तफला च सा -- १३९वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः -ऋद्धिर्योग्यं सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे -- १४०ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः -प्राणैश्वर्यकरी मूर्छारक्तपित्तविनाशिनी -- १४१वृद्धिर्गर्भप्रदा शीता बृंहणी मधुरा स्मृता -वृष्या पित्तास्रशमनी क्षतकासक्षयापहा -- १४२राज्ञामप्यष्टवर्गस्तु यतोऽयं अतिदुर्लभः -तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक् -मुख्यसदृशः प्रतिनिधिः -- १४३मेदाजीवककाकोल्यृद्धिद्वंद्वेऽपि चासति -वरीविदार्यश्वगन्धावाराहीश्च क्रमात्क्षिपेत् -मेदामहामेदास्थाने शतावरीमूलं -जीवकर्षभकस्थाने विदारीमूलं -काकोलीक्षीरकाकोलीस्थाने अश्वगन्धामूलं -ऋद्धिवृद्धिस्थाने वाराहीकन्दं गुणैस्तत्तुल्यं क्षिपेत् -- १४४यष्टीमधु तथा यष्टीमधुकं क्लीतकं तथा -अन्यत्क्लीतनकं तत्तु भवेत्तोये मधूलिका -- १४५यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्णकृत् -सुस्निग्धा शुक्रला केश्या स्वर्या पित्तानिलास्रजित् -व्रणशोथविषच्छर्दितृष्णाग्लानिक्षयापहा -- १४६काम्पिल्लः कर्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि च -काम्पिल्लः कफपित्तास्रकृमिगुल्मोदरव्रणान् -हन्ति रेची कटूष्णश्च मेहानाहविषाश्मनुत् -- १४७आरग्वधो राजवृक्षः शम्याकश्चतुरङ्गुलः -आरेवतो व्याधिघातः कृतमालः सुवर्णकः -- १४८कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः -आरग्वधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः -- १४९ज्वरहृद्रोगपित्तास्रवातोदावर्तशूलनुत् -तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहं -- १५०ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परं -- १५१कट्वी तु कटुका तिक्ता कृष्णभेदा कटंभरा -अशोका मत्स्यशकला चक्राङ्गी शकुलादनी -- १५२मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी -कट्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः -- १५३भेदिनी दीपनी हृद्या कफपित्तज्वरापहा -प्रमेहश्वासकासास्रदाहकुष्ठक्रिमिप्रणुत् -- १५४किराततिक्तः कैरातः कटुतिक्तः किरातकः -- १५५काण्डतिक्तोऽनार्यतिक्तो भूनिम्बो रामसेनकः -किरातकोऽन्यो नैपालः सोऽर्धतिक्तो ज्वरान्तकः -- १५६किरातः सारको रूक्षः शीतलस्तिक्तको लघुः -संनिपातज्वरश्वासकफपित्तास्रदाहनुत् -कासशोथतृषाकुष्ठज्वरव्रणकृमिप्रणुत् -- १५७उक्तं कुटजबीजं तु यवमिन्द्रयवं तथा -कलिङ्गं चापि कालिङ्गं तथा भद्रयवा अपि -- १५८क्वचिदिन्द्रस्य नामैव भवेत्तदभिधायकं -फलानीन्द्रयवास्तस्य तथा भद्रयवा अपि -- १५९इन्द्रयवं त्रिदोषघ्नं संग्राहि कटु शीतलं -- १६०ज्वरातीसाररक्तार्शोवमिवीसर्पकुष्ठनुत् -दीपनं गुदकीलास्रवातास्रश्लेष्मशूलजित् -- १६१मदनश्छर्दनः पिण्डो नटः पिण्डीतकस्तथा -करहाटो मरुवकः शल्यको विषपुष्पकः -- १६२मदनो मधुरस्तिक्तो वीर्योष्णो लेखनो लघुः -वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः -रूक्षः कुष्ठकफानाहशोथगुल्मव्रणापहः -- १६३रास्ना युक्तरसा रस्या सुवहा रसना रसा -एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा -- १६४रास्नामपाचिनी तिक्ता गुरूष्णा कफवातजित् -- १६५शोथश्वाससमीरास्रवातशूलोदरापहा -कासज्वरविषाशीतिवातिकामयसिध्महृत् -- १६६नाकुली सुरसा नागसुगन्धा गन्धनाकुली -नकुलेष्टा भुजंगाक्षी सर्पाङ्गी विषनाशिनी -- १६७नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् -भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् -- १६८माचिका प्रस्थिकाम्बष्ठा तथा चाम्बालिकाम्बिका -मयूरविदला केशी सहस्रा बालमूलिका -- १६९माचिकाम्ला रसे पाके कषाया शीतला लघुः -पक्वातिसारपित्तास्रकफकण्ठामयापहा -- १७०तेजस्विनी तेजवती तेजोह्वा तेजनी तथा -तेजस्विनी कफश्वासकासास्यामयवातहृत् -पाचन्युष्णा कटुस्तिक्ता रुचिवह्निप्रदीपिनी -- १७१ज्योतिष्मती स्यात्कटभी ज्योतिष्का कङ्गुनीति च -पारावतपदी पिण्या लता प्रोक्ता ककुन्दनी -- १७२ज्योतिष्मती कटुस्तिक्ता सरा कफसमीरजित् -अत्युष्णा वामनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा -- १७३कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलं -- १७४कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु -हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान् -- १७५उक्तं पुष्करमूलं तु पौष्करं पुष्करं च तत् -पद्मपत्त्रं च काश्मीरं कुष्ठभेदमिमं जगुः -- १७६पौष्करं कटुकं तिक्तं उष्णं वातकफज्वरान् -हन्ति शोथारुचिश्वासान्विशेषात्पार्श्वशूलनुत् -- १७७कटुपर्णी हैमवती हेमक्षीरी हिमावती -हेमाह्वा पीतदुग्धा च तन्मूलं चोकमुच्यते -- १७८हेमाह्वा रेचनी तिक्ता भेदिन्युत्क्लेशकारिणी -कृमिकण्डूविषानाहकफपित्तास्रकुष्ठनुत् -- १७९शृङ्गी कर्कटशृङ्गी च स्यात्कुलीरविषाणिका -अजशृङ्गी तु चक्रा च कर्कटाख्या च कीर्तिता -- १८०शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान् -श्वासोर्ध्ववाततृट्कासहिक्कारुचिवमीन्हरेत् -- १८१कट्फलः सोमवल्कश्च कैटर्यः कुम्भिकापि च -श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च -- १८२कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान् -हन्ति श्वासप्रमेहार्शःकासकण्ठामयारुचीः -- १८३भार्गी भृगुभवा पद्मा फञ्जी ब्राह्मणयष्टिका -ब्राह्मण्यङ्गारवल्ली च खरशाकश्च हञ्जिका -- १८४भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लघुः -दीपनी तुवरा गुल्मरक्तनुन्नाशयेद्ध्रुवं -शोथकासकफश्वासपीनसज्वरमारुतान् -- १८५पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजिनी -अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः -- १८६भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः -योनिरोगान्प्रमेहांश्च प्लीहशूलव्रणानि च -- १८७धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा -सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता -- १८८धातकी कटुका शीता मृदुकृत्तुवरा लघुः -तृष्णातीसारपित्तास्रविषक्रिमिविसर्पजित् -- १८९मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका -- १९०मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि -रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका -- १९१भण्डीतकी च गम्भीरी मञ्जूषा वस्त्ररञ्जिनी -मञ्जिष्ठा मधुरा तिक्ता कषाया स्वरवर्णकृत् -- १९२गुरुरुष्णा विषश्लेष्मशोथयोन्यक्षिकर्णरुक् -रक्तातीसारकुष्ठास्रविसर्पव्रणमेहनुत् -- १९३स्यात्कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि -कुसुम्भं वातलं कृच्छ्ररक्तपित्तकफापहं -- १९४लाक्षा पलंकषालक्तो यावो वृक्षामयो जतुः -लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा लघुः -- १९५अनुष्णा कफपित्तास्रहिक्काकासज्वरप्रणुत् -व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा -- १९६अलक्तको गुणैस्तद्वद्विशेषाद्व्यङ्गनाशनः -- १९७हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी -कृमिघ्नी हलदी योषित्प्रिया हट्टविलासिनी -- १९८हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत् -वर्ण्या त्वग्दोषमेहास्रशोथपाण्डुव्रणापहा -- १९९दार्वीभेदाम्रगन्धा च सुरभीदारु दारु च -कर्पूरा पद्मपत्त्रा स्यात्सुरीमत्सुरतारका -- २००आम्रगन्धिर्हरिद्रा या सा शीता वातला मता -पित्तहृन्मधुरा तिक्ता सर्वकण्डूविनाशिनी -- २०१अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः -- २०२दार्वी दारुहरिद्रा च पर्जन्या पर्जनीति च -कटंकटेरी पीता च भवेत्सैव पचम्पचा -सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च -- २०३पीतद्रुश्च हरिद्रश्च पीतदारु च पीतकं -दार्वी निशागुणा किंतु नेत्रकर्णास्यरोगनुत् -- २०४दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यदा घनं -तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितं -- २०५रसाञ्जनं तार्क्ष्यशैलं रसगर्भं च तार्क्ष्यजं -रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् -- २०६उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् -- २०७अवल्गुजो वाकुची स्यात्सोमराजी सुपर्णिका -शशिलेखा कृष्णफला सोमा पूतिफलीति च -- २०८सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्तिता -वाकुची मधुरा तिक्ता कटुपाका रसायनी -- २०९विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् -रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् -- २१०तत्फलं पित्तलं कुष्ठकफानिलहरं कटु -केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुनुत् -- २११चक्रमर्दः प्रपुन्नाटी दद्रुघ्नो मेषलोचनः -पद्माटः स्यादेडगजश्चक्री पुंनाट इत्यपि -- २१२चक्रमर्दो लघुः स्वादू रूक्षः पित्तानिलापहः -हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन्हरेत् -- २१३हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान् -गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतं -- २१४विषा त्वतिविषा विश्वा शृङ्गी प्रतिविषारुणा -शुक्लकन्दा चोपविषा भङ्गुरा घुणवल्लभा -- २१५विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् -कफपित्तातिसारामविषकासवमिक्रिमीन् -- २१६लोध्रस्तिल्वस्तिरीटश्च शावरो गालवस्तथा -- २१७द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः -जीर्णपत्त्रो बृहत्पत्त्रः पट्टी लाक्षाप्रसादनः -- २१८लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत् -कषायो रक्तपित्तासृग्ज्वरातीसारशोथहृत् -- २१९लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधं -अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः -- २२०यदामृतं वैनतेयो जहार सुरसत्तमात् -तदा ततोऽपतद्बिन्दुः स रसोनोऽभवद्भुवि -- २२१पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः -तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः -- २२२कश्चापि मूलेषु तिक्तः पत्त्रेषु संस्थितः -नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः -बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः -- २२३रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः -रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः -- २२४भग्नसंधानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः -बलवर्णकरो मेधाहितो नेत्र्यो रसायनः -- २२५हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् -दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति -- २२६मद्यं मांसं तथाम्लं च हितं लशुनसेविनां -व्यायाममातपं रोषं अतिनीरं पयो गुडं -रसोनमश्नन्पुरुषस्त्यजेदेतान्निरन्तरं -- २२७पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः -पलाण्डुस्तु बुधैर्ज्ञेयो रसोनसदृशो गुणैः -- २२८स्वादुः पाके रसेऽनुष्णः कफकृन्नातिपित्तलः -हरते केवलं वातं बलवीर्यकरो गुरुः -- २२९भल्लातकं त्रिषु प्रोक्तं अरुष्कोऽरुष्करोऽग्निकः -तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत् -- २३०भल्लातकफलं पक्वं स्वादुपाकरसं लघु -कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनं -- २३१मेध्यं वह्निकरं हन्ति कफवातव्रणोदरं -कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरक्रिमीन् -- २३२तन्मज्जा मधुरो वृष्यो बृंहणो वातपित्तहा -वृन्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत् -- २३३भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः -वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् -हन्ति गुल्मज्वरश्वित्रवह्निमान्द्यकृमिव्रणान् -- २३४भङ्गा गञ्जामातुलानी मादिनी विजया जया -- २३५भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः -तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्धिनी -- २३६तिलभेदः खसतिलः खाखसश्चापि स स्मृतः -स्यात्खाखसफलाद्भूतं वल्कलं शीतलं लघु -- २३७ग्राहि तिक्तं कषायं च वातकृत्कफकासहृत् -- २३८धातूनां शोषकं रूक्षं मदकृद्वाग्विवर्धनं -मुहुर्मोहकरं रुच्यं सेवनात्पुंस्त्वनाशनं -- २३९उक्तं खसफलक्षीरमाफूकमहिफेनकं -आफूकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलं -तथा खसफलोद्भूतवल्कलप्रायमित्यपि -- २४०उच्यन्ते खसबीजानि ते खाखसतिला अपि -- २४१खसबीजानि बल्यानि वृष्याणि सुगुरूणि च -जनयन्ति कफं तानि शमयन्ति समीरणं -- २४२सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजं -सैन्धवं लवणं स्वादु दीपनं पाचनं लघु -स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत् -- २४३शाकम्भरीयं कथितं गुडाख्यं रौमकं तथा -- २४४गुडाख्यं लघु वातघ्नं अत्युष्णं भेदि पित्तलं -तीक्ष्णोष्णं चापि सूक्ष्मं चाभिष्यन्दि कटुपाकि च -- २४५सामुद्रं यत्तु लवणं अक्षीबं वशिरं च तत् -समुद्रजं सागरजं लवणोदधिसम्भवं -- २४६सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु -नात्युष्णं दीपनं भेदि सक्षीरमविदाहि च -श्लेष्मलं वातनुत्तीक्ष्णमरूक्षं नातिशीतलं -- २४७विडं पाकं च कृतकं तथा द्राविडमासुरं -विडं सक्षारं ऊर्ध्वाधःकफवातानुलोमनं -ऊर्ध्वं कफमधो वातं संचारयेदित्यर्थः -- २४८दीपनं लघु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च -विबन्धानाहविष्टम्भहृद्रुग्गौरवशूलनुत् -- २४९सौवर्चलं स्याद्रुचकं मन्थपाकं च तन्मतं -रुचकं रोचनं भेदि दीपनं पाचनं परं -- २५०सुस्नेहं वातनुन्नातिपित्तलं विशदं लघु -उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलजित् -- २५१औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयं -क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनं -- २५२चणकाम्लकमत्युष्णं दीपनं दन्तहर्षणं -लवणानुरसं रुच्यं शूलाजीर्णविबन्धनुत् -- २५३पाक्यं क्षारो यवक्षारो यावशूको यवाग्रजः -स्वर्जिकापि स्मृतः क्षारः कापोतः सुखवर्चकः -- २५४कथितः स्वर्जिकाभेदो विशेषज्ञैः सुवर्चिका -यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः -- २५५निहन्ति शूलवातामश्लेष्मश्वासगलामयान् -पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् -- २५६स्वर्जिकाल्पगुणा तस्माद्विज्ञेया गुल्मशूलहृत् -सुवर्चिका स्वर्जिकावद्बोद्धव्या गुणतो जनैः -- २५७सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते -टङ्कणं वह्निकृद्रूक्षं कफहृद्वातपित्तकृत् -- २५८स्वर्जिका यावशूकश्च क्षारद्वयमुदाहृतं -टङ्कणेन युतं तत्तु क्षारत्रयमुदीरितं -- २५९मिलितं तूक्तगुणकृद्विशेषाद्गुल्महृत्परं -पलाशवज्रिशिखरिचिञ्चार्कतिलनालजाः -- २६०यवजः स्वर्जिका चेति क्षाराष्टकं उदाहृतं -क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशं -- २६१भुक्तं सहस्रवेधि स्याद्रसाम्लं शुक्लमित्यपि -चुक्रमत्यम्लमुष्णं च दीपनं पाचनं परं -- २६२शूलगुल्मविबन्धामवातश्लेष्महरं सरं -वमितृष्णास्यवैरस्यहृत्पीडावह्निमान्द्यहृत् -- २६३ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP